________________
कण्डिका]
प्रथमकाण्डम्। न्ताम् श्रीसरस्वत्यौ प्रीयेताम् श्रद्धामेधे प्रीयेताम् भगवती कात्यायनी प्रीयताम् भगवती वृद्धिकरी प्रीयताम् भगवन्तौ विघ्नविनायकौ प्रीयेताम् भगवान्स्वामी महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीय० हरिहरहिरण्यगर्भाः प्रीयन्ताम् सर्वा ग्रामदेवताः प्रीयन्ताम् सर्वाः कुलदेवताः प्रीयन्ताम् हताश्व ब्रह्मविद्विषः हताः परिपन्थिनः हताः अस्य कर्मणो विघ्नकर्तारः शत्रवः पराभवं यान्तु शाम्यन्तु घोराणि शाम्यन्तु पापानि शाम्यन्वीतयः शुभानि वर्द्धन्ताम् शिवा आपः सन्तु शिवाजातवः सन्तु शिवा अग्नयः सन्तु शिवा आहुतयः सन्तु शिवा ओपधयः सन्तु शिवा वनस्पतयः सन्तु शिवा अतिथयः सन्तु अहोरात्रे शिवे स्याताम् निकामे० कल्पताम् । शुक्रा'झारकबुधवृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् भगवान्नारायणः प्रीयत.म् भगवान्पर्जन्यः प्रीयताम् भगवान्स्वामी महासेनः प्रीयताम् पुण्याहकालान्वाचयिष्ये ब्राह्मणाः वाच्यताम् । उद्गाते. पुण्यमावद् । अनया पुण्याह एव कुरुते । ब्राह्मणाः मम गृहे अस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु । इति स्वयं मंदस्वरेणोक्त्वा ब्राह्मणैः ओं पुण्याहमिति तथोक्ते पुनरेव मध्यमस्वरेणोक्त्वा तथैव तैरुक्ते पुनरेवमुचस्वरेणोक्त तथैव तैरुक्ते । स्वस्तये. तुनः । आदित्य० ममृतथं स्वस्ति ब्राह्मणा इत्यादि कर्मणइत्यन्तं पूर्ववत्स्वस्ति भवन्तो ब्रुवन्तु इतित्रिः । आयुमते स्वस्तीति प्रतिवचनं तिः । नरभ्याम० काममप्राः सर्वामृद्धिं प्रतितिष्ठति ब्राह्मणमित्यादि । अस्य कर्मणः अद्धि भवन्तो ब्रुवन्तु इति त्रिः । ओ ऋध्यतामितित्रिः । श्रियेजातः श्रिये० मितद्रौ । श्रियएवै० एवं वेद ब्राह्मणमित्यादि । अस्य कर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्त्विति त्रियात् । अस्तु श्रीरिति विप्रास्त्रिः । ततः कर्तुमितः पत्नीमुपवेश्य पात्रपातितजलेन पल्लवदूर्वादिभिरुदङ्मुखा विप्रा अभिषिञ्चेयुस्तिष्ठन्तः । तत्र मन्त्राः । देवस्यत्वेत्यादि । सुरास्वामभिपिञ्चन्त्वित्यादिपौराणान् श्लोकानपि पठन्त्यभिपेके ततो नीराजनं कुर्यात् । अथाभ्युदयिकश्राद्धविधिः । तब गर्भाधानादियु गर्भसंस्कारेषु जातकर्मादिष्वपत्यसंस्कारेषु अग्न्याधानादिपु औतकर्मसु श्रवणाकर्मसु वापीकूपतडागारामायद्यापनादिषु देवप्रतिष्ठायां वानप्रस्थाश्रमसंन्यासस्वीकारे तुलापुरुषादिमहादानादौ नवगृहप्रवेशे महानाम्न्यादिवेदव्रतेषु राजाभिषेके शान्तिकपौष्टिकेपु च सर्वेषु उपाकर्मोत्सर्जनयोरप्येके नवीनयोऽनयोरन्यत्राप्येवंविधे कार्यम् । इदमाभ्युदयिकश्राद्धं वक्ष्यमाणं च मातृपूजनमेकस्यानेकसंस्कारेष्वेककर्तृकेषु युगपटुपस्थितेषु सर्बादौ सकृदेव तन्त्रेणैव कार्य, नतु प्रतिसंस्कारमावृत्त्या । यथा दैवादकृतजातकर्मादिकस्योपनयनकाले जातकर्माधनुष्टाने देशान्तरगतस्य मृतबुद्धथा कृतोदैहिकस्यागतस्य पुनर्जातकर्मादिसंस्काराणां विहितानां युगपदनुष्ठाने कर्मनाशाजलस्पृष्टादीनां प्रायश्चित्ततया पुनःसंस्काराणां युगपदनुष्ठाने वा । तदुक्तं ब्रह्मपुराणे । गणशः क्रियमाणानां मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिष्विति। कात्यायनः । कुड्यलग्ना वसोर्द्वाराः पञ्चधारा घृतेन तु । कारयेत्सप्त वा धारा नातिनीचा न चोट्रिताः । गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सहेति । आत्मदेवता आत्मकुलदेवता । आयुष्याणि च शान्त्यर्थे जपेत्र समाहितः । आयुष्याणि आनोभद्रा इत्यादीनि । ततो वृद्धिश्राद्धं नवदैवत्यं पार्वणत्रयात्मकम् । तत्र क्रममाहाश्वलायनाचार्यः । माता पितामही चैव संपूज्या प्रपितामही । पित्रादयखयश्चैव मातुः पित्रादयस्त्रयः । एते नवाऽर्चनीयाः स्युः पितरोऽभ्युदये द्विजैरिति । यत्तु वृद्धवसिष्ठः। नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । नाम सङ्कीर्तयेद्विद्वानन्यत्र पितृपूर्वकमिति स्मृत्यर्थसारश्च । वृद्धमुख्यास्तु पितरो वृद्धिश्राद्धेषु भुञ्जते इति, तच्छाखान्तरविपयम् । कात्यायनानां तु आनुलोन्येन मात्रादिक्रमेणैव नान्दीमुखाः पितरः पितामहाः प्रपितामहा इति प्रयोगदर्शनात् । यत्तु ब्रह्मपुराणे