________________
३२
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
I
पिता पितामहचैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखाह्येते पितरः सम्प्रकीर्तिताः । तेभ्यः पूर्वे त्रयो येतु ते तु नान्दीमुखाः स्मृता इति तत् महालयप्रकरणपठितप्रौष्टपद पौर्णमासीनिमित्तकश्राद्धविषयं तत्प्रकरर्णपाठादित्येव हेमन्यादय ऊचिरे । इह च नान्दीमुखसंज्ञकान्मात्रादीनुद्दिशेत् । विष्णुपुराणे कन्याविवाहादीननुक्रम्य नान्दीमुखान्पितृनादौ तर्पयेत् प्रयतो गृहीत्युक्तेः । ब्रह्मपुराणे च जन्माद्यनुक्रम्य पितृन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्वकमित्युक्तेः । वृद्धपराशरेण तु देवानामपि नान्दीमुखविशेपणमुक्तम् । नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणं कुशासनमिति । वृद्धिश्राद्धे च कालः । कर्माहात्पूर्वेद्युर्मातृपार्वणं कर्मा पितृपार्वणं कर्मोत्तराहे मातामहपार्वणमिति । अस्यासंभवे पूर्वेद्यरेव पूर्वाह्ने मातृकं मध्याह्ने पैतृकमपराहे मातामहानाम | अस्याप्यसंभवे आह वृद्धमनुः । अ- ' लाभे श्राद्धकालानां नान्दीश्राद्धत्रयं चुधः । पूर्वेद्युरेव कुर्वीत पूर्वी मातृपूर्वकमिति । इद्वै च महत्सु कर्मसु । अल्पेषु तु कर्माह एव श्राद्धम् । पुत्रजन्मनि तु दिने वा रात्रौ वा मुक्तवतोपवासिना वा पुत्रजन्मानन्तरमेव कार्यम् । अत्र संकल्पादौ विशेषः संग्रहे-- शुभाय प्रथमान्तेन संकल्पमाचरेत् । न पष्टया यदि वा कुर्यान्महान्दोपोऽभिजायते || अनस्मद्वृद्धशब्दानामरूपाणामगोत्रिणाम् | अनान्नामतिलाद्यैश्च नान्दीश्राद्धं च सव्यवत् । आश्वलायनकारिकायाम् । संवन्धनामरूपाणि वर्जयेदनकर्मणि इदं तु शाखान्तरविपयम् । अत्र सत्यवसू विश्वेदेवौ तत्स्थाने द्वौ विमौ । मात्रादीनां च प्रत्येकं द्वौ द्वौ एवं विंशतिर्ब्राह्मणाः । यद्वा मात्रादीनां त्रयाणां द्वौ द्वौ एवमष्टौ । अत्र नापसव्यं तिलस्थाने वा एव स्वास्थाने स्वाहाशब्दः सव्यजानु निपाताभावः सर्वे प्राड्मुख एव कुर्यात् । प्रदक्षिणमुपचार ऋजुदभैः क्रियेत्यादयो विशेषा ग्रन्थान्तरतो ज्ञेयाः । पिण्डदाने कुलदेशाऽऽचारतो व्यवस्था । भविष्यपुराणे । पिण्डनिर्वपणं कुर्यान्न वा कुर्यान्नराधिप । वृद्धिश्राद्धे महाबाहो कुलधर्मानवेक्ष्य तु । पिण्डदानपक्षे विशेषो वसिष्ठेनोक्तः । दधिकर्कन्धुमिश्रांश्च पिण्डान्दद्याद्यथाक्रमम् । कर्कन्धुर्बदरीफलम् | एकैकस्मै पिण्डद्वयं देयम् । एकन्नाम्नाऽपरन्तूष्णीं दद्यात्पिण्डद्वयं वुध इति चतुर्विंशतिमतात् । अन्ये च बहवो विशेपा ग्रन्थान्तरतो ज्ञेयाः । दाक्षिणात्यानां गुर्जराणा च विस्तृतवृद्धिश्राद्धाभावान्नेहो - च्यते । अथाभ्युदयिके कर्तृनिर्णयः सायणीये - नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः | अत ऊ प्रकुर्वीत स्वयमेव तु नान्दिकम् । द्वितीयपाणिग्रहादौ वर एव कुर्यादित्यर्थः । कात्यायनः स्वपितृभ्यः पिता दद्यात्सुतसंस्कार कर्मसु । पिण्डानोद्वाहनात्तेपां तस्याभावे तु तत्क्रमात् । तेषां सुतानामोद्वाहनात्प्रथमविवाहपर्यन्तं पिता स्वपितृभ्यः पिण्डास्तदुपलक्षितं वृद्धिश्राद्धं कुर्यात् तस्य पितुरभावे तु तस्य संस्कार्यस्य पितॄणां यः क्रमस्तेन क्रमेण पितृव्याचार्यमातुलादिः श्राद्धं दद्यात् न च स्वपितृभ्यः इति हेमाद्रिणा व्याख्यातम् । जीवत्पितृकस्तु पितृमात्रादिभ्यो वृद्धिश्राद्धं कुर्यात् । वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः । एतत्सानिकविपयकमित्येके । विष्णुः । पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेभ्य एव तत्कुर्यात्पितरि पितामहे च येषां पितामहः । पितरि पितामहे प्रपितामहे च नैव दद्यादिति । अथाश्वलाय - नगृह्यपरिशिष्टे तु जीवत्पिता सुतसंस्कारेषु मातृमातामहयोः कुर्यात् तस्यां जीवत्यां मातामहस्यैव कुर्यादिति । अथास्य शिष्टप्रचाराचारपरिगृहीतः संकल्पविधिना प्रयोगः । उपनयनादिमहत्सु कर्मसु पूर्वेद्युर्जातकर्माद्यल्पेषु तदहरेव नान्दीश्राद्धं कुर्यात् । तत्रादौ कर्ता कृतमाङ्गलिकस्तानो धौतचासाः कृतस्वस्त्ययनो नान्दीश्राद्धपूर्वाङ्ग मातृकापूजनं कुर्यात् । पूजाप्रकारस्तु पूजोपकरणान्युपकल्प्य प्राङ्मुख उपविश्य कुशयवजलान्यादाय अद्येत्यादि अमुककर्माङ्गतया गणपति गौर्यादिचतुदेशमातृका पूजनमहं करिष्ये इति सङ्कल्प्य । अक्षतैः ॐ भूर्भुवः स्वः गणपते इहागच्छ इह विष्ट ॐॐ भूर्भुवः स्वः गौरि हागच्छ इह तिष्ट । एवं पद्मे शचि मेधे सावित्रि विजये जये देवसेने स्वधे स्वाहे
1
1