________________
३९८ पारस्करगृह्यसूत्रम् ।
[पञ्चदशी नामैरावतत्वेन प्रसिद्धं यश एव हस्तियशसं तद्रूपोऽसि । तथा तेपां वचों दीप्तिरेव हस्तिवर्चसं तद्रूपश्वासीति । अथ तमारोहति इन्द्रस्य त्वेति मन्त्रेण । तस्यार्थः इन्द्रस्य वजेणायुधेन सहाहमिन्द्रो भूत्वा वा वामधितिष्ठामि सर्वशत्रुजयार्थमारोहामि, त्वं च मा मां स्वस्ति कल्याणं यथा तथा पारयेत्युक्तार्थम् । एवमेवाश्वारोहणं कर्तव्यम् । तत्र मन्त्रोहः । ऊहश्च हस्तिस्थाने अश्वाभिधानम् । उष्टमारोक्षन् आरोदुमिच्छन् तं दृष्ट्वाऽभिमन्त्रयते त्राष्ट्रोऽसि इति मन्त्रेण । एतदाद्यर्थः सुगमः । तत्र परमेष्ठी यजुरुष्ट्रस्तदारोहणे० । रासभं चाश्वतरं मन्त्रलिङ्गात् । तदर्थः । तत्र विश्वामित्रः पतिः रासभस्तदारोहणे । हे रासभ त्वं शूद्रः हीनः असि । यतः शूद्रं शोकावहं जन्म यस्य स आग्नेयः । अग्निदेवत्यः अश्वान्गर्दभ्यामुद्भूतत्वाद् द्विरेताः । चतुष्पथं गच्छंस्तमभिमन्त्रयते नमो रुद्रायेति मन्त्रेण । तत्र परमेष्टी अनुष्टुप् रुद्रो रक्षणे० । पथिषु सीदति तिष्ठतीति पथिषत्तस्मै । एवमुत्तरत्रापि । सुनावमिति मन्त्रेण नावमारुह्यावतर्तुमिच्छन् सुत्रामाणमिति मन्त्रेणावतरेत् । पितृपदे पितृवनवासिने । यत्रेत्यनुक्तप्रसद्धेष्वपि नमोरुद्रायेत्येव ब्रूयात् । कुतः । हि यत इदं सर्वं रुद्रमेवेति श्रुतेः । एवं कृते निर्विनता विध्यनुष्ठानफलं च स्यात् । सिच्शब्देन वस्त्रप्रान्तैकदेशो दशेति प्रसिद्धः, तदुत्थो वायुरमगलः । तथाचापस्तम्बसूत्रम् । यदा वाऽपहतं सिचा वा शुना वा अन्नमभोज्यं स्यादिति । तया सिचाऽवधूतो वीजितस्तदा तामभिमन्त्रयते सिगसीति मन्त्रेण । तत्र त्रयाणां प्रजापतिरनुष्टुप् लिङ्गोक्ता अभिमन्त्रणे स्तनयित्नुमेघगर्जितं श्रुत्वाऽभिमन्त्रयते शिवान इति मन्त्रेण | अस्यार्थः । हे इन्द्र शिवाः कल्याणकारिण्यो नोऽस्माकं वर्षा वृष्टयः सन्तु । तथा हेतयः ऐन्द्राण्यायुधानि शिवा नोऽस्माकं सन्तु । हे वृत्रहन् याच हेतीस्त्वं शत्रुपु सृजसि क्षिपसि ता अपि नः शिवाः सन्तु । शिवां शृगाली वाश्यमानां शब्दं कुर्वाणामभिमन्त्रयते शिवो नामेति मन्त्रेण । यद्यप्ययं मन्त्रः क्षुरादाने विनियुक्त स्तथापि नानाशक्तित्वादत्रापि विनियुज्यते । शकुनि कृष्णकाकम् । अथ मन्त्रार्थः । प्रागुक्तमृष्यादि । हे हिरण्यपर्ण शीघ्रग हे शकुने देवानां प्रहितं प्रेषितं स्थानं गच्छतीति देवादिष्टं शुभाशुभं गमयतीति वा भो यमस्य दूत ते तुभ्यंनमोऽस्तु । त्वा त्वां कार्कारिण इति द्वितीयार्थे षष्ठी। कार्कार काकजात्यनुरूपं शब्दं कुर्वन्तं प्रति यमः किमब्रवीत् । यद्वा । कार्कारिणस्तव स्वामी यमस्त्वां किमब्रवीत् मानवीवित्यर्थः । लक्षण्यं प्रसिद्धं यत्प्रसिद्ध्या ग्रामस्यापि प्रसिद्धिर्भवति तं वृक्षं दृष्ट्वाऽभिमन्त्रयते मा त्वेति मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् वनस्पतिस्तद्रक्षणे० । हे वृक्ष त्वा त्वां अशनिर्वम्रो मा हिसीत् मा नाशयतु । एवमुत्तरत्रापि योज्यम् । परशुः कुठारः राजप्रेषितो दण्डो राजोपद्रवः अग्निश्च ते तव मूलं माहिसीत् । ते तवांकुराश्च प्ररोहन्तु पल्लवा उद्गच्छन्तु । निवाते निर्वाते अल्पवायौ त्वा स्वाप्राप्य देवेन्द्रोऽभिवतु । ते तव स्वस्ति कल्याणमस्तु । हे वनस्पते तथा हे वनस्पते मे ममापि स्वरत्यस्तु । स स्नातको यदि किंचिद् गवादिकं लभेत तत्प्रतिगृह्णाति द्यौस्त्वेति मन्त्रेण, प्रतिग्रहः स्वीकारः । अस्यार्थः । तत्र प्रजापतिरुणिक् दक्षिणा स्वीकारे । हे दक्षिणे द्यौराकाशाभिमानिनी देवता त्या त्वां ददातु यजमानो देवरूपो भूत्वा ददात्वित्यर्थः । पृथिवी सर्वसहा वा त्वां प्रतिगृह्णातु पृथिवीरूपो मानुषो भूत्वा प्रतिगृहावित्यर्थः । त्वत्पदावृत्तिक्षिणायाः कर्मसादगुण्यकर्तृत्वख्यापनार्था । एवं संस्कृता दक्षिणा दातृप्रतिग्राहिणोः सिद्धिकरी भवति । तत्र दातुः सिद्धिरपूर्वोत्पादकत्वेन । प्रतिग्राहिणोऽपि कर्मानुष्ठानयोग्यत्वात् । प्रतिग्रहधना विप्रा इत्यादिवचनात् । सा एवं संस्कृता सती अस्य ददतो न क्षीयते वर्द्धत इत्यर्थः । एवं प्रतिगृहीता सती प्रतिग्रहीतुर्भूयसी प्रचुरतरा भवति, अयं च सर्वप्रतिग्रहे मन्त्रः स्नातकस्य । ओदनं भक्तं तस्य लब्धस्य । अवयवलक्षणा षष्ठीयम् । द्विः द्विवारं प्राभाति ब्रह्मात्वेति मन्त्रभेदाभ्याम् । प्रशब्देन मन्त्रभेदः । दधिदुग्धजलानामन्थतममिश्राः सक्तवो मन्थशब्देनाभिधीयन्ते । तं लभेत तदा द्यौस्त्वेति मन्त्रण