________________
पारस्करगृह्यसूत्रम् ।
[द्वितीया स्रवेण होमः । मनसा पूर्वाधारः । ॐ प्रजापतये स्वाहा इदं प्रजापतये नममति त्यागान्तेऽग्नौ द्रव्यप्रक्षेपः । सर्वत्र त्यागान्ते द्रव्यप्रक्षेपः । ॐ इन्द्राय स्वाहा इदमिन्द्राय नमम | ॐ अग्नये स्वाहा इदमग्नये नमम । ॐ सोमाय स्वाहा इदं सो० ततोऽष्टर्चहोमः, सर्वत्र होममन्त्रेषु अनाम्नातोऽपि स्वाहाकारः कार्यः । सर्वत्र मन्त्रवत्सु जुहोत्युपदेशादित्युक्तत्वात् । ॐ त्वन्नो अमे० प्रमुमुग्ध्यस्मत्स्वाहा इदमग्नीवरुणाभ्याम् ॐ सत्वंनो० एधिस्वाहा इदमग्नीवरुणाभ्याम् ॐ इमं मे० चक्रे० इदं वरुणाय ॐ तत्वा मोषी:० इदं वरुणाय ॐ येते शतं० स्वर्काः० इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्चेति त्याग इति पद्धतिकाराः । वस्तुतस्तु देवेभ्य इति पदं विहायैव त्यागः । ॐ अयाश्चाग्ने० भेषजंळ० इदमग्नये न० ॐ उदुत्तमं० स्याम० इदं वरुणाय० ॐ भवतन्नः० मद्यनः० इदं जातवेदोभ्याम् इदमग्निभ्यामिति वा त्यागः ।। ततः स्थालीपाकहोमः ॐ अग्नये पवमानाय स्वाहा ॐ अग्नये पावकाय स्वाहा ॐ अग्नये शुचये स्वाहा ॐ अदित्यै स्वाहा । सुगमास्ल्यागाः । ततः पुनरष्टर्चहोमः । ततश्चरुशेषादग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृतेः । आज्येन अयास्यग्ने० विदः स्वाहा इदं देवेभ्यो गातुविद्भ्यः । भूः स्वाहा इदमग्नये. भुवः स्वाहा इदं वायवे० स्वः स्वाहा इदं सूर्याय० अथवा इदं भूः इदं भुवः इदं स्वः इति त्यागा इति वासुदेवभट्टाः । त्वन्नो अग्ने० सत्वन्नो अग्ने० अयाश्चाग्ने० येते शतम् उदुत्तमम्० त्यागाश्चोक्ताः । प्रजापतये स्वाहा इदं प्रजापतये । बर्हिोमः स्वाहेति, इदं प्रजापतये नममेतित्यागः । ततोऽवत्तशेषप्राशनं, पवित्राभ्यां मार्जनं, पवित्रयोरग्नौ प्रक्षेपः, यदत्र विलिप्तं तन्नेहिग्नेरसदिति लिङ्गात् पवित्रयोरुत्पवने लिप्तत्वात् । ब्रह्मणो दक्षिणादानं, प्रणीतानिनयनमेकब्राह्मणभोजनम् । ततः स्मृत्यन्तरोक्तब्राह्मणभोजनम् । अत्र मणिकाधानमिति हरिहररेणुकदीक्षितौ । तत्रायं क्रमः । मातृपूर्वमाभ्युदयिकमध्यादानं देवस्यत्वेति । इदमहमिति अवटपरिलेखः, उत्तरपूर्वस्यां खननम् पांसूद्वापः प्राच्याम् । अवटे कुशास्तरणमक्षतारिष्टकानां चावापः । हरिद्रादीनां च । मणिकस्य मानं समुद्रोऽसि शंभूरित्यन्तेन। आपोरेवतीः क्षयथाहिवस्वः क्रतुं च भद्रं विभृथामृतंच । रायश्वस्थस्वपत्यस्य पत्नीः सरस्वतीतद्गुणते वयोधाः आपोहिष्ठेति तिमृभिश्वोदकासेकः । ततो ब्राह्मणभोजनम् । आधाने पदार्थापचारे नैमित्तिकहोमस्याभावः अग्न्यभावात् । नन्वस्ति मन्थनादूर्ध्वमग्निस्तत्र होमः स्यादिति चेन्मैवम् । आवसथ्यशब्दो हि संस्कारनिमित्तोन जातिनिमित्तोन योगनिमित्तो वा। संस्कारेषु सत्सु शब्दप्रयोगदर्शनात् । अतश्च ये पदार्था दृष्टार्था अदृष्टार्थाश्च पठितास्ते सर्वे आवसथ्याधानगन्दवाच्याः। एवं सति संस्कारैकदेशाभावेऽप्यनावसथ्यता । अतः सकलकर्मसमुदायावृत्तिरिति संप्रदायः। तथा च कारिकायाम्-अग्न्याधेयस्य मध्ये च विलिष्टं किञ्चिदाप्यते । प्रायश्चित्तन्न विद्येत आधानावृत्तिरिष्यते । तत्राग्निमन्थनादूर्व विलिष्टे मन्थनादितः । आवर्तत इदं कर्म पूर्व च नान्दिकं विनेति । अत्र वदामः । कश्चित्संस्कारोऽङ्गवान्भवति । यथाऽऽज्याहुतिहोमे आज्याधिश्रयणाद्यङ्गम् । चर्वाहुतौ चरुसंस्काराः पर्यमिकरणादयः । यस्यैवाजिनोऽङ्गापचोरस्तस्यैवावृत्तियुक्तरूपा न सकलस्याधानस्येति । नतु प्रायश्चित्तमिति कर्कोपाध्यायाः । युक्तरूपं चैतत् । इत्यावसथ्याधानम् । आधानमध्ये यदा पत्नी रजस्वला तदा वि. शेषः कारिकायाम् । अर्वाक् पूर्णप्रदानाचेदाधाने स्त्री रजस्वला । तच्छुद्धौ पुनराधानं मातृपूजनपूर्वकम् । स्यातां ते अरणी तत्र योनिः सैवोत्तरा तथा । आधानानन्तरं चेत्स्याद्रजोयुक्ता कथञ्चन । मणिकादि न कर्तव्यमृषिदेवोऽब्रवीदिदम् । आधानग्रहणादूर्व न स्यात्तत्रैव सूतकम् । मणिकादि न कर्तव्यं कुर्यादेकादशेऽहनि । बौधायनमतादेवं भारद्वाजमतादपि । अत्र प्रायश्चित्तं देवभाष्ये-'पन्यां रजस्वलायां सूतिकायां वा प्रारम्भ कर्म क्रियत एवेति गदाधरः । तथा त्रिकाण्डमण्डनः, रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा । नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन । आधानं पुनराधान