________________
३५
Refuser ]
प्रथमकाण्डम् |
द्धप्रतिष्ठार्थममुकशर्मभ्यां भवद्स्यामियं द्राक्षामलकार्द्रमूलकादिरूपा विष्णुदैवता दक्षिणा मया दत्ता इति देवब्राह्मणाभ्यां दक्षिणां दत्त्वाऽमुकगोत्राणां नान्दीमुखीनां मातृपितामही प्रपितामहीना ममुकामुकदेवीनां कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थममुकगो० दत्तेति मात्रादित्राह्मणाभ्यां दक्षिणां दत्त्वा अमुकगोत्राणां नान्दीमुखानां पितृ० नाम अमुकामुकशर्मणां कृतैतदाभ्युदयि० दत्तेति पित्रादि० दत्त्वा पित्रादिपदस्थाने मातामहादिपदप्रक्षेपेण मातामहादित्राह्मणाभ्यां दक्षिणां दद्यात् । ततो विश्वेदेवाः प्रीयन्तामित्युक्त्वा देवद्विजाभ्यां विश्वेदेवाः प्रीयन्तामिति प्रत्युत्तरे दत्ते स्वस्ति भवन्तो ब्रुवन्त्वति सर्वान्प्रत्युक्त्वा स्वतीति तैरुक्ते ब्राह्मणान्प्रणिपत्य प्रसाद्य वाजेबाजेवतेति मात्रादिवर्गत्रयद्विजपूर्वकं देवद्विजौ विसृज्य आमावाजस्येति विप्राननुत्रज्य प्रदक्षिणीकृत्याचामेत् । ततो मातृकादि विसर्जयेत् । जीवन्मातृकस्य न मातृपार्वणम् । जीवन्मातामहस्य न मातामहपार्वणम् । द्वारलोपात् जीवत्पितृकस्तु येभ्यः पिता दद्यात्तेभ्यो दद्यादित्युक्तमेव । यदा तु पक्वान्नासंभवस्तदा आमश्राद्धविधिना आमान्नेन कर्तव्यम् । आमान्नस्याप्यलाभे हिरण्येन कर्तव्यम् । ततः पत्नीयजमानयोरहतवस्त्रपरिधानम् । ततः सपत्नीकः प्राङ्मुख उपविश्याद्येत्यादिदेशकालौ स्मृत्वा स्मार्ताग्निमहमाधास्ये इति संकल्पं कुर्यात् । आभ्युदयिकश्राद्धात्पूर्व संकल्प इति हरिहरः श्राद्धोत्तरमिति रेणुकः । वैकल्पिकावधारणम् । मन्थनाग्निः उत्तरतः पात्रासादनम् द्वे पवित्रे घृतस्थाली मृन्मयी चरुस्थाली औदुम्बरी पालाश्यः समिधः प्राञ्चावघारौ कोणयोराज्यभागौ दक्षिणा पूर्णपात्रं इत्यवधारणम् । हरिहरमते ब्रह्मवरणमरणिप्रदानं च । तत्रैवं ब्रह्मा अरणी आदायाधरारणि पत्न्यै उत्तरारणि यजमानाय प्रयच्छति । तौ चावसथ्याग्निसाधनभूते इमे अरणी आवाभ्यां परिगृहीते इति परिगृहीतः । अरणिप्रदानं स्मार्ते निर्मूलत्वादुपेक्षणीयम् । प्रदानाभावेऽपि धारणं भवत्येव ' अधरारणि पत्नी विभृयादुत्तरां पतिः' इति यज्ञपार्श्वपरिशिष्टात् । उक्तप्रकारेणारणिमानम्, अरणिपूजनम् । ततो यवोनचतुर्दशाङ्गुलमानेन मेखलायुक्तवृत्तखरकरणमग्नेः, सभ्यावसथ्ययोर्गार्हपत्यवत्कुण्डमिति निगमपरिशिष्टात् । यज्ञपार्श्वेऽपि वृत्तमेव कुण्डमुक्तम् । मेखला द्वादशाङ्गुलोचा कार्या । ततः खरे परिसमृहनमुपलेपन मुलेखनमुद्धरणमभ्युक्षणमरणिपक्षेऽग्निमन्थनम् । तत्र यजमानः प्राड्मुख ओविली धारयति प्रत्यङ्मुखी पत्नी मन्धनं करोति । पत्नीवहुत्वे सर्वाभिर्मन्थनमिति रेणुकः । पत्न्या मन्थनाशक्तौ ब्राह्मणेन केनचिन्मन्थनं कार्यम् । काष्ठैरग्नेः प्रज्वालनं खरे निधानम् । अथवा वैश्यगृहादग्निमाहृत्याग्नेः खरे स्थापनम् । ऋष्यादिस्मरणमत्रेति रेणुकगङ्गाधरहरिहराः । तद्विचारणीयम् । कर्मकाले प्रतिमन्त्रं स्मरणमुत पूर्व - मेव स्मरणं कृत्वा कर्मारम्भः एतान्यविदित्वा योऽधीतेऽनुव्रते यजते याजयते तस्य ब्रह्म निर्वीर्य यातयामं भवतीति सर्वानुक्रमण्यामुक्तत्वात्तत्तत्पदार्थज्ञानमात्रमपेक्षितं नतु कर्मकालोच्चारणं यथा अर्थज्ञानम् । अस्मिन्नावसथ्याधाने त्वं ब्रह्मा भवेति ब्रह्मणो व्यपदेशः, दक्षिणतो ब्रह्मासनमास्तीर्य तत्र ब्रह्मोपवेशनम् । अग्नेरुत्तरतः प्रणीताप्रणयनं, परिस्तरणं पात्रासादनं, त्रीणि पवित्रच्छेदनानि, पवित्रे द्वे, प्रोक्षणीपात्रं वारणम्, वैकङ्कतामिति रेणुकः । आज्यस्थाली, चरुस्थाली, संमार्गकुशाः, उपयमनकुशाः, समिधस्तिस्रः प्रादेशमात्र्यः खादिर: स्रुवः, आज्यं, त्रीहितण्डुलाः, दक्षिणा पूर्णपात्रो बरो वा । पवित्रे कृत्वा प्रोक्षणीसंस्कारः, प्रत्येकं पात्रप्रोक्षणं प्रणीताग्न्योर्मध्ये प्रोक्षणीनिधानम्, आज्य निर्वाप:, चरुपात्रे प्रणीतोदकमासिच्य तण्डुलप्रक्षेपः । चर्वाज्ययोस्सहाधिश्रयणमिति पद्धतिकारः । दक्षिणत आज्यस्य । ब्रह्मणः उत्तरतश्चरोः स्वस्य । पर्यनिकरणमुभयोः स्वस्यैव, स्रुवप्रतपनम्, संमार्गकुशैः संमार्जनम्, प्रणीतोदकेनाभ्युक्षणम्, पुनः प्रतपनम्, आज्योद्वासनम्, चरोरुद्वासनम्, आज्योत्पवनम्, अवेक्षणम्, अपद्रव्यनिरसनम्, प्रोक्षण्युत्पवनम्, उपयमनादानम् तिष्ठतः समिध: प्रक्षेपः, प्रोक्षण्युदकेन पर्यु - क्षणम्, प्रणीतासु पवित्रकरणम्, अग्नेरुत्तरतः प्राड्मुख उपविश्य दक्षिणं जान्वाच्य ब्रह्मणाऽन्वारब्धः