________________
कण्डिका] परिशिष्टम् ।
४१५ वैष्णव्या गायच्या चषालोद्वीक्षणे विनियुक्तया त्रिस्नात्वाऽऽचम्य निर्गच्छेत्, इतिमानप्रयोगपद्धतिः ।। १ ॥ ॥ * ॥ ॥* ॥
उत्तीर्य धौते वाससी परिधाय मृदोरूकरौ प्रक्षाल्याचम्य त्रिरायम्यासून पुष्पाण्यम्बुमिश्राण्यूई क्षिप्त्वोर्ध्वबाहुः सूर्यमुदीक्षन्नुहयमुदुत्यं चित्रं तच्चक्षुरिति गायत्र्या च यथाशक्ति विभ्राडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलब्राह्मणैरित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविशेत् दर्भेषु दर्भपाणिः स्वाध्यायं च यथाशक्त्यादावारभ्य वेदम् ॥ २॥ ॥७॥
(हरिहरः)-ततः किं कुर्यादित्याह । उत्तीर्य धौते वाससी परिवाय । एकपत्त्युपविष्टानांभोजनेन पृथक् पृथक् । यद्येको लभते नीली सर्वे तेऽशुचयः स्मृताः । यस्य पट्टे शुचौ तन्तुनीली रक्तो हि दृश्यते । त्रिरात्रोपोषणं देयं शेषाश्चैकोपवासिनः । एवमुक्तविधिना स्नात्वा उत्तीर्य जलाहिर्निष्क्रम्य धौते अरजकप्रक्षालिते सदशे शुष्क शुक्ले अनग्निदग्धे अच्छिद्रे अस्यूते अमलिने गैरिकादिरागेणाविकृते कार्पासवाससी अन्तरीयोत्तरीये द्वे वस्त्रे परिधाय धृत्वा । अत्र यथादेशाचारं परिधानस्य विन्यासविशेषः प्रान्तद्वयगोपनेन | धौताभावे शाणक्षौमाविककुतपानामन्यतमे अभ्युक्षिते । द्वितीयवस्खाभावे तृतीयमुपवीतं योगपटुं वा कुशरज्जु वा सूत्रं वा परिघानीयस्योत्तरार्ध वा उत्तरीयं कुर्यात् । 'मृदोरूकरौ प्रक्षाल्याचम्य ' मृदा उदकेन च अरू पाणी च क्रमेण प्रक्षाल्याचम्य प्राड्मुख उदड्मुखो वा उपविश्य कुशपवित्रोपग्रहपाणिामतीर्थेन त्रिरप आचम्य सोदकेनाअष्टमूलेन द्विर्मुखं प्रमृज्य सर्वाङ्गुलीभिरोष्ठौ स्पृष्ट्वा तर्जन्यङ्गुष्ठाभ्यां दक्षिणोत्तरे नासारन्ने अनामिकाङ्गुष्ठाभ्यां दक्षिणोत्तरे अक्षिणी ताभ्यामेव दक्षिणोत्तरौ कौँ कनिष्ठाङ्गुष्टाभ्यां नाभि पाणितलेन हृदयं च कराग्रेण मूर्धानं दक्षिणोत्तरभुजमूले चोपस्पृशेत् । एवं द्विराचमनं विधाय शिष्टाचारपरिप्राप्त गङ्गादितीर्थमृत्तिकयोर्ध्वपुण्डू तिलकं ललाटे फुर्यात् । 'त्रिरायम्यासून ' त्रिः त्रीन् वारान् असून प्राणान् आयम्य सन्निरुध्य । प्राणनियमप्रकारश्च “ गायत्री शिरसा साध जपेव्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः” इति योगीश्वरेणोक्तो द्रष्टव्यः । 'पुष्पाण्यम्बुमिश्राण्युर्व क्षित्वा' पुष्पाणि कुसुमानि तदभावे विल्वादिपत्राणि अम्बुना उदकेन मिश्राणि संयुक्तानि अञ्जलिनाऽऽदाय उत्थाय ऊर्ध्वमुपरि सूर्याभिमुखं क्षिप्त्वा उत्सृज्य प्रणवव्याहृतिपूर्विकया गायत्र्या । शौनकः । उभौ पादौ समौ कृत्वा पूरयेदुदकाललीन् । गोशृङ्गानूर्ध्वमुद्धृत्य जलमध्ये जलं क्षिपेत् । पक्षान्तरे । ईषन्नम्रः प्रभातेषु मध्याहे ऋजुसंस्थितः । द्विजोऽधै प्रक्षिपेद्देव्या सायं तूपविशन् भुवि । प्रातर्मघ्या. ह्निका सन्ध्यां तिष्ठन्नेव समापयेत् । उपविश्य तु सायाह्ने जले ह्यधै विनिक्षिपेत् । 'उर्ववाहुः विशेत् । ऊध्वौं सूर्याभिमुखौ वाहू यस्य स ऊर्ध्वबाहुः सन् सूर्यमादित्युमुदीक्षन् पश्यन् उद्यमित्यादिनोक्ताभिश्चतसृभित्रग्भिस्तथा गायत्र्या यथाशक्ति सहस्रादिसङ्ख्यया आवृत्तया विभ्राडित्यनुवाकेन पुरुषसूक्तेन सहस्रशीपेत्यादिषोडशचेन शिवसंकल्पेन यज्जायत इत्यादिना पड़चेन मण्डलब्राह्मणेन यदेतन्मण्डलं तपतीत्यादिनोपस्थाय सूर्य स्तुत्वा तमेव प्रदक्षिणीकृत्य नमस्कृत्य कायवाङ्मनोभिः प्रणम्योपविशेत् आसीत । एवं त्रिरायम्यासून इत्यारभ्य उपविशेदित्यन्तेन सूत्रसंदर्भण कात्यायनाचार्येण संध्योपासनमुक्तं तत् काण्वमाध्यन्दिनानां स्वगृह्योक्तत्वात् शास्त्रानुष्टानसिद्धिकरम् । यत्पुनः शाखान्तराधिकरणन्यायेनेदमेव कल्पतरुकारप्रभृतिभिर्निवन्धकारैराह्निकपद्धतिकारैश्च स्मृत्य