________________
४१४
पारस्करगृह्यसूत्रम् ।
1
[ संध्याविधि - मूर्द्धानमभिषिच्य तथैव तत्वायामीति शुनःशेपदृष्ट्या त्रिष्टुभा वारुण्या तथा त्वन्नः सत्वन्न इत्येताभ्यां वामदेवर्षिभ्यां त्रिष्टुभ्यामाग्निवारुणीभ्याम् प्रत्यृचम् मापोमौषधीहिंह- सीरित्येतावता यजुषा प्रजापति - दृष्टेन हृदयशूलदैवतेन उदुत्तममिति शुनःशेपदृष्ट्या त्रिष्टुभा वारुण्या मुश्चन्तुमेति वन्धुदृष्टया अनुष्टुभा ओषधिदेवतया अवभृथनिचुम्पुण इति प्रजापतिदृष्ट्या यजुषा यज्ञदेवतयाऽभिपिश्चेत् । ततस्तूष्णीं निमज्ज्याचम्य त्रिभिर्दभैर्दक्षिणकरधृतैः सोदकैर्नाभिमारभ्य प्रदक्षिणं नाभिपर्यन्तं वक्ष्यमाणैः प्रणवादिभिर्मन्त्रैरात्मानं पावयेत् । तत्र प्रणवस्य ब्रह्मऋषिः परमात्मादेवता गायत्री छन्दः ब्रह्मारम्भविरामसर्वकर्मादिषु विनियोगः, व्याहृतीनां प्रजापतिविरभित्रायसूर्या देवता दैवानि गायत्र्युष्णिग्गायत्रीसंज्ञानि छन्दांसि [ गायत्र्युष्गुिगनुष्टुप्छन्दांसि ] अग्न्याधाने विनियोगः । गायत्र्या विश्वामित्र ऋषिः सवितादेवता गायत्रीछन्दः गार्हपत्यस्योपस्थाने वि० । आपोहिष्ठेति तिसृणा सिन्धुद्वीपऋषिः आपोदेवता गायत्रीछन्दः उपासंभरणे पर्णकपायपकोदकासेके वि० । इदमाप इति प्रजापतिर्ऋपि: आपोदेवता त्र्यवसाना महापश्छिन्दः अन्त्यपादः पावमानः पशौ चात्वाले मार्जने वि० 1 हविष्मतीरिमा इति प्रजापतिऋषिः आपो यजमानाध्वरसूर्याश्व देवता अनुष्टुप्छन्दः वसतीवरीणामपां ग्रहणे वि० | देवीरापो अपान्नपादिति प्रजापतिऋषिः आपो देवता पङ्क्तिश्छन्दः अप्सु चतुर्गृहीताज्यहोमे वि० । कार्पिरसीति प्रजापतिऋषिः आज्यमापश्च देवता अनुष्टुप्छन्दः आज्यप्रप्लावने वि० । अपोदेवा इति वरुणऋषिः आपो देवता त्रिष्टुप्छन्दः राजसूयेऽभिषेचनीयोषासंभरणे वि० । द्रुपदादिवेति प्रजापत्यश्विसरस्वत्य ऋषयः आपोदेवता अनुष्टुप्छन्दः वासोऽपासने विनियोगः । शन्नोदेवीरिति दध्यड्डाथर्वण ऋषिरापो देवता गायत्रीछन्दः शान्तिकरणे वि० । अपारसमिति वृहस्पतिरिन्द्रश्च ऋपिः रसो देवता अनुष्टुप्छन्दश्चतुर्थवाजपेयग्रहणे वि० । अपोदेवीरिति सिन्धुद्वीपऋषिरापो देवता न्यङ्कुसारणीछन्द उत्खातोखा निर्माणार्थ मृद्भूमावपांसेके वि० । पुनन्तुमेति द्वयोः प्रजापत्यश्विसरस्वत्य ऋपयः पितरोदेवता अनुष्टुप्छन्दः सौत्रामण्यां सुरामहशेषप्रतिपत्तिसमनन्तरं पवित्रहिरण्यसुराभिः ऋत्विग्यजमानानामात्मपावने वि० । अन्न आयूषीति प्रजापतिर्वैखानस ऋषिरभिर्देवता गायत्रीछन्दः पुनन्तुमेति प्रजापत्यश्विसरस्वत्य ऋषयः देवजना धियो विश्वाभूतानि जातवेदाश्च देवता अनुष्टुप्छन्दः पवित्रेणेत्यादीनां पश्वानां प्रजापत्यश्विसरस्वत्य ऋषयः प्रथमाया अग्निर्देवता गायत्रीछन्दः द्वितीयाया अग्निर्ब्रह्मा वा देवता तृतीयपादस्य ब्रह्मैव देवता गायत्रीछन्दः तृतीयायाः सोमो देवता गायत्री छन्दः चतुर्थ्याः सवितादेवता गायत्री छन्दः पञ्चम्या विश्वेदेवादेवता त्रिष्टुप्छन्दः पूर्वोक्तपावने वि० । चित्पतिर्मा वाक्पतिर्मा देवेोमेति त्रयाणां यजुषाम् प्रजापति ऋषिर्द्वयोः प्रजापतिर्देवता तृतीयस्य सविता देवता दीक्षणीयायां यजमानपावने वि० । ॐकारादीनां पूर्ववत् मन्त्र पावने विनियोगः । उक्तरीत्या ऋध्यादीन् स्मृत्वा पुनातु ॐ भूः पुनातु ॐ भुवः पुनातुः स्त्रः पुनातु गायत्र्यन्ते सर्व पुनातु । तत आपोहिष्टेतिप्रभृतिभिर्वैश्वदेवीपुनतीत्यन्ताभिरृग्भिः प्रत्यूचं पावयित्वा चित्पतिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयमित्येवं पावयित्वा वाक्पतिर्मा पुनात्वच्छिद्रेणेत्यादि तच्छकेयमित्यन्तेन देवो मा सविता पुनात्वच्छिद्रेणेत्यादि तच्छकेयमित्यन्तेन पावयेत् । तत पुनात्त्रिति पूर्ववत्पावयित्वा पावनकुशान् परित्यज्य पूर्ववदिमंमे वरुणेत्याद्याभिरवभृथेत्यन्ताभिरष्टाभिर्भग्भिरभिषिच्यान्तर्जले निमग्न ऋतं च सत्यश्चेति सूक्तमघमर्पणदृष्टं भाववृत्तिदैवतमानुष्टुभमश्वमेधावभृथे विनियुक्तं त्रिर्जपेत् । द्रुपदादिवेति प्रजापत्यश्विसरस्वतीदृष्टमापमानुष्टुभं सौत्रामण्यावभृथे वासोऽपासने विनियुक्तम् आयङ्गौरित्यृचं सापरानीदृष्टामाग्नेयीं गायत्रीं प्राणायामं वा शिर. सहितम् इति वा त्रिर्जपेत् । यद्वा परमात्मानमव्ययं विष्णुं स्मरेत् । ततस्तद्विष्णोरित्येतया मेधातिथिदृष्ट्या