________________
४११
fuser ]
परिशिष्टम् ।
करौ मृदा त्रिस्त्रिः प्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति सूर्याभिमुखो निमज्जेदापो अस्मानिति स्नात्वोदिदाभ्य इत्युन्मज्य निमज्योन्मज्याचम्य गोमयेन विलिम्पेन्मानस्तोक इति ततोऽभिषिञ्चेदिमम्मे वरुणेति चतसृभिर्माप उदुत्तम मुञ्चन्त्ववभृथेत्यन्ते चैतन्निमज्योन्मज्याचम्य दर्भैः पावयेदापोहिष्ठेति तिसृभिरिदमापो हविष्मतीर्देवीराप इति द्वाभ्यामपोदेवानुपदादिव शन्नो देवीरपाक्षं रसमपोदेवीः पुनन्तुमेति नवभिश्चित्पतिर्मेत्योङ्कारेण व्याहृतिभिर्गायत्र्या चादावन्ते चान्तर्जलेऽघमर्षणं त्रिरावर्त्तयेद् द्रुपदादिवायङ्गौरिति वा तृचं प्राणायामं वा सशिरसमोमिति वा विष्णोर्वा स्मरणम् ॥ || 9 || || @ || 11
अग्निहोत्रिहरिहरविरचितं त्रिकण्डिकास्नानसूत्रव्याख्यानम् ।
श्रीगणेशाय नमः ॥ प्रणतोऽस्मि हरेरंत्रिसरसीरुहमादरात् । यज्जगत्पावनं पाथः प्रासोटा - मरसैन्धवम् ॥ १ ॥ कात्यायनकृतस्नानविधेर्व्याख्यापुरःसराम् ॥ विधास्ये पद्धतिं विद्वत्सदाचारद्विप्रियाम् ॥ २ ॥ ' अथातो नित्यस्नानम् ' अथ श्रौतस्मार्तक्रियाविधानानन्तरं यतस्ताः क्रियाः नानपूर्विका अतो हेतोर्नित्यं सन्ध्योपासनपञ्चमहायज्ञादि नित्य क्रियानुष्ठानाधिकार संपादकत्वेनावश्यकं स्नानं वहिः सर्वाङ्गजलसंयोगं विधास्यते इति सूत्रशेषः । तत्स्नानं कुत्र विधेयमित्यपेक्षायामाह ।। ' नद्यादौ ' ननु मासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः || तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा इतिछन्दोगपरिशिष्टे नदीस्नाननिषेधात् कथं नद्याद्युच्यते । सत्यम् । उपाकर्मणि चोटसमें प्रेतस्नाने तथैव च । चन्द्रसूर्योपरागेच रजोदोषो न विद्यते इत्यपवादवचनात् न दोषः । नदी आदिः प्रथमा मुख्या यस्य स्नानाधिकरणस्य देवखाततडागस रोगर्तहदप्रस्रवणादेरकृत्रिम जलाशयस्य स नद्यादिः तस्मिन्नद्यादावकृत्रिमजलाशये स्नानं कुर्यादिति यावत् । तत्र नदी कूलद्वयान्तर्गतयोजनाधिकभूभागप्रवाहसलिला लोके नदीशब्देन प्रसिद्धा च । देवखातो देवनिर्मितत्वेन प्रसिद्धः ब्रह्महृदः । तडागो गदालोलप्रभृतिः । सर उत्तरार्कदण्डखातादि । गतों योजनभूभाग पर्याप्तजलप्रवाहः । हदोऽगाधोऽशोध्यो जलराशिरवस्थितः । प्रस्रवणं पर्वतादेः स्वतः प्रवृत्तो निर्झरः । अकृत्रिमासंभवे पञ्चमृत्पण्डोद्धरणपूर्वकं कृत्रिमेऽपि जलाशये स्नायात् । एवं स्नानं तदधिकरणं चानुविधायेदानीं स्नानोपकरणपूर्वकं स्नानेतिकर्तव्यताविधानमुपक्रमते 'मृगोमयकुशतिलसुमनस आहृत्य ' गोमयं च कुशाश्च तिलाश्च सुमनसश्च मृगोमयकुगतिलसुमनसस्ता आहृत्य स्वयमानीय शूद्रादन्येन वाऽऽहार्य तत्र मृदं शुचिदेशस्थां शर्कराइमादिरहितामाखुकृष्टवल्मीकपांसुल कर्दमवर्जितां, गोमयमरोगिण्यादिगवां शकृत् कुशान् यवादि शुचिक्षेत्रादिसम्भवान्, तिलान् प्राम्यान् आरण्यान्वा, सुमनसः पुष्पाणि सुगन्धीनि अगन्धोग्रगन्धप्रतिषिद्धवर्जितानि शतपत्रादिकानि बिल्aतुलसीप्रभृतिपत्राणि च । ' उदकान्तं गत्वा शुचौ देशे स्थाप्य ' उदकस्य पूर्वोक्तनद्यादिसंबन्धिनः अन्तं समीपं गृहात् गत्वा तत्राप्यपद्रव्यरहिते शुचौ देशे वस्त्राद्यन्तर्हितायां भूमौ स्थाप्य मृदादीनि । अत्रासमासेऽपि ल्यप्रयोगश्छान्दसः, छन्दोवत्सूत्राणि भवन्तीति वचनात् । ' प्रक्षाल्य पाणिपादम् ' प्रक्षाल्य मृदा जलेन च