________________
४१२ पारस्करगृह्यसूत्रम् ।
[खानसूत्रप्रकर्षेण क्षालयित्वा, कि, पाणी च पादौ च पाणिपादं द्वन्द्वश्च प्राणितूर्यसेनानानामिति सूत्रेणैकवचनम् । अत्र पाण्योरभ्यर्हितत्वात् पाणिशब्दस्य पूर्वनिपातः तेन विप्रो दक्षिणपादोपक्रमेण पादौ प्रक्षाल्य तथैव पाणी प्रक्षालयेन्न पाठक्रमेण । ' कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्य । कण्ठादुतार्य सूत्रं तु कर्त्तव्यं क्षालनं द्विजैः । अन्यञ्च संग्रहे । अभ्यते चोदधिनाने मातापित्रोः क्षयेऽहनि । कण्ठादुत्तार्य सूत्रं तु क्षालयेत्परिशोधयेत् ।। कुशाः त्रिप्रभृतयो दर्भस्तम्बा उपग्रहाः सव्यहस्ते धृता येन स कुशोपग्रहः । उपग्रहः पवित्रमप्युपलक्षयति । सव्यः सोपग्रहः कार्यों दक्षिणः सपवित्रक इति स्मृतेः ।। तेनानन्तर्गर्भसापप्रादेशमात्रदर्भदलद्वयात्मकपवित्रालंकृतदक्षिणहस्तो बहुकुशोपमहान्वितसव्यहस्तः सन् । बद्धा शिखा चूडाऽस्यातीति बद्धशिखी। यज्ञोपवीतं ब्रह्मसूत्रमस्यास्तीति यज्ञोपवीती । अत्र सदोपवीतिना भाव्यं सदा बद्धशिखेन चेति कात्यायनस्मृतेर्बद्धशिखित्वयज्ञोपवीतित्वे प्राप्ते पुनर्वचनं केशबन्धनोत्तरीयवाससोर्निवृत्त्यर्थम् । यत्तु प्रेतस्पर्शिनां स्नाने एकवस्त्राः प्राचीनावीतिन इति पारस्करगृह्यस्मरणं न तत्स्नानान्तरे द्विवस्त्रताज्ञापकं, यतोऽशुचिस्पर्शादिनिमित्तके स्नाने सवासा जलमाविशेदित्यादिवचनैः प्रेतस्पर्शिनामपि स्नानेऽनेकवत्रताप्राप्तौ तत्पुनरिश्रने) कवस्त्रतापरिसंख्यानार्थ न पुनः प्रेतस्नानव्यतिरिक्तनाने द्विवस्त्रताज्ञापकम् । यतो वक्ष्यति निष्पीड्य वस्नमिति । योगियाज्ञवल्क्योऽपि निष्पीड्य स्नानवस्त्रं विति स्नानवस्त्रस्यैकत्वं स्मरति । अतः साधूक्तं यज्ञोपवीतीतिपुनर्वचनमुत्तरीयवस्त्रव्युदासार्थमिति । तस्मान्नमित्तिक एव स्नानेऽनेकवस्त्रता नान्यत्रेति स्थितम् ।। आचम्य यथाशास्त्रमाचमनं कृत्वा । 'उरुठहीति तोयमामन्त्र्यावर्तयेथे ते शतमिति' उरुटहि राजेत्यनयर्चा तोयं सलिलमामन्त्र्याभिमुखीकृत्य ये ते शतमित्येतयर्चा तत्तोयं दक्षिणहस्तेन प्रदक्षिणं सकृदावर्त्तयेत् आलोडयेत् । 'सुमित्रियान इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिश्चेत् ' सुमित्रियान आप इति यजुषा अपो जलमजलिना करदयपुटेनादाय उद्धृत्य दुर्मित्रियास्तस्मै सन्विति यजुषा द्वेष्यं शत्रु प्रति निषिश्चेत् । शत्रु मनसा ध्यात्वा भूमौ प्रक्षिपेदित्यर्थः । द्वेष्याभावे कामाचरिषड्वर्गान्मनसाऽभिध्याय निषिञ्चेत् । 'कटिं वस्त्यूरू जो चरणौ करौ मृदा त्रिविः प्रक्षाल्य ।। कटिनोभेः पृष्टवंशस्य च समन्तात् । तस्या अधोभागो बस्तिः गुदमेढ्योरन्तरालम् । अरू बस्तितोऽधस्ताज्जानुपर्यन्तौ । जथे जानुतोऽधस्तात् गुल्फपर्यन्ते । चरणौ गुल्फतोऽधस्तात् तलमभिव्याप्य पादौ । करौ मणिबन्धादारभ्य अन्तर्वहिरडल्ययावधी । मृदा सव्यहरतगृहीतया तावत्कटिं सकृदालिप्य । प्रक्षालनशब्दसामर्थ्यात् अद्भिः सकृत्प्रक्षाल्य । तथैव द्वितीयम् । तथैव तृतीयं । कटिं क्षालयित्वा। एवमेव त्रिर्वस्तिप्रभृतीनि क्रमेणैकैकशः प्रक्षाल्य । 'आचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति । कट्याद्यधमाङ्गप्रक्षालनसंभवात्प्रायश्चित्त(१)शुद्धयर्थमाचमनं कृत्वा उद्काय नम इत्युदकं नमस्य नत्वा इदं विष्णुरित्येतयों दक्षिणहस्ते गृहीतया मृदा मुखप्रभृतिनामिपर्यन्तानि सव्यहस्तेस्थया नाभिमारभ्य पादपर्यन्तानि अङ्गानि गात्राणि आल. मेत् अनुलिम्पेत् । अत्र नमस्येति छान्दसो ल्यप् । अत्रालभेदिति परस्मैपदं छान्दसम् । छन्दोवत्सूत्राणि भवन्तीति वचनात् । सूर्यस्याभिमुखो निमज्जेत् । ततः शनैर्जलाशयं प्रविश्य नाभिमात्रे स्थितः सूर्यस्याभिमुखः सन्निमज्जेत् ॥ शिरसा जलमवगाहेत । इदं कात्यायनमतम् । यत्तु प्रवाहा: मिमुखो मज्जेत् इति स्मृत्यन्तरं तदन्यशाखीयविषयम् । ननु कात्यायनवचनं स्थावरजलमजनविषय स्मृत्यन्तरंतु प्रवाहजलविषयमिति व्यवस्था किं न स्यात् । मैवम् । यतः कात्यायनः स्नानं नद्यादानित्युपक्रम्य सूर्यस्याभिमुखो मलेदिति सामान्येन स्मरति । योगियाज्ञवल्क्योऽपि भास्कराभिमुखो मन्जेदिति । षट्त्रिंशन्मते, प्रवाहामिमुखो मजेदचोऽयर्वसामगाः । यजुपां चैव सर्वपा सूर्याभिमुखमजनम् । तस्मात्कात्यायनयोगियाज्ञवल्क्यमतानुवतिनां वाजसनेयिनां सर्वत्रोदकाशये