________________
कण्डिका]
तृतीयकाण्डम् । नीत्यष्टौ । कण्ठे भवाः कण्ठ्याः अवर्णकेवलहकारकवर्गविसर्गाः । उरसि भवा औरसाः सहकारवर्गपञ्चमान्तस्थाः, दन्तेपु भवाः दन्त्याः लवर्णतवर्गसकाराः, ओप्टे भवा औष्ठ्याः उवर्णपवर्गोपध्मानीयाः । स्वराश्च करणानि च कण्ठ्याश्च औरसाश्च दन्त्याश्च औष्ट्याश्च स्वरकरणकण्ठ्यौरसदन्त्यौष्ठयाः एतेषां ग्रहणम् उपादानम् धारणं स्थिरीकरणमुच्चारणं प्रयोगः, ग्रहणं च धारणं च उच्चारणं च ग्रहणधारणोचारणानि तेपु शक्तिः स्वरादीनां धारणादिसामर्थ्य मय्यस्तु । मे मम अङ्गानि गात्राणि आप्यायन्तु वर्द्धन्ताम् । न केवलमहानि किन्तु वाक् गी: प्राणः प्राणवायुः सूत्रामेति यावत्, चक्षुर्नयनेन्द्रियं श्रोत्रं श्रवणेन्द्रियं यशः कीर्तिः वलं शारीरमोजः । एतान्यपि वागादीनि आप्यायन्त्वित्यनुपङ्गः । यन्मे मया श्रुतं मीमांसादि अधीतं ऋगादि तत्सर्वे मे मनसि तिष्ठतु सुस्थिरमस्तु । वीप्सानार्थभूयस्त्वप्रतिपादनपरा अन्यसमाप्तिज्ञापनार्था वा । इति सूत्रार्थः ।। ___अथ परिशिष्टोक्तं पृष्ठोदिविविधानं लिख्यते । केशान्तादूर्ध्वमपत्नीक उत्सन्नाग्निरनग्निको वा प्रवासी ब्रह्मचारी वा मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा अन्वग्निरित्यनयर्चाऽग्निमाहृत्य पञ्चभूसंस्कारान्कृत्वा पृष्टोदिविपृष्टो अग्निः पृथिव्यामित्यनयर्चाऽग्नेः स्थापनम् । तत्सवितुः ताई सवितुः विश्वानिदेवसवितरित्येताभिस्तिमृभिः सावित्रीभिः प्रचालनमग्नेः । अथ तस्मिन्नग्नौ सायंप्रातहोमपञ्चमहायज्ञपिण्डपितृयज्ञपक्षाद्याग्रयणादि कुर्यात् । मणिकावधानादिसर्वमावसथ्याधानादिवत् । अनुदिते च होमः । एवं कृते न वृथा पाको भवति । न वृथा पार्क पचेन्न वृथा पाकमनीयान वृथा पाकमश्नीयादिति ॥ १५ ॥ ॥ * ॥ ___ इत्यग्निहोत्रिश्रीहरिहरविरचिताया पारस्करगृह्यसूत्रव्याख्यानपूर्विकप्रयोगपद्धतौ
तृतीयः काण्डः समाप्तः ॥ शुभ भवतु ॥ * ॥ (विश्व०)–'अथातो हत्यारोहणं' हस्त्यारोहणेच्छायां दत्ते वा हस्तिनि विधिरुच्यते । स्वेच्छायां प्रात्यहिकं परेच्छायां कदाचित्कम् । एवमुत्तरत्रापि यथासंभवमूह्यम् । अधिकृतस्य क्षत्रियस्य खेच्छया । आप्तहस्तिनो ब्राह्मणस्येत्यतो हेतोरारोहणविधानम् । एत्य हस्तिनमभिमृशति हस्तियशसमसि हस्तिवर्चसमसीति । एत्य स्वस्थानात् हस्तिसमीपमागत्य हस्तिनमभिमृशति हस्तेन हस्तियशसमिति मन्त्रेण । 'अथारोहतींद्रस्यत्वा वज्रेणाभितिष्ठामि स्वस्ति मा संपारयेति । अथ अभिमन्त्रणानन्तरं हस्तिनमारोहति इन्द्रस्यत्वेतिमन्त्रेण यात्वाध्वानं विमुच्य यवसोदकदानं पूर्वोक्तमवाप्युत्तरत्रापि च ज्ञेयं वाहनशब्दसाम्यात् । ' एतेनैवाश्वारोहणं व्याख्यातं ' तत्र मन्त्रे हस्तिपदस्थाने अश्वपदं प्रयोज्यम् । अभिमर्शने अश्वयशसमस्यश्ववर्चसमसीति । तत इन्द्रस्यत्वेत्यारोहणम् । 'उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्याष्ट्रोसि त्वष्टदेवत्यः स्वस्ति मा संपारयेति' वरागमनेच्छोरन्ययोः प्रतिग्रहे ब्राह्मणस्यापि आरोहणात्पूर्व वाष्ट्रोसीति पठित्वा अभिमन्त्र्य आरोहेत् । 'रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोसि शूद्रजन्मानेयो वै द्विरेताः स्वस्ति मा संपारयेति रासभो गर्दभः, तमारोदुमिच्छन् अभिमन्त्रयते शुद्रोसीति मन्त्रेण द्विरेता इति मंत्रगतविशेपस्तेनाश्वतरो गम्यते । सोऽत्यन्तं सुखगामी त्वरगतिश्च भवतीति । ' पन्थानमभिमत्रयते नमो रुद्राय पथिपदे स्वस्ति मा संपारयेति । ग्रामान्तरेगन्तुमिच्छन् ग्रामावहिनिःसृत्य मार्गमभिमन्त्रयते नमोरुद्राय पथिषदेति मन्त्रेण । एवं मार्गे यदा चतुष्पथस्तदा विशेपः ' चतुष्यथमभिमन्त्रयते नमोरुद्राय चतुष्पथसदे स्वस्ति मा संपारयेति' चत्वारः पन्थानो यस्मिन् स चतुष्पथः नमोरुद्राये मन्त्र जपेत् । 'नदीमुत्तरिष्यन्नमिमन्त्रयते नमो रुद्रायाप्सुपदे स्वन्ति मा संपारयेति । नदी वहंतीमुदकवी परपारं गन्तुमिच्छन्नमोरुद्रायेत्यभिमन्त्रयते । स्नानं विनवोत्तरिष्यन्नभिमन्ध्य परपारं गत्वा स्नानादि कर्तव्यम् । सरस्वत्यां स्नात्वा नित्यं विधायाभिमंत्र्य परपारे गन्तव्यमिति विशेपः ॥ 'नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति' नावं
५१