________________
कण्डिका] परिशिष्टम् ।
४१९ यमाय धर्मराजायेत्येवमादिनोक्तान् । पितृतर्पणेऽञ्जलिसङ्ख्यामाह । एकैकस्य तिलैर्मिश्रान् त्रीस्त्रीन्दद्याजलाञ्जलीन् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । एकैकस्य प्रत्येककव्यवाडनलादेः तिलैः कृष्णः । मिश्रान् संयुक्तान त्रीस्त्रीन् त्रित्वसङ्खयोपेतान् जलाञ्जलीन् जलेन पूर्णा अञ्जलयो जलासलयस्तान् । अस्य तर्पणस्य नित्यत्वेऽप्यानुषङ्गिकं फलमाह । यावज्जीवकृतं जन्मत आरभ्य यावतर्पणदिनं कृतम आचरितम् पापम् अशुभं कर्म तत्क्षणादेव तर्पणसमनन्तरमेव नश्यति क्षीयते । जीवत्पितृकोऽप्येतानन्यांश्चेतरः जीवन् विद्यमानः पिता जनको यस्य सोऽपि एतान् पूर्वोक्तान्ब्रह्मादीन् चित्रगुप्तान्तान् तर्पयेदिति गतेन संबन्धः । इतरः जीवरिपतृकादन्यो मृतपितृकः अन्यान् एतेभ्योऽपरान् पित्रादीन चकारादेतान् ब्रह्मादीस्तर्पयेत् । तर्पणवाक्यानि प्रयोगे वक्ष्यन्ते । तत्र पितृपितामहप्रपितामहान् तर्पयित्वा प्रसेकाख्यङ्कर्म कुर्यादिस्याह । ' उदीरतामगिरस आयन्तुन ऊर्जवहन्ती पितृभ्यो येचेह मधुव्वाता इति तृचञ्जपन् प्रसिञ्चेत् । उदीरतामित्यादिप्रतीकोक्ताः पट्टचः मधुवाता इतितृचः एवन्नवचों जपन् उपांशु आम्नायस्वरेण पठन प्रसिञ्चेत्, अञ्जलिगृहीता अप: पितृतीर्थेन तर्पणजलाधिकरणे प्रक्षिपेत् । तृप्यध्वमिति त्रिः । तथा तृप्यध्वमिति प्रसेकमुक्त्वा त्रिः प्रसिञ्चेत् । अत्र केचिदुदीरतामित्यादिकानामृचां पित्रादितर्पणे अञ्जलिदानकरणत्वं मन्यन्ते । तदसाम्प्रतम् । सूत्रार्थपयाँलोचनेन करणताया अप्रतीतेः, कथं जपन् प्रसिञ्चेदित्यत्र जपन्निति शतृप्रत्ययेन मन्त्रान् जपता सता सततं जलप्रसेकः कार्य इति हि सूत्रार्थः प्रतीयते। करणत्वे तु मन्त्रान्तैः कर्मा(न्तः?दिः) सन्निपात्य इति परिभाषया मन्त्रेसमाप्तेऽञ्जलिर्देयः, तथाच सति जप(न्)शब्दस्य शतृप्रत्ययस्य वानर्थक्यप्रसङ्गः प्रत्येक शब्दस्य दानार्थताकल्पना च तस्मात्प्रसेकाख्यमिदं कर्मान्तरम् । तथाच योगियाज्ञवल्क्यः-पितृन् ध्यायन्प्रसिञ्चद्वै जपन्मन्त्रान् यथाक्रममिति । 'नमोव इत्युक्त्वा मातामहानाञ्चैवं गुरुशिष्यविंग्ज्ञातिवान्धवान् । नमोवः पितरो रसायेत्यादीन्यष्टौ यजूंषि उक्त्वा पठित्वा मातामहानां मातुः पितृपितामहप्रपितामहानां च एवं एकैकस्य तिलैर्मिश्रमजलित्रयेण तर्पणं कृत्वा गुर्वादयोऽपि एकैकाक्षलिना ताः । तत्र गुरुम् आचार्यमुपनयनपूर्वकवेदाध्यापकम् । मनुः । उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । साङ्गश्च सरहस्यञ्च तमाचार्यम्प्रचक्षते, इति । ऋत्विजो याजकान् ज्ञातीन् पितृव्यभ्रात्रादिसपिण्डसगोत्रान् बान्धवान् मातुलेयपैतृष्वसेयमातृष्वसेयादीन् । 'अतर्पिता देहाधिरं पिवन्ति । एते पूर्वोक्ता ब्रह्मादयः अतर्पिताः सन्तः देहात् अतर्पयितुः गरीरात् रुधिरं पिवन्ति तर्पणाकरणजप्रत्यवायात् देहस्य रुधिरशोषणं भवतीत्यर्थः । एतदनिष्टापत्तिवचनं तर्पणस्यावश्यकरणीयत्वज्ञापनार्थम् । 'वासो निष्पीड्याचम्य वृहत्पराशरः । निःपीडयेस्नानवस्त्रं तिलदर्भसमन्वितम् । न पूर्व तर्पणाद्वखं नैवाम्भसि न पादयोरिति, स्नानवासो निष्पीड्य आचम्य पूर्ववत्, एवं तर्पणं विधाय तदन्ते स्थले वासो निष्पीड्याचम्य । निष्पीडयति यः पूर्व स्नानवस्त्रमतर्पते । निराशाः पितरो यान्ति शापं दत्वा सुदारुणम् । द्वादश्यां पञ्चदश्याञ्च सङ्कान्तौ श्राद्धवासरे । वस्त्रं निष्पीडयेन्नैव न च क्षारेण योजयेत् । एतत्तु तर्पणं प्रातःस्नानानन्तरं प्रातःकार्यम् । तदा न कृतञ्चेन्मध्याह्नस्नानानन्तरङ्कार्यम् । मध्याह्ने मन्त्रनानं न कृतश्चेत् तदाऽपराहादिपु स्नानकुत्वा कुर्यात् । पूर्वाहो वै देवानां मध्यन्दिनो मनुष्याणामपराहः पितणामिति श्रुतिस्तर्पणातिरिक्तविषया ।प्रातम्चेत्कृतं तर्पणं मध्याह्नादिपु न कर्तव्यमेव । स्नानाङ्गतर्पणंतु वैधस्नानानन्तरङ्कार्यम् । देवतापूजामाह । 'ब्राह्म 'येत् । ब्राह्मश्च वैष्णवञ्च रौद्रश्च सावित्रश्च मैत्रश्च वारुणश्च ब्राह्मवैष्णवरौद्रसावित्रमैत्रवारुणास्ते तथा । कीदृशैस्तल्लिङ्गैः तेषां ब्रह्मादीनां लिङ्गं प्रकाशनसमर्थं पदं येषु ते तल्लिङ्गाः तैस्तल्लिङ्गैः । ननु ब्राह्मेत्यादिना देवतातद्धितेन तल्लिङ्गत्वे प्राप्ते पुनस्तल्लि रिति किमर्थम् । उच्यते । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिमन्त्राद्यङ्गविनियोगो भवति सर्वत्र, मत्रतु