________________
fusar ]
तृतीयकाण्डम् |
३९९
I
प्रतिगृह्य तस्य त्रिःप्राशनम् ब्रह्मात्वेति प्रतिमन्त्रम् । अस्यार्थः सुगमः । एवं प्रतिग्रहेण दोषाभावोऽपि भवति । दोषध, प्रतिग्रहेण विप्राणां ब्राह्मं तेजो विनश्यतीति । यो न धर्मविधिं वेदेत्यादिवचनाद्यो दाता प्रतिग्राही वा न विधिज्ञः स स्तेनः तद्दण्डेन दण्ड्य इत्यर्थः । अथातोऽधीत्याधीत्य आवृत्या - वृत्य अनिराकरणम् अविस्मरणं कर्म कर्तव्यम्, प्रतीकंमे विचक्षणमिति मन्त्रेणाङ्गालम्भनम् । तस्यार्थः । तत्र परमेष्ठी गायत्री अड्डानि तदालम्भने० । प्रतीकं मुखम् मे मम विचक्षणं विशिष्टवर्णोच्चारणसमर्थम् । अस्त्विति शेषः । मधु मधुरं यद्वचस्तद्वत्विति शेषः । भूरि वहु बहुकालं वा शुश्रुवे शृणवानि । भो ब्रह्मन् वेदपुरुष मयि विपये यच्छुतं शाखं तज्ज्ञानं च त्वं माहार्षीः माहर | तदर्थं स्तौति । त्रह्मणो वेदस्य प्रवचनमध्ययनं त्वमसि । ब्रह्मणः अधीतस्य वेदस्य प्रतिष्ठानं स्थितिराधार इति यावत् । ब्रह्मणस्तस्य कोशो गोपनगृहम् । सनिः संभजनीयम् । शान्तिरनिष्टनिवृत्तिः । अनिराकरणमप्रमादः अविस्मरणमिति यावत् । किंच । मे मम ब्रह्मकोशं वेदाशयं विश प्रविश । सर्वेपां वेदानार्थं हृदयमेकायनमिति श्रुतेः । अहं च वाचा सत्यवाण्या त्या त्वाम् पिदधामि गोपाये छादयामीति वा । यथा मत्तो नापैषि । आवृत्तिर्दार्था । स्वरा उदात्तादयः करणानि संवृता - दीनि कण्ठ्याः कण्ठे भवा अकुहविसर्जनीयाः, औरसाः सहकारा वर्गपञ्चमान्तस्याः, दन्त्याः लुतुलसाः, ओठ्याः उपूपध्मानीयाः, तेषां ग्रहणमुपादानम्, धारणं स्थिरीकरणम्, उच्चारणं प्रयोगः, तेषु शक्तिर्मय्यस्तु । अङ्गानि गात्राणि आप्यायन्तु । तान्याह । वाक् गीः, प्राणो वायुः प्रधानभूत, चक्षुत्रवलम्, श्रोत्रं तत्पाटवम्, यशः कीर्तिः, वलं शारीरम् एतान्यङ्गानि आप्यायन्त्विति संवन्धः । परस्मैपदं छान्दसम् । यन्मे मया श्रुतं मीमांसादि, अधीतमृगादि । यद्वा श्रुतं गुरुमुखात् अधीतम् अभ्यस्तम् अधिगतं वा तत्सर्वे मे मम मनसि हृदये तिष्ठतु स्थिरमस्तु मापयात्रित्यर्थः । वीप्सा ग्रन्यसमास्यवद्योतनार्थं ॥ 1 ॥ १५ ॥ ॥ * ॥
क्षन्तव्यं तच विद्वद्भिर्यन्मया चापलं कृतम् । गृह्यभाध्यमलेखीदं दृष्ट्वा कर्कादिकौशलम् ॥१॥ शोधनीयमिदं सद्भिर्मम त्वापत्यचापलम् । बाल्यप्रोत्साहितस्यात्र यदत्र स्खलितं मम ॥ २ ॥ श्रीमन्मान्त्रिकमाधव श्रुति सुधासिन्धोर्विगाहात तद्वेद्यस्तत्कृपयाऽभवद् द्विजवरः श्रीकेशवस्तादृशः । तस्याङ्घ्रिड यकस्पृशा कृतमिदं कातीयसूत्रस्य सद्भाष्यं सज्जनवल्लभं सुविदुषां प्रेष्ठं शिवप्रीतये ॥ ३ ॥ आचार्यापरनामधेय इति यो दामोदरोऽभूद् द्विजो भारद्वाजसुगोत्र आत्मरतिरप्यस्यात्मजस्तादृशः । नाम्ना श्रीबलभद्र आप्तसुयशास्तत्सूनुनैतत्कतं भाष्यं सज्जनवल्लभं जययुजा रामेण मत्यै शुभम् || ४ || कर्कादिद्विजवर्याणां दृष्ट्वा भाष्याणि भूरिशः । उपचेतुं तदुच्छिष्टं जयरामोऽलिखस्फुटम् ॥ 11 3 11
11% 11
इति श्रीमत्कातीयगृह्यसूत्रभाष्ये सज्जनवल्लभाख्ये जयरामकृतौ तृतीय काण्डदिवरणं समाप्तम् ॥
( हरिहर : ) - ' अथा. हणम्' अथ रथारोहणानन्तरं यतोऽधिकृतस्य हस्त्यारोहणमप्यपेक्षितं भवति अतो हेतोः हत्यारोहणं वक्ष्यत इति सूत्रशेप: । ' एत्यसीति ' एत्य हस्तिसमीपमागत्य हस्तिनं गजम् अभिमृशति आलभते हस्तियशसमसीति मन्त्रेण । ८ अथारयेति ' मथाभिमर्शनानन्तरमारोहति हस्तिनं इन्द्रस्यत्वेति मन्त्रेण । ' एते ख्यातम् ' एतेनैव हस्त्या - रोहणेनैव अश्वारोहणं व्याख्यातं कथितम् अतश्चाश्वसमीपं गत्वाऽश्वमभिमृशति अश्वयशसमस्य श्ववर्चसमसीति मन्त्रेण । ततोऽश्वमारोहति, इन्द्रस्य वा वत्रेणाभितिष्ठामि स्वस्ति मा संपारयेत्यनेन मन्त्रेण । 'उष्ट्र'रयेति' उष्ट्रं क्रमेलकम् आरोदुमिच्छन्नभिमन्त्रयते त्वाट्रोसीत्यादिना मन्त्रेण । ‘रास’‘रयेति' रासभं गर्दभमारोदुमिच्छन् शूद्रोऽसीत्यादिना मन्त्रेणाभिमन्त्रयते