________________
surer]
तृतीयकाण्डम् |
३९७
षदेस्वस्ति मा संपारयेति ॥ १२ ॥ श्मशानमभिमन्त्रयते नमो रुद्राय पितृपदे स्वस्ति मा संपारयेति ॥ १३ ॥ गोष्ठमभिमन्त्रयते मनो रुद्राय शकत्पिण्डसदे स्वस्ति मा संपारयेति ॥ १४ ॥ यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूयाद्भुद्रो ह्येवेदर्ठन्सर्वमिति श्रुतेः ॥ १५ ॥ सिचाऽवधूतोऽभिमन्त्रयते' सिगसि न वज्रोऽसि नमस्तेऽअस्तु मा माहिर्ट-सीरिति ॥ १६ ॥ स्तनयित्नुमभिमन्त्रयते शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्तव सृजसि वृत्रहन्निति ॥ १७ ॥ शिवां वाश्यमानामभिमन्त्र - यते शिवो नामेति ॥ १८ ॥ शकुनिं वाश्यमानमभिमन्त्रयते हिरण्यपर्ण शकुने देवानां प्रहितंगम । यमदूत नमस्तेऽस्तु किंत्वाकाक्करिणो नवीदिति ॥ १९ ॥ लक्षण्यं वृक्षमभिमन्त्रयते मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः । अङ्कुरास्ते प्ररोहन्तु निवाते त्वाऽभिवर्षतु । अनिष्टेमूलं माहिर्ट-सीत्स्वस्ति तेऽस्तु वनस्पते स्वस्तिमेऽस्तु वनस्पत इति ॥ २० ॥ स यदि किंचिल्लभेत तत्प्रतिगृह्णाति द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति साऽस्य न ददतः क्षीयते भूयसी च प्रतिगृहीता भवति । अथ यद्योदनं लभेत तत्प्रतिगृह्य द्यौस्त्वेति तस्य द्विः प्राश्नाति ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नात्विति ॥ २१ ॥ अथ यदि मन्थं लभेत तं प्रतिगृह्य द्यौस्त्वेति तस्य त्रिः प्राश्नाति ब्रह्मा त्वाऽश्नातु बह्मा त्वा प्रां• नातु ब्रह्मा त्वा पिवत्विति ॥ २२ ॥ अथातोऽधीत्याधीत्यानिराकरणं प्रतीकं मे विचक्षण जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरिशुश्रुवे माव हार्षीः श्रुतं मयि । ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोसि सनिरस शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश | वाचा त्वा पिदधामि वाचा त्वा पिदधामीति [तिष्ठ प्रतिष्ठ] स्वरकरणकण्ठ्चौरस दन्त्यौष्ठयग्रहणधारणोच्चारणशक्तिर्मयि भवतु आप्यायन्तु मेऽङ्गानि वाक् प्राणश्चक्षुः श्रोत्रं यशो बलम् ॥ यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु ॥ २३ ॥ १५ ॥
( जयराम: ) -- अथातो हस्त्यारोहणं वक्ष्यत इति शेषः । हस्तिनमेत्य तं स्पृशति हस्तियश - समसीत्यनेन मन्त्रेण । तस्यार्थः । तत्र द्वयोर्ब्रह्मा यजुषी हस्तीन्द्रौ देवते स्पर्शनारोहणयोः । हस्ति