________________
४१८
पारस्करगृह्यसूत्रम्
[ तपणविधि
पर्णान् भूतानि पशून वनस्पतीनोषधीर्भूतग्रामश्चतुर्विधस्तृप्यतामिति ॐकापूर्वं ततो निवीती मनुष्यान् । सनकं च सनन्दनं तृतीयं च सनातनम् । कपिलमासुरिश्चैव वोढुं पञ्चशिखं तथा । ततोऽपसव्यं तिलमिश्रं कव्यवाड
सोमं यममर्यमणमग्निष्वात्तान् सोमपो बर्हिषदो यमां के । यमाय धर्मराजाय मृत्यवे चान्तकांय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दनाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नम इति “एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन्दद्याज्जलाञ्जलीन । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति, जीवत्पितृकोऽप्येतानन्यांश्चेतर उदीरतामङ्गिरस आयन्तुन ऊर्जवहन्ती पितृभ्यो येचेह मधुव्वाता इति तृचञ्जपन् प्रसिञ्चे- ' तृप्यध्वमिति त्रिर्नमोव इत्युक्त्वा मातामहानां चैवं गुरुशिष्यत्विग्ज्ञातिबान्धवा न तर्पिता देहाद्रुधिरं पिवन्ति वासो निष्पीड्याचम्य ब्राह्मवैष्णव रौद्रसावित्रमैत्रवारुणैस्तल्लिङ्गैरर्चयेददृ हर्टस इत्युपस्थाय प्रदक्षिणीकृत्य दिशश्व देवताश्च नमस्कृत्योपविश्य ब्रह्माग्निपृथिव्योषधिवाग्वाचस्पतिविष्णुमहद्भ्योऽद्भ्योऽपांपतये वरुणाय नम इति सर्वत्र संवर्चसेति मुखं विसृष्टे देवागातुविद इति विसर्जयेदेष स्नानविधिरेष स्नानविधिः ॥ ३ ॥
॥ ॥
इति श्रीकात्यायनोक्तं त्रिकण्डिकासूत्रं समाप्तम् ।
( हरिहर: ) - एवं कृतत्रह्मयज्ञः किं कुर्यादित्यत आह । 'ततस्तर्पयेद्ब्रह्माणं पूर्वमित्यादि' तर्पयेतू प्रीणयेत् कं ब्रह्माणम्, कथम्, पूर्वम् आदौ, केपां विष्णुमित्यादीनां भूतप्रामान्तानां देवानाम् | अत्र तर्पयेद्ब्रह्माणमिति तर्पणक्रियायाः कर्मभूतान् ब्रह्मादीनुद्देश्यत्वेन द्वितीयया अभिधाय भूतग्राम चतुर्वि धस्तृप्यतामिति प्रथमया प्रयोगमाचार्यो दर्शयति ततञ्च ब्रह्मा तृप्यतामित्येवं तर्पणप्रयोगः । ' ततो निवीती मनुष्यान् ' ततो देवतर्पणानन्तरं निवीतीं कण्ठसंसक्तत्रह्मसूत्रः सन् मनुष्यान् दिव्यान् मानवान् तर्पयेदिति पूर्वोक्तेनाख्यातेनानुपङ्गः । के ते मनुष्या इत्यपेक्षायामाह सनकश्चेत्यादिना - केन सप्त । ' ततोऽपसव्यं तिलमिश्रम् ' ततो मनुष्यतर्पणानन्तरमपसव्यं प्राचीनावीतं कृत्वा तिलमिश्रं तिलैः संयुक्तं जलं गृहीत्वा तर्पयेदिति सम्बन्धः । कांस्तर्पयेदित्याह कव्यवाडनलमित्यादिना बर्हिपद इत्यन्तेन सूत्रेण पठितान् । तत्र कव्यं पित्र्यं हविर्वहतीति कन्यवाट् अनलोऽग्निः कन्यवाद चासौ अनलश्वेति कव्यवाडनलस्तम् । अत्र केचित् कव्यवाहमनलमिति द्वे देवते मन्यन्ते । तद्युक्तम् । हव्यवाहनो वै देवानां कव्यवाहनः पितॄणामिति श्रुतेः कन्यवाड्गुणविशिष्टोऽनलः पितॄणामन्तर्गत इति कव्यवाडनल एकैव देवता । ' यमांश्चैके ' एके आचार्याः श्रमांश्च तर्पयेदित्याहुः । तद्यथा