________________
ausar ]
प्रथमकाण्डम् |
पशुः सौत्रामणी तथा । चातुर्मास्यानि सोमश्च तथैवाग्रयणक्रिया । अकाम्यत्वेऽपि नैतेपां सूतकादावनुष्ठितः । प्रक्रान्तेष्वपि चैतेषु सूतकादिसमुद्भवे । कर्तव्यान्येव होतानि वारितान्यायशेपत' इति । अतः प्रारब्धस्य सूतकरजोदोषादावप्यनुष्ठानमेव युक्तम् न शुद्धिप्रतीक्षणम् । कारिकाकारमते तु आधानं न भवतीत्युक्तमेव पूर्वम् । अथ पुनराधाननिमित्तानि लिख्यन्ते । अग्नावनुगते यस्य होमकालद्वयं व्रजेत् । उभयोर्विप्रवासे वा लौकिकोऽग्निर्विधीयते ॥ १ ॥ अनो विना समारूढमू शम्यापरासनात् । हृतोऽग्निलौकिको ज्ञेयः श्रुतौ सर्वत्र दर्शनात् ॥ २ ॥ कुरुक्षेत्रादितीर्थानां गमने देशविप्लवे । समारोपं विनैवाग्नीन्नोद्वहेयुर्विपश्चितः । आरोप्याग्नीनरण्योः स्वानुदवस्येत्सहानिभिः ॥ ३ ॥ दृष्टोऽभिर्यदि नश्येत मध्यमानो हुताशनः । ग्रामात्सीमान्तरं गच्छेत्प्रत्यक्षो हव्यवाहनः । अहुतो वत्सरं तिष्ठेदुदकेन शमं गतः । शिक्येनोद्वाहयेदग्नीन्पुनराधानमर्हति । अग्निहोत्रेण रहितः पन्थानं शतयोजनम् | आहिताग्निः प्रयायाञ्चेदग्निहोत्रं विनश्यति || ४ || अद्धं स्वयमजुहन्यो हावयेदृत्विगादिना । तस्य स्यात्पुनराधेयं पवित्रेष्टिरथापि वा ॥ ५ ॥ विहायाभिं सभार्यश्चेत्सीमामुल्लङ्घय गच्छति । होमकालात्यये तस्य पुनराधानमिप्यते || ६ || अरण्योः क्षयनाशान्निदाहेष्वग्निं समाहितः । पालयेदुपशान्तेऽस्मिन्पुनराधानमिष्यते ॥ ७ ॥ ज्येष्ठा चेद्वहुभार्यस्य ह्यतिचारेण गच्छति । पुनराधानमत्रैक इच्छन्ति न तु सूरयः || ८ || दाहयित्वाऽग्निभिर्भार्यौ सदृशी पूर्वसंस्थिताम् । पात्रैश्वाथाग्निमादव्यात्कृतदारोऽविलम्बतः ॥ ९ ॥ दाहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विविवहारानींश्चैवाविलम्बयन् ॥ १० ॥ जीवन्त्यामपि ज्येष्ठायां द्वितीयपरिणये कृते उत्सर्गेष्ट्या - ऽनीनुत्सृज्यान्यया सह पुनरादध्यादिति स्मृतिचन्द्रिकायाम् । भार्यायां विद्यमानायां द्वितीयामुद्रद्यदि । तदा वैवाहिकं कर्म कुर्यादावसध्येऽग्निमान् ॥ ११ ॥ उपघातः क्रियालोप उपेक्षा च प्रमादतः । चतुर्विधमिदं प्रोक्तं पुनराधानकारणम् ॥ १२ ॥ प्रसिद्धः कर्मणां लोप उपघातोऽन्त्यजादिना । उपेक्षणं प्रवासादि प्रमादोऽग्नेरधारणम् ॥ १३ ॥ स्पृष्टोऽग्निर्यदि चाण्डालैरुदक्यादिभिरेव वा । उपघातेषु सर्वेषु पुनस्त्वेति समिन्धनम् । यजमानश्च पत्नी च उभौ प्रवसितौ यदा । आहोमान्न निवतेंत पुनराधानमर्हति ॥ १४ ॥ यदोभावप्यतिक्रम्य सीमां प्रत्यागतौ पुनः । होमकालमतिक्रम्य तदा नश्यन्ति वह्नयः ॥ १५ ॥ विनाऽग्निभिर्यदा पत्नी नदीमम्बुधिगामिनीम् । अतिक्रामेत्तदानीनां विनाशः स्यादिति श्रुतिः ॥ १६ ॥ पन्यन्तरेऽथवा पत्यौ हुताशनसमीपगे । तदा पत्नी यथाकाममतिक्रामेन्नदीमपि ॥ १७ ॥ पत्नी सीमामतिक्रान्ता यजमानो गृहे यदि । आ होमाद्यदि नागच्छेपुनराधानमर्हति ॥ १८ ॥ एकाकिनी यदा पत्नी वह्निमादाय गच्छति । तत्र नाशोऽपरे त्वाहुर्भयाद्याते न दुष्यति ॥ १९ ॥ रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा । प्रवसन्ननिमान्विप्रः पुन- राधानमर्हति ॥ २० ॥ बह्वीनामथवैकस्यामुदक्यायां तु न व्रजेत् । एकादशे चतुर्थेऽह्नि गन्तुमिच्छेन्निमित्ततः ॥ २१ ॥ त्रयीं मुक्त्वा तु यो लोभात्प्रवसेत्पर्वसंधिषु । करोति पुनराधानं प्रायश्चित्तमृणादृते ॥ २२ ॥ नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि । न विना च निमित्तेन क्रीडाद्यर्थे तु न व्रजेत् ॥ २३ ॥ नदीसंतरणेऽग्नीनां सीमातिक्रमणे तथा । सर्वत्राद्यन्तसीनोर्वा स्वामिस्पृष्टाः स्युर ग्नयः ॥ २४ ॥ प्रत्यक्षमरणिद्वारं चान्यथाऽग्निविनाशनम् । आत्मारम्भणपक्षे तु नान्वारम्भणमिष्यते ॥ २५ ॥ तत्र नान्वारभेदग्निं पुनराधिरुदाहृता । न काप्यारम्भणं किचिल्लौगाक्ष्यादि निबन्धनात् ॥ २६ ॥ उदक्या चेद्भवेत्पत्नी प्रसूता प्रवसत्यपि । अन्वारम्भविकल्पत्वात्पुनराधिर्न तन्मतात् ॥ २७ ॥ ज्येष्ठान्वारभते वह्नि बहुनार्यस्य नेतराः । न रुच्यैकाकिनी पत्नी प्रयायादग्निभिः सह ॥ २८ ॥ राष्ट्रभ्रंशादिसंप्राप्तावुचितं यानमीदृशम् । अन्यथा प्रवसन्त्यां हि वह्नयो लौकिकाः खलु ॥ २९ ॥ राष्ट्रभ्रंशादिगमने प्राप्ते देशे मनस्वतीम् । जुहुयाच्चतुरात्तेन स्मार्तेऽग्नौ सर्वमीरितम् ॥ ३० ॥