________________
३४
पारस्करगृह्यसूत्रम् ।
[द्वितीया वेश्य स्वयमुदङ्मुख उपविश्य कर्मसौकर्यार्थ कर्मपान जलेनापूर्य दूर्वादवियवकुशास्तत्र निक्षिप्य प्राणायामत्रयपूर्वकं विष्णुस्मरणं कृत्वा कर्मपात्रजलेनोपकरणानि प्रोक्ष्य दूर्वाकुशयवजलानि दक्षिणकरेणादाय पूर्ववद्देशकालकीर्तनान्ते अमुककर्मनिमित्ताभ्युदयिकश्राद्धाख्ये कर्मणि अमुकगोत्राः नान्दीमुखारमन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्योऽमुकगोत्रा नान्दीमुखास्मत्पितृपितामहप्रपितामहा अमुकामुकगमाणः अमुकगोत्रा नान्दीमुखा अस्मन्मातामहप्रमातामहवृद्धप्रमातामहाः अमुकामुकशर्माणः प्रधानदेवताः सत्यवसुसंज्ञका विश्वेदेवा अङ्गदेवताः यथोक्तलझणं हविः ब्राह्मण आहवनीयाथें। अमुकगोत्राणां नान्दीमुखास्मन्मातृपितामहीप्रपितामहीनाममुकामुकदेवीनाममुकगोत्राणा नान्दीमुखास्मपितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोनाणा नान्दीमुखाम्मन्मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुकशर्मणाममुककर्मनिमित्तं सत्यवसुसंज्ञकविश्वेदेवपूर्वकं सांकल्पिकमाभ्युदयिक श्राद्धं भवदनुज्ञयाऽहं करिष्ये इति संकल्पः । कुरुष्वेति प्रतिवचनम् । तत: सप्रणवव्याहृतिपूर्विकाया गायत्र्यास्त्रिजपः विष्णुस्मरणम् । मात्रादित्रयपित्रादित्रयमातामहादित्रयश्राद्धसंवन्धिनः सत्यवसुसंज्ञका विश्वेदेवा इदमासनं वो नम इति प्रागवाजुकुशवयं सयवजलं दक्षिणतः आसनोपरि दत्त्वा, अमुकगोत्राः नान्दीमुख्योऽस्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्यः इदमासनं वो नम इति मातृवर्गविप्रयासनोपरि विभज्य दत्त्वा, अमुकगोत्राः नान्दीमुखास्मत्पितृपितामहप्रपितामहा अमुकामुकशाप: इदमासनं वो नम इति पितृवर्गवाह्मणद्वयासनोपरि दत्त्वा, पित्रादिपदस्थाने मातामहादिपदप्रक्षेपेण तदीयब्राह्मणद्वयासनोपर्यासनं दद्यात् । तत: प्रत्यासनं दीपस्थापनम् । ततो द्वितीयब्राह्मणहस्ते प्रथमत्राह्मणहस्तं दत्त्वा तत्र जलदानपूर्वकं गन्धादि दत्त्वा कुशयवजलान्यादाय मात्रादिपित्रादिमातामहादित्रयसंवन्धिसत्यवसुसंज्ञका विश्वेदेवा इमानि गन्यपुष्पधूपदीपवासोऽलंकरणताम्बूलानि वो नमः । अमुकगोत्राः नान्दीमुख्यः अस्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदव्यः इमानि गन्ध० ताम्बूलानि वो नमः । अमुकगोत्राः नान्दीमुखास्मपितृपितामहप्रपितामहाः अमुकामुकशर्माणः इमानि गन्ध० ताम्बूलानि वो नमः । अमुकगोत्रा नान्दीमुखास्मन्मातामहप्रमातामहवृद्धप्रमातामहा अमुकामुकशर्माण इमानि गन्ध० ताबूलानि वो नमः । अन्नपरिवेषणम् । पात्रमालभ्य पृथिवी ते० जुहोमि स्वाहेति जपित्वाऽङ्गुष्टमन्नेऽवगाह्य इदमन्नमिमा आप इदमाज्यं हविरित्युक्त्वा मात्रादित्रयपित्रादित्रयमातामहादित्रयसंवन्धिनः सत्यवसुसंज्ञका विश्वेदेवा इदमन्नं घृताद्युपस्करसहितं परिविष्टं परिवेष्यमाणं च द्विजेभ्यस्तृप्तिपर्यन्तममृतरूपं वो नम इत्युत्सृजेत् । एवमेव मात्रादिपात्रद्वयमालभ्यामुकगोत्रा नान्दीमुख्योऽस्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्य इदमन्नं धृताशुपस्करसहितममृतरूपं वो नमः । एवमेव पित्रादिपात्रयोर्मातामहादिपात्रयोरपि संकल्पं कुर्यात् । ततोऽभत्सु पित्र्यमन्त्रवर्ज जपः । तृप्तान ज्ञात्वाऽनं विकीर्य सकृत्सकदपो दत्त्वा पूर्ववद्गायत्री अपित्वा मधुमतीमधुमध्विति च । संपन्नमिति पृष्ट्वा सुसंपन्नमिति तैरुक्ते शेषमन्नं किं क्रियतामिति पृष्ट्वा इष्टः सह भुज्यतामिति तैरुक्के ब्राह्मणानाचामयेत् । सुप्रोक्षितमस्तु शिवा आपः सन्तु सौमनस्यमस्तु अक्षतं चारिष्टं चास्तु नान्दीमुख्यो मातरः प्रीयन्ताम् । नान्दीमुख्यः पि० न्ताम् । नान्दीमुख्यः प्र० न्ताम् । नान्दीमुखाः पितरः प्रीयन्ताम् । नान्दी पितामहाः प्रीयन्ताम् । नान्दी० प्रपि० न्ताम् । नान्दी० मातामहाः प्रीयन्ताम् । नान्दी० प्रमा० प्रीयन्ताम् । नान्दी० वृद्धप्रमा० पी० । इति क्षीरयवजलानि दद्यात् । ततः प्राञ्जलिराशीः प्रार्थयेत् । अघोराः पितरः सन्तु सन्विति ब्राह्मणाः । गोत्रन्नो वर्द्धतामिति यजमानः वर्द्धतामिति ते । दातारो नोऽभिवर्द्धन्तामभिवर्धन्तामिति ते । वेदाः सतन्तिरेव च अभिवर्द्धतामितिक्रमेणोत्तरे । श्रद्धा च नो मा व्यगमत् । मागात् । बहुदेयं च नोऽस्तु अस्तु इति प्रतिवचनम् । ततो मात्रादित्रयपित्रादित्रयमातामहादित्रयश्राद्धसंबन्धिवैश्वदेविकश्रा