________________
४००
पारस्करगृह्यसूत्रम् ।
[ पञ्चदशी
अभिमुखः सन् मन्त्रं पठति । रासभोऽनाश्वतरः प्रतीयते मन्त्रलिङ्गात् । ' चतुयेति ' चतुष्पथम् चत्वारः पन्यानो यस्मिन्स चतुष्पथः चतुर्मार्गाभिसरण प्रदेशस्तमभिमन्त्रयते नमो रुद्राय पथिषदे इत्यादिमन्त्रेण । ' नदीरयेति नदीं स्रवन्तीमुत्तरिष्यन् पारं जिगमिषन् नमो रुद्रायाप्युषद इति मन्त्रेणाभिमन्त्रयते । ' नाव मिति ' नावं तरीम् आरोदुमिच्छन् सुनावमारोहेत्यनयर्चाऽभिमन्त्रयते । ‘उत्त‘‘‘णमिति ' उत्तरिष्यन्नुत्तर्तुं प्रत्यवरोदुमिच्छन् तामेवाभिमन्त्रयते सुत्रामाणमित्यनयर्चा | ' वनरयेति' वनं काननं प्रवेष्टुमिच्छन् नमो रुद्राय वनसद इत्यादिनाऽभिमन्त्रयते । ‘ गिरि‘‘रयेति ’ गिरिं पर्वतमारोदुकामोऽभिमन्त्रयते नमो रुद्राय गिरिपद इति मन्त्रेण । 'इमशा... रयेति श्मशानं प्रेतदहनभूमिं कार्यवशात्प्राप्य नमो रुद्राय पितृपदे इति मन्त्रेणाभिमन्त्र - यते । ' गोष्ठ "रयेति' गोष्ठं गोवाढं कार्यवशात्प्राप्य नमो रुद्राय शकृत्पिण्डसद इत्यादिमन्त्रेणाभिमन्त्रयते । 'यत्र श्रुतेः यत्र च येपु अन्यत्रापि अन्येष्वपि अनुक्तकार्येषु पूर्वन्नमो रुद्रायेत्येव ब्रूयात् । पश्चात्तानि कर्माणि कुर्यात् । कुतः हि यतः इदं विश्वं रुद्र एवेति श्रुतेर्वेदवचनात् । 'सिचा. सीरिति ' सिचा वस्त्रप्रान्तेनावधूतः तद्वाताहतस्तदा तां सिचमभिमन्त्रयते सिगसीत्यादिमन्त्रेण । 'शिवान्निति स्तनयित्नुं मेधं गर्जन्तं शिवानो वर्षा इत्यादिमन्त्रेणाभिमन्त्रयते । 'शिवां "नामेति' शिवां शृगालीं वाश्यमानां शब्दं कुर्वाणां शिवो नामेत्यादिमामा हि६-सीरित्यन्तेन मन्त्रेणाभिमन्त्रयते । ' शकुवीदिति शकुनिं पक्षिणं कृष्णकाकमिति यावत् । वाश्यमानं कूजन्तं हिरण्यपर्णेत्यादिमन्त्रेणाभिमन्त्रयते । 'लक्ष'स्पत इति' लक्षण्यं वृक्षं मङ्गल्यं तरुमाम्रादिकमभिमन्त्रयते मात्वाशनिरित्यादिमन्त्रेण । ' स यदि "त्विति स द्विजः यदि चेत् किंचित् गोभूहिरयादिकं लभेत प्राप्नुयात् तदा द्यौस्त्वेति मन्त्रेण तत्प्रतिगृहाति स्वीकुरुते । ' साऽस्य वति । सा दक्षिणा एवंविधाय दीयमाना अस्य ददतः दातुः उपयुज्यमानाऽपि न क्षीयते न ह्रसति प्रत्युत एवं प्रगृहीता सती भूयसी च उत्तरोत्तरमभिवर्धमाना भवति । 'अथ स्विति' अथ कदाचित् ओदनं भक्तं यदि लभेत प्राप्नुयात्तदा तत्प्रतिगृह्य आदाय द्यौस्त्वा ददात्विति मन्त्रं पठेत् मन्त्रपाठस्तु आदानानन्तरं सर्वत्र स्वत्तापत्तये । तस्य लब्धस्यौदनस्य द्विः द्विवारं प्राश्नाति भक्षयति । कथं ब्रह्मा त्वाऽश्नात्विति प्रथमम् ब्रह्मा त्वा प्राश्नात्विति द्वितीयम् । स यदि "त्विति स द्विजः यदि मन्थं दधिमन्थं लभेत प्राप्नुयात्तदा तं प्रतिगृह्यादाय द्यौस्त्वा ददात्विति मन्त्रेण स्वीकृत्य तस्य दधिमन्थस्य त्रित्रिवारं प्राश्नाति कथम् ब्रह्मा त्वाऽश्नातु इति प्रथमं ब्रह्मा त्वा प्राभात्विति द्वितीयं, ब्रह्मा त्वा पिवत्विति तृतीयमिति त्रिभिर्मन्त्रैः । ' अथा णम्' अथेदानीं यतो द्विजानां प्रतिदिन - मध्ययनं विहितमतः कारणात् अधीत्याधीत्य पठित्वा पठित्वा अनिराकरणम् अपरित्यागः कर्तव्यः वक्ष्यमाणनिगदेन ! तद्यथा । ' प्रतीछतु ' अस्यार्थः । प्रतीकं मुखं मे मम विचक्षणं साधुशब्दोचारणसमर्थमस्त्विति सूत्रशेषः । मम जिह्वा यद्वचो वचनं मधु मधुरं रसवत् तद्वदत्विति शेषः । एवमभीप्सितः शेषः सर्वत्र पूरणीयः । कर्णाभ्यां भूरि बहु शुश्रुवे शृणुयाम् । मयि विषये यत् श्रुतमधीतं पठितं वर्तते तत्त्वं मा हार्षीः मापनय । मयि विषये ब्रह्मणो वेदस्य प्रवचनं पाठनं व्याख्यानं वा अस भवेत्यर्थः । तथा ब्रह्मणो वेदस्य प्रतिष्ठानं प्रतिष्ठा स्थितिरित्यर्थः असि । मयीत्यनुवर्तते । ब्रह्मकोशोsसि ब्रह्मण: शब्दरूपस्य कोशः गोपनगृहं गुप्तिस्थानं मयि असि । तथा सनिः समं जीवनमसि । तथा शान्तिः अनिष्टस्य अनिष्टहेतोच शमनमसि । तथा निराकरणं परित्यागः न निराकरणमनिराकरणमसि । मे मम ब्रह्मकोशं हृदयं विश । सर्वेषां वेदानां हृदयमेकायनमिति
श्रुतेः । वाचा गिरा त्वा त्वामपिदधामि छादयामि । आवृत्तिरादरार्था । स्वरा उदात्तानुदात्तस्त्ररिताः करणानि शब्दस्य उत्पत्तेरभिव्यक्तेर्वा साधनानि उरः कण्ठशिरोजिह्वामूलदन्तनासिकोष्ठतालू
.
9
*
•