________________
४२० पारस्करगृह्यसूत्रम्।
तर्पणविधिलिङ्गमेव विनियोजकं येषां ते ग्राह्या इत्यर्थकम् । तल्लिङ्गैरिति मन्त्रैरर्चयेत् ब्रह्मविष्णुरुद्रसवितृमित्रवरुणान् पृथक् पूजयेत् आवाहनादिमिरुपचारैः । अदुःयेत् । अहश्रमस्यकेतव इति हट्सः शुचिपदित्येताभ्यामृग्भ्यामादित्यं भगवन्तं विवस्वन्तमुपस्थाय प्रदक्षिणमावृत्य दिशः प्राच्याद्या देवताश्च सन्निधानादिशामधिष्ठात्रीरिन्द्राद्या नमस्कृत्य मन्त्राणामनभिधानान्नाममन्त्रैर्नमोयोगाच्चतुर्थ्यन्तैः प्रणम्य उपविश्य आसिवा ब्रह्मादिवरुणान्तेभ्यो देवेभ्यो नमस्कृत्य योगियाज्ञवल्क्यवचनादुदकदानसहित संवर्चसेति मन्त्रेणाञ्जलिना जलमादाय मुखमास्यं विमृष्टे शोधयति, देवागातुविद इति मन्त्रेण स्नानादिकांगभूता देवता विसर्जयेत् स्वस्थानं गमयेत् । 'एष स्नानविधिः । अत्राचार्यों माध्याहिकक्रियाइनानेतिकर्तव्यतामभिधाय इदानीमेष स्नानविधिरित्यनेन स्नानान्तरेऽपि मलापकर्षणाशुचिस्पर्शनादिनैमित्तिकस्नानन्यतिरिक्त एष एव विधिरितिकर्तव्यतेत्यतिदिशति, स च नद्यादौ जलाशये वा । यथाऽऽह कात्यायनश्छन्दोगपरिशिष्टे । यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवदिति । अत्र माध्याह्निकस्नानविधि प्रातःस्मानेऽतिदिशन्नद्यादौ निगमयति । गेहे चेत्तदमन्त्रवदिति जलाशयादन्यत्र स्नाने मन्त्रनिवृत्ति प्रतिपादयति। अतो यदि गृहे उद्धृतोदकेन उष्णेन वा नाति तदा न कश्चिद्विधिः अमत्रवदितिवचनात् । मत्रोऽस्यास्तीति मत्रवत् मन्त्रसहितं न मन्त्रवत् अमन्त्रवत् । अथवा अमन्त्री मन्त्राभाववान् शुद्धो यथा तूष्णी नाति तद्वत्मायादित्यर्थः । तद्यथा शुचौ देशे उपविष्टः पादौ करौ मृजलैः प्रक्षाल्य कुशपवित्रोपग्रह आचम्यादित्याभिमुखस्ताम्रादिप्रशस्तपात्रस्थं प्रशस्तसलं गङ्गादितीर्थजलबुद्धथा आदाय पादादिस्खशिरप्रभृति वहिः सर्वाडेन स्नायात् आवश्यकसन्ध्योपासनाग्निहोमादिकर्मानुष्ठानाधिकारार्थम् । यतः स्मरन्ति, नातोऽधिकारी भवति वे पित्र्ये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिचोदिते । इदं वारुणं स्नानं मुख्यम् अस्यासम्भवे प्रशस्तभस्मना सर्वाङ्गोलनमाग्नेयम् । गवां खुरोत्खातरजसा शरीरेण ग्रहणं वायव्यम् । आपोहिष्ठादिमिर्दुपदादिव शन्नोदेवीरिदमापःप्रवहतेत्येतल्लिङ्गैर्मन्त्रैः प्रतिमन्त्रं कुशाग्रेण मूर्धनि जलाभिषेको मान्त्रम् । आट्टैण वाससा सर्वशरीरमार्जनं कापिलम् । आपोहिष्ठेति ब्राह्मम् । मृदालम्भनं पार्थिवम् । अद्भिरातपवर्षाभिर्दिव्यं स्नानम् । सचिदानन्दघनात्मकजगत्कारणविश्वव्यापकवासुदेवस्मरणं मानसम् । दक्षिणावर्त्तशर्केन ताम्रपात्रगतोदकस्य शिरसा प्रतिग्रहः, अपराओंक्तेश्च विष्णुप्रतिमाशालग्रामशिलास्त्रानोदकेन च शिरोभिषिञ्चनमित्येतेषां स्नानानुकल्पानामन्यतमेन नित्यकर्मानुष्टानाधिकारसंपत्तये शुचौ देश उपविश्य मृदम्भोभिः पादौ पाणी च प्रक्षाल्य कुगोपनहपवित्रपाणिराचम्य सूर्याभिमुखः स्नायात् । एते च स्नानानुकल्पाः सर्ववर्णाश्रमाणां सर्ववेदशाखाध्यायिनाञ्च मन्त्रस्नानं विहाय साधारणाः । प्रातःस्नानं नित्यम् । चाण्डालशवयूपरजस्वलाः स्पृष्ट्वा स्नानार्हाः स्नान्ति तन्नैमित्तिकं स्नानम् । दैवज्ञविधिचोदितं पुष्पस्नानादिकं काम्यम् । जपयज्ञदेवपितृपूजनाथै नद्यादितीथेषु यत्नानं तत् क्रियाङ्गम् । अभ्यगपूर्वकमलापकर्षणं देवखातादितीर्थेषु च स्नानं क्रियास्नानम् । कात्यायनोक्तस्नानविधिस्तु काण्वमाध्यन्दिनानां नियतः, इतरेषाश्चानुक्तस्नानविधिविशेषाणां ववचानां मत्स्यपुराणादिविहितेन स्नानविधिना विकल्पितो वोद्धन्यः । एवञ्च सति यथोक्तविधिस्नानमालस्यादिना अकुर्वतो न कर्माधिकारः । न च फलवतः क्रियास्नानादेः फलावाप्तिः प्रत्युत विहिताकरणात्प्रत्यवायसम्भवो गृहस्थस्यैव, यतेश्च तद्धर्मविधौ द्रष्टव्यः । ब्रह्मचारिणो याज्ञवल्क्येनोक्तो यथा । स्नानमब्दैवतैमन्त्रैरिति । अत्र एप स्नानविधिरिति वचनात् यथाऽहनि तथा प्रातरिति वचनाच प्रातःलानेऽप्यस्य विधेः प्राप्तौ छन्दोगपरिशिष्टे विशेषः । अल्पत्वाद्धोमकालस्य महत्वात्स्नानकर्मणः । प्रातर्न तनुयात्नान होमलोपो विगहित इति । ततश्च साग्निः पादप्रक्षालनादिगोमयविलेपनान्तं विधाय मुञ्चन्तु मेति अभिषिच्य निमळ्याचम्य दौंः प्रणवव्याहृतिगायत्रीभिः