________________
४१६
पारस्करगृह्यसूत्रम्
[ संध्याविधि -
न्तरोक्तसंध्योपासनविधिसमुचितं लिखितं तत्सर्वशाखाध्येतृसाधारणत्वात्सर्वशाखिनामनुष्ठानमुचितम् । 'दर्भेषु वेदम् ' दर्भेषु प्रशस्तदारुनिर्मितासनोपरिनिहितेषु प्रागमेषु उदगमेषु वा त्रिपु कुशेपु आसीन: प्राड्मुख उदङ्मुखो वा दर्भपाणिः दर्भाः पवित्रोपग्रह व्यतिरिक्ताः पाण्योर्यस्यासौ दर्भपाणिः स्वाध्यायं ब्रह्मयज्ञं यथाशक्ति शक्तिमनतिक्रम्य कुर्यात् । किं कृत्वा आरभ्य उपक्रम्य कं वेदं मन्त्रब्राह्मणात्मकम् । कुत आरभ्य आदौ आदितः इपेत्वोर्जेत्वेत्यस्मात् । अत्र वेदमित्येकवचनादनेकवेदाध्यायिनोऽप्येकं चेदमारभ्य प्रतिदिनं उपर्युपर्यध्ययनेन समाप्यान्यं वेदमारभ्य तथैव समाप्य अथर्वपुराणेतिहासादीन्यपि तथैवादित आरभ्यैकैकं समाप्यापरमपरमारभ्य समापयेत् न पुनर्यदृच्छया एकदेशमेकदेशम्, आदावारभ्येति नियमात् वेदशब्दोऽत्रोपलक्षणार्थः । यथाह याज्ञवल्क्यः । वेदाथर्वपुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्ध्यर्थे विद्याश्वाष्यात्मिकी जपेदिति । स चायं जपयज्ञः कालान्तरेऽपि स्मर्यते । यच श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स स्मृतः । स चार्वाकू तर्पणात्कार्य: पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यत्रेत्यनिमित्तिकादिति छन्दोग परिशिष्टोक्तेः । इति द्वितीयकण्डिकासूत्रार्थः ॥ २ ॥
1*11
11 11
अथ प्रयोगः । निर्गम्य पादौ जले स्थले च कृत्वा द्विराचम्य धौते वस्त्रे परिधाय मृदाऽद्भिश्च ऊरु करौ प्रक्षाल्य श्रीपर्णादिप्रशस्तदारुनिर्मिते कुशत्रयाच्छन्ने सुप्रक्षालिते आसने प्रागास्य उद्गास्यो वाऽऽसीन उक्तलक्षणपवित्रोपग्रहः सुवर्णरौप्यालंकृतपाणियुगल उक्तेन विधिना द्विराचम्य भगवन्तं परं - मात्मस्वरूपं नारायणं संस्मृत्य संध्योपासनमारभेत् । तद्यथा । ॐकारस्य ब्रह्माऋषिः परमात्मा गायत्रीछन्दः सर्वकर्मारम्मे विनियोगः । भूरादिसप्तव्याहृतीना प्रजापतिर्ऋपिः अग्निर्वायुः सूर्यो वृहस्पतिर्वरुण इन्द्रो विश्वेदेवा देवताः गायत्र्युष्णिगनुष्टुप्वृहतीपङ्कित्रिष्टुप् जगत्यश्छन्दांसि तत्सवितुरिति विश्वामित्रऋषिः सवितादेवता गायत्रीछन्दः, आपोज्योतिरिति प्रजापतिऋषिः ब्रह्माग्निवायुसूर्या देवताः द्विपदागायत्री छन्दः सर्वेषाम् प्राणायामे विनियोगः । इत्युक्त्वा प्राणवायुं नियम्य ॐ भूः भुवः आँख ॐमहः जनः ॐतपः ॐ सत्यम् तत्सवि० दयात् ॐ आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् । एवं नवधावृत्य उपात्तदुरितक्षयाय मध्याह्नसंध्यामहमुपास्ये इति प्रतिज्ञाय । आयाहि वरदे देवि त्र्यक्ष रुद्रवादिनि । सावित्रिच्छन्दसां माता रुद्रयोने नमोऽस्तु ते । इतिमन्त्रेण संध्यामा - वाह्य । आपः पुनन्त्विति मारीचकश्यप ऋपि: आपो देवता अनुष्टुप्छन्दः आचमने विनि० । आपः पुनन्तु पृथिवी पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतांच प्रतिग्रहस्वाहा इत्यनेन मन्त्रेण सकृदप आचम्य स्मार्त्तमाचमनं कृत्वा कुशानादाय । आपोहिष्ठेति तृचस्य सिन्धुद्वीपऋषिः आपोदेवता गायत्रीछन्दः पर्णकपायपकोदकासेके वि० इति स्मृत्वा कुशाग्रेण ताभिरद्भिः आपोहिष्ठामयोभुव इत्यादितृचस्य नवभिः पादैः प्रतिपादं शिरोऽभिषिचेत् । ततो द्रुपदादिवेति प्रजापत्यश्विसरस्वत्य ऋषयः आपो देवता अनुष्टुप्छन्दः सौत्रामण्यवभृथे वासोपासने वि० इत्यभिधाय चुलुकेन जलमादाय तस्मिन्नासाग्रं निधाय द्रुपदादिवमुमुचान० मैनस इति जपित्वा तज्जलं भूमावुत्सृज्य, ऋतश्चसत्यञ्चेति तृचस्य अघमर्षणऋषिः भाववृत्तिर्देवता अनुष्टुप्छन्दः अश्वमेधावभृथे वि० इत्युक्त्वा चुलुकले नासाग्रमाधाय " ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽष्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः । समुद्रादर्णवादधिसंवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवञ्च पृथिवीभ्यान्तरिक्षमथो स्वः" इति जपित्वा जलं भूमावुत्सृज्य पुष्पाणि पत्राणि वा अम्बुमिश्राण्यञ्जलिनाऽऽदायोत्थाय सप्रणवव्याहृतिकां गायत्री पठित्वा आदित्याभिमुखान्यू क्षिष्वा बाहू सूर्याभिमुखावुत्क्षिप्य उद्वयमिति प्रस्कण्वऋषिः सूर्यो