________________
कण्डिका ] परिशिष्टम् ।
४१३ स्नाने सूर्याभिमुखत्वम् । मन्जनप्रकारमाह ।' आपो अस्मा'चम्य आपो अस्मान्मातर इति मन्त्रेण स्नात्वा मजित्वा । उदिदाभ्य इति मन्त्रान्ते उन्मज्य उत्तम्य निमन्न्य पुनः तूष्णीं स्नात्वा । उन्मळ्य तथैवोपक्रम्याचम्य उपस्पृश्य । 'गोमयेन विलिम्पेन्मानस्तोक इति' । दक्षिणकरगृहीतेन गोमयेन मृर्द्धप्रभृतिनामिपर्यन्तं वामहरतगृहीतेन नाभ्यादिपादपर्यन्तं शरीरं विलिम्पेत् । रौद्रमन्त्राभिधानादुदक स्पृशेत् । 'ततोवभृथेति । ततोऽभिपिञ्चेदिमं मे वरुणेत्येवमादिभिः ४ सूत्रपाठक्रमेण पठितैरटाभिर्मन्त्रैः प्रतिमन्त्रं मूर्धानममिपिञ्चेत् । अत्र पाठादेव गोमयानुलेपनानन्तरमभिपेके प्राप्ते ततःशब्देनानुलिप्तगात्रस्यैवाभिषेक इति गम्यते । अन्ते चैतत् एतदष्टर्चाभिपेचनमन्ते च भवति । सन्निधेरभिषेकोत्तरत्रानुष्टेयस्य पाक्नस्यान्ते इत्यर्थः । निमज्योन्मळ्याचम्य भैः पावयेत् निमज्य तूष्णीं स्नात्वाऽऽचम्य स्नानानन्तरं विहितमाचमनं कृत्वा दभैः त्रिभिः कुशस्तम्वैर्दक्षिणहस्तोपात्तैः प्रादक्षिण्येन नामित उर्दू पुनर्नाभिं यावत्पावयेत् । पावनमन्त्रानाह । आपो. 'वन्ते च ' आपोहिष्ठेत्यादिभिश्चित्पतिर्मेत्यन्तैमन्त्रैः पावयेदित्यन्वयः । किञ्च ॐकारेण प्रणवेन व्याहृतिभिस्तिमृभिः गायत्र्या च तत्सवितुरित्येतयर्चा पावयेत् । कुत्र, आदौ आपोहिष्टेत्यादेः पावनस्य । तथाऽन्ते च, चित्पतिर्मा पुनावित्यस्यावसाने । अन्तर्जलेऽघमर्षणं त्रिरावर्तयेत् अन्तर्जले जलस्य मध्ये निमनः अघमर्षणम् ऋतञ्च सत्यञ्चेत्येतत्सूक्तं त्रीन्वारानावर्तयेत् अनुच्छ्सन् जपेन् । 'द्रुपदास्मरणम् । यद्वा द्रुपदादिवेत्यादिकामृचं आयङ्गौरित्यादिकां वा तृचं प्राणायाम वा वक्ष्यमाणलक्षणम् । कथंभूतं सशिरसं सह शिरसा वर्तमानम् , आपोज्योतिरिति मन्त्रः शिरः । अनेन शिरोरहितोऽपि प्राणायामोऽस्तीति गम्यते । ॐ इतिवाऽन्तर्जले त्रिरावर्तयेदित्यनुपङ्गः । अत्रैषां पक्षाणां शक्तिश्रद्धापेक्षया विकल्पः । उत्तमाधिकारिणं प्रत्याह । विष्णोर्वा स्मरणम् । विष्णोः परमात्मरूपेण सर्वव्यापकस्य स्मरणं ध्यानं वा कुर्यात् । इतिस्नानविधेः प्रथमकण्डिकासूत्रार्थः ॥ १॥ ॥ * ॥
अथ पद्धतिः । तत्राष्टधा विभक्तस्याश्चतुर्थे भागे मृदादीनि नानोपकरणान्याहृत्य नद्याशुदकाशयं गत्वा तत्र तीरं प्रक्षाल्य मृद्गोमयकुशतिलसुमनसो निधाय मृनिरनिश्च पादौ हस्तौ च प्रक्षाल्य दक्षिणकरे सायं प्रादेशमात्रमनन्तर्गर्भ द्विपत्रं कृत्वा वामकरे त्रिप्रभृतिवहून् कुशानुपग्रह धृत्वा वद्धशिखी यज्ञोपवीती एकवासा आचमनं कृत्वा उरुक्ष हिराजा इत्यादिकया विधश्चिदिल्लन्तया शुनःशेपदृष्टया वरुणदेवतया त्रिष्टुमा ज्योतिष्टोमावभृथे यजमानवाचने विनियुक्तया तीर्थतीयमामन्त्र्य येतेशतमित्यादिकया स्वाहान्तया शुनःशेपदृष्टया वारुण्या त्रिष्टुभा तत्तोयमावर्तयेत् । सुमित्रियान इति यजुपा प्रजापतिदृष्टेनाब्दैवतेन तोयमवलिना गृहीवा दुर्मित्रिया इति यजुषा प्रजापतिदृष्टेनाट्दैवतेनाञ्जलिस्थं जलं द्वेष्यं मनसा स्मृत्वा द्वेष्याभावे कामादीन् स्मृत्वा निपिञ्चेत् । ततो मृदं त्रेधा विभज्य एकस्मानागादल्पां मृदं वामकरेणादाय कटिमनुलिप्यानिः प्रक्षाल्य तथैव पुनर्विवारं प्रक्षाल्य एवमेव वस्तिम् ऊरू जो चरणौ करौ चैकैकशः प्रक्षाल्याचम्य उदकाय नम इति तीर्थोदकं नत्वा इदं विष्णुरित्यूचा मेधातिथिदृष्ट्या गायच्या वैष्णन्या दक्षिणपाणिगृहीतया मृदा मुखतो नाभिपर्यन्तं वामकरगृहीतया नाभित: पादपर्यन्तमझान्यालिय शनैर्नाभिमान जलंप्रविश्य सूर्याभिमुखं स्थित्वा आपो अस्मानिति मन्त्रेण प्रजापतिदृष्टेनात्यष्टिछन्दस्केनान्दैवतेन दीक्षायां यजमानस्नाने विनियुक्तेन जले मजनम् । उदिदाभ्य इति मन्त्रेण तदैवतर्षिछन्दस्केनोन्मजनम्, पुनस्तूष्णीं निमज्योन्मज्याचम्य पाणिभ्यां गोमयमादाय मानस्तोक इत्यूचा कुत्सदृष्ट्या ऐकरौबा जगत्या शतरुद्रिये जतिलहोमे विनियुक्तया दक्षिणपाणिस्थेन गोमयेन मुखादिनाभ्यन्तं वामकरस्थन नामितोऽतिपर्यन्तं शरीरं विलिम्पेत् । इमं मे वरुणेत्यूचा शुनःशेपार्षया गायत्र्या वारुण्या चुलुकेन