________________
४०२ पारस्करगृह्यसूत्रम्
[पञ्चदशी नौकां तरी तया पूरवती नदीमवतरितुमिच्छन्नौकारोहणकाले नौकामभिमन्त्रयते सुनावमिति मन्त्रेण ।। उत्तरिष्यन्नभिमन्त्रयते सुत्रामाणमिति । प्रपारं गत्वा नौकायाः सकाशात् अवरोहणं कर्तुमिच्छन् नावमभिमन्त्रयते नौकास्थित एव सुत्रामाणमिति । ततोऽवतरेत् ॥ 'वनमभिमन्त्रयते नमोरुद्राय वनसदे स्वस्ति मा संपारयेति' वनं वृक्षवीरुधाकुलितं प्रदेशं प्राप्याभिमन्त्रयते नमो रुद्रायेति ॥ 'गिरिमभिमन्त्रयते नमो रुद्राय गिरिपदे स्वस्ति मा संपारयेति' गिरिं प्राप्यारोडमिच्छन्नमोरुद्रायेत्यभिमन्त्रयते। 'मशानमभिमन्त्रयते नमोरुद्राय पितृपदे स्वस्ति मा संपारयेति । श्मशानं मनुष्यदाहभूमि प्राप्याभिमन्त्रयते नमोरुद्रायेति । ‘गोष्टमभिमन्त्रयते नमोरुद्राय शवलिंडसदे स्वस्तिमा संपारयेति' गोष्ठं गवां वन्धनस्थानं ग्रामावहिरेकीकरणस्थानं वा तमभिमन्त्रयते नमोरुद्रायेति । यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूयात् । इमानि दिग्दर्शनमात्रेणोक्तानि । एतब्यतिरिक्तेष्वपि कर्मसु कारम्भे नमोरुद्रायेति पूर्व ब्रूयात् वदेत् । कुतः? 'रुद्रो वेदसर्वमिति श्रुतेः' इदं सर्व पृथिव्यां पदार्थजातमात्र तत्सर्वं रुद्र एवेति श्रुतेः । 'सिचावधूतोऽभिमन्त्रयते सिगसि न वनोसि नमस्ते अस्तु मा मा हि' सीरिति । वस्त्रप्रान्तभागः सिगुच्यते । तेनावधूतः व्यजनरूपेण, अभिमन्त्रयते तं सिगसीति । वैदिकपाठक्रमं त्यक्त्वा भाष्यव्याख्याक्रमेणाह । 'स्तनयित्नुमभिमन्त्रयते शिवा नो वर्पाः सन्तु शिवा नः सन्तु विद्युतः । शिवा नस्ताः सन्तु य स्वर सृजसि वृत्रहन्निति । स्तनयित्नुईद्दद्दतिमहच्छब्दं दर्शयति श्रुतौ तेन स्तनयित्नुः सर्वरूपो महागर्जनशीलो मेघः । तममिन्त्रयते शिवान इति । ' शिवां वाश्यमानामभिमन्त्रयते शिवो नामेति । शिवा वृद्धा शृगाली । ता शिवां शब्दं कुर्वाणामभिमंत्रयते शिवोनामासीति । 'शकुनि वाश्यमानमभिमन्त्र यते हिरण्यपर्ण शकुने देवानां प्रहितं गमः । यमदूत नमस्तेऽस्तु कि वा कार्कारिणोऽब्रवीदिति' शकुनिः कृष्णकाकः । तं शब्दं कुर्वन्तमभिमन्त्रयते हिरण्यपर्ण इति । 'क्षेभ्यो ह्येव भवति । एवं पूर्वोक्तेषु अभिमंत्रणेषु यथोक्तमभिमन्त्रिते अभिमन्त्रणकर्तुः कुशलं भवति । ' लक्षण्यं वृक्षमभिमअयते मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः । अङ्करास्ते प्ररोहन्तु निवाते त्वामिवर्षतु । अग्निष्टे मूलं माहिर सीः स्वस्ति तेस्तु वनस्पते इति । लझणसंपन्नं पत्रपुष्पफलवन्तमानादिवृक्षमामिमन्त्रयते मा त्वाशनिरित्यादिना । ' सपदि किंचिल्लभेत तत्प्रगृह्णाति द्यौस्त्वा ददातु पृथिवी त्या प्रतिगृह्णात्विति । सः प्रतिग्रहकर्ता किंचित् हिरण्यगोभूकन्यावस्त्रधान्यघृतादिकं लभेत तदा तत् द्यौस्त्वेतिमन्त्रेण प्रतिगृह्णाति । अथ यद्योदनं लभेत तत्प्रतिगृह्णाति द्यौस्त्वा गृह्णात्विति । इष्टावोदनं पक्त्वा दक्षिणात्वेन ऋविग्भ्यो दीयते तदोदनं द्यौस्त्वेति दानोत्तरं प्रतिगृह्य गृहीत्वा मन्त्रं पठेत् । लब्धस्यौदनस्य भक्षणमन्त्रं प्राशनं चाह 'तस्य द्विः प्राभाति ब्रह्मा त्यानातु ब्रह्मा त्वा प्राभाविति । तस्य मन्त्रेण प्रतिगृहीतस्य वारद्वयं प्राश्नाति । कथं ? ब्रह्मात्वाभास्विति प्रथमम् । ब्रह्मा ला प्राश्नात्विति द्वितीयवारम् । अथ यदि मन्थं लभेत् तत्प्रतिगृह्णाति द्यौस्त्वा० गृह्णात्विति । मन्थस्तु दधिसक्तवः पित्रेष्यां लभते तस्यावत्राणं वा प्राशनं वा । अथवा लौकिकेऽपि मन्थे लब्धे द्यौस्त्वेति प्रतिगृह्या 'तस्य त्रिःप्राश्नाति ब्रह्मा त्वाभातु ब्रह्मा त्वा प्राश्नातु ब्रह्मा त्वा पिवत्विति । तस्य लब्धस्य मन्थस्य त्रिः वारत्रयं प्राभाति पृथङ्मन्त्रैः। तेच ब्रह्मा त्वानात, ब्रह्मात्वा प्राधातु ब्रह्मा त्वा पिवतु० इत्यभिमश्रे. प्राशनं मन्थस्य । 'अथातोऽधीत्याधीत्यानिराकरण अथानन्तरमध्ययनान्तरं पठित्वा प्रत्यहमनिराकरणम् । निराकरणं नाम परित्यागः । परित्यागे पुस्तकनिरपेक्षतया पठनं कत्तुं न शक्यते । अतो हेतोरनिराकरणमपरित्यागः । पठित्वा वक्ष्यमाणेनानिराकरणम् । प्रतीकं मे विचक्षण जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरिशुश्रुवे मा त्वाहार्षीः श्रुतं मयि ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोऽसि सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश वाचा त्वां पिदधामि ।