________________
कण्डिका ]
प्रथमकाण्डम् ।
३३
धृते तुष्टे पुष्टे आत्मकुलदेवते इति प्रत्येकमावाह्य ततो मनो जूतिरिति प्रतिष्ठाप्य ॐ गणपतये नम इति प्रणवादिनमोन्त चतुर्थ्यन्तस्वस्वनाममन्त्रेण पञ्चदशापि षोडशोपचारैः पूजयेत् । मातृणां गणदेवतात्वपक्षे तु गणपति गौरी पद्मा शची मेधा सावित्री विजया जया देवसेना स्वधा स्वाहा धृतिः तुष्टिः पुष्टिरात्मकुलदेवता इहागच्छत इहतिष्ठतेति आवाह्य प्रतिष्ठाप्य ॐ गणपत्यादिभ्यो नम इति पूर्ववदुपचारैः पूजयेत् । तत पश्ञ्च सप्तः वा नातिनीचा नचोच्छ्रिताः कुड्यादिषु वसोः पवित्रमसीति घृतधारा उत्तरसंस्थाः कुर्यात् । ततो वसोर्द्धारादेिवताभ्यो नम इति पञ्चोपचारैः पूजां कुर्यात् । वसोर्द्धाराकरणञ्च कातीयानामेव नान्येपाम् । तत आयुष्यमन्त्रजप: आयुष्यं वर्चस्यं० दुमाम् ॥ १ ॥ न तद्रक्षार्थं सि० मायुः ॥ २ ॥ यदावनन्दा० यथासम् || ३ || इत्यादि आयुष्यमन्त्रजपः । अथ नान्दीश्राद्धं तच त्रिविधं, विवाहादिनित्यनैमित्तिकं (?) पुत्रजन्माद्यनियतनिमित्तम् अन्याधानादिनिमित्तं चेति । तत्र विवाहादिनिमित्तं प्रातः कार्यम् । तदाह शातातप:-- प्रातर्वृद्धिनिमित्तकमिति । अत्र प्रातः शब्दः सार्द्धप्रहरात्मककालवचनः । तदाह गार्ग्यः । ललाटसंमिते भानौ प्रथमः प्रहरः स्मृतः । स एव सार्द्धसंयुक्तः प्रातरित्यभिधीयते । अग्न्याधाननिमित्तं त्वपराह्ने कार्यम् । तदाह गालवः । पार्वणं चापराहेतु वृद्धिश्राद्धं तथाग्निकमिति । अग्न्याधानमित्तं वृद्धिश्राद्धमपराह्ने कुर्यादित्यर्थः । पुत्रजन्मादौ निमित्तानन्तरमेव तत्कार्यम् । निर्णयामृतेऽप्येवम् । कर्ता उक्तकाले सुस्नातः सुप्रक्षालितकरचरणः स्वाचान्तः सुनातानाचान्तानष्टौ ब्राह्मणानाहूय वहिरुक्ते गोमयोपलिप्ते मण्डले स्वागतं वः सुस्वागतमिति प्रत्येकं प्रश्नोत्तरपूर्वकं प्रागग्रकुशोत्तरेष्वासनेषु प्राङ्मुखान् दक्षिणोपक्रमान् उदगपवर्गान् उपवेश्य स्वयमुदङ्मुख उपविश्य आद्ययोर्विप्र - योर्जानुनी स्पृशन् प्राग्वद्देशकालौ सङ्कीर्त्य अमुककर्मनिमित्ताभ्युदयिक श्राद्धाख्ये कर्मणि नान्दीमुखा - स्मन्मात्रादित्रय - नान्दीमुखास्मत्पित्रादित्रय - नान्दीमुखास्मन्मातामहादित्रयसंबन्धि - सत्यवसुसंज्ञकविश्वेदेवकृत्ये भवन्तौ मया निमन्त्रिताविति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् । निमन्त्रितौ स्वः इति प्रतिवचनम् । पुनस्ताम्बूलादिकमादाय तदुत्तरयोजनुनी स्पृशन अद्येहामुकगोत्राणां नान्दीमुखास्मन्मातृपितामहप्रपितामहीना ममुका मुकदेवीनामद्येहकर्तव्यामुककर्मनिमित्ताभ्युदयिक श्राद्धे भ वन्तौ मया निमन्त्रितौ इति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् निमन्त्रितौ स्व इति प्रतिवचनम् । पुनस्ताम्बूलादिकमादाय तदुत्तरयोर्विप्रयोर्जानुनी स्पृशन् अचेहामुकगोत्राणां नान्दीमुखास्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणामद्यकर्तव्यामुककर्मनिमित्ताभ्युदयिकश्राद्धे भवन्तौ मया निमन्त्रिताविति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् निमन्त्रितौ स्व इति प्रतिवचनम् । पुनस्ताम्बूलादिकमादायाद्येामुक गोत्राणां नान्दीमुखास्मन्मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुक शर्मणामद्यकर्तव्यामुककर्मनिमित्ताभ्युदयिकश्राद्धे भवन्तौ मया निमन्त्रिताविति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् निमन्त्रितौ स्व इति प्रतिवचनम् । अक्रोधनैः शौ० कारिणेति सर्वत्र नियमान् श्रावयेत् । ततो देवद्विजपूर्वकं चरणप्रक्षालनं विधाय अद्येह नान्दीमुखास्मन्मात्रादित्रयनान्दीमुखास्मत्पित्रादित्रयनान्दीमुखास्मन्मातामहादित्रयसम्बन्धिसत्यवसुसंज्ञका विश्वेदेवा एतत्पादायै वो नम इति गन्धाक्षतादियुक्तं पादार्घ्यन्दत्वा अद्येहामुकगोत्रा नान्दीमुखास्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्य एतस्पादायै वो नम इति मातृवर्गत्रयत्राह्मणचरणयोर्दत्त्वा अद्येहामुकगोत्रा नान्दीमुखास्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माण एतत्पादार्घ्यं वो नम इति पित्रादिवर्गब्राह्मणचरणयोर्दत्त्वा अधेहामुकगोत्रा नान्दीमुखास्मन्मातामहप्रमातामह्वृद्धप्रमातामहा अमुकामुकशर्माण एतत्पादायै वो नम इति मातामहवर्गत्राह्मणचरणयोरव्यं दद्यात् । ततो ब्राह्मणानाचामय्य स्वयमप्याचम्य श्राद्धदेशे प्रथमकल्पितेष्वासनेषु इदमासनमास्यतामिति प्रयोगेणोदगपवर्ग प्राङ्मुखान्देवपूर्वं द्विजानुप