________________
पारस्करगृह्यसूत्रम् ।
[ पञ्चदशी
'हस्तेनोपस्थमभिमृशत्यङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तौ । दूरे हेतिरिंद्रियावान्पतत्र तेोनयः पयः पारयन्त्विति । चक्राभिमन्त्रणोत्तरं हस्तेनोपवेशन स्थानमभिमृशति भङ्कौन्यङ्काविति मन्त्रेण । उपस्थं रथमध्यम् । 'नमोमाणिचरायेति दक्षिणधुर्ये प्राजति' रथे उपवेशनानन्तरं नमोमाणीतिमन्त्रेण दक्षिणधुरि युक्तं बलीवर्दमधं वा प्राजनेन कशया वा प्राजति प्रेरयति गमनाय । 'गवां मध्ये स्थापयति रथम् अप्राप्य देवताः प्रत्यवरोहेत्' गमने क्रियमाणे दूरतो देवालयदर्शने देवालयमप्राप्य रथादवतरेद्भूमौ । 'संप्रति ब्राह्मणान' ब्राह्मणान् प्राप्य समीपे प्रत्यवरोहेत् । न दूरतः । 'मध्ये गाः' गाः सुरभीः प्राप्य गवां मध्ये रथादवतरेत् । 'अभिक्रम्य पितन' पित्रादीन् वृद्धान् प्राप्य रथादवतीर्य अभिक्रम्य आभिमुख्येन गत्वा नमस्कृत्यारुह्य गच्छेदिति सर्वत्र योज्यम् । 'न स्त्रीत्रह्मचारिणौ सारथिनौ स्यातां' स्त्रीशब्देन नारी । ब्रह्मचारी द्विविधोऽपि स्त्रीत्रह्मचारिणौ सारथ्ये कर्मणि न प्रयोज्यौ । 'मुहूर्तमतीयाय जपेदिहरतिरिहरमध्वमेकेमास्त्विहरतिरिति च' [अभ्यवाय मुहूर्तमभ्वायम्य तत इहरतिरिहरंमासु इहरतिरिहरमतामिति ?] जपेत् । ईयाय आगत्य ततस्ततः । ' स यदि दुर्बलो रथः स्यात्तमास्थाय जपेद्यं वामश्विनारथो मादुर्गे मास्तरोरिषदिति' सः रथी दुर्बलरथः स्यात् भवेत् अयं रथोऽध्वानं न पारयिष्यतीति एवंशीलं रथं मत्वा तं रथमास्थाय आरुह्य अयं वेति मत्रं जपेत् । 'स यदि भ्रम्याद्भूम्या ं स्तंभमुपस्पृश्य भूमि वा जपेदेष वामश्विनारथो मादुरों मास्तरोरिपदिति स रथः यदि भ्रम्याद्भूम्यां न्युब्जीभूतो भवेत् अथवा कुटिलो वक्रो भवेत् । तदा रथस्य ध्वजास्तम्भमुपस्पृश्य कुटिले अधः पतिते भूमिमुपस्पृश्य एष वामिति मन्त्रं जपेत् । ' तस्य न काचनार्त्तिर्न रिष्टिर्भवति' एवं कृते तस्य रथस्वामिनः काचन आर्तिः पीडा न भवति । रिष्टिरपि न भवति । रिष्टिरुपसर्ग: । यात्वाऽध्वानं विमुच्य यवसोदके दापयेत्' यात्वा गत्वाध्वानं • स्थानं प्राप्य विमुच्य रथं रथाद्वलीवदों अश्वौ वा पृथक्कृत्य यवसोदके दापयेत् यवसं च उदकं च यवसोदके दापयेत् प्रयच्छेद्भक्षाय पानाय च । यवसं तृणानि उदकं प्रसिद्धम् । 'एष उ वाहनस्यापन्हव इति श्रुतेः एषः वाहनस्य घासपानीयदानं श्रमापनयनम् । तस्माद्येन वाहनेन धावयेत्तद्विमुच्य ब्रूयात्पाययतैनं सुहितं कुरुतेत्येष उअपह्नवः इति श्रुतेः । कुरुतेति बहुत्वं बहुभृत्यविषयम् । इति ब्रूयात् सेवकान्प्रति ॥ १४ ॥
अथातो हस्त्यारोहणम् ॥ १ ॥ एत्य हस्तिनमभिमृशति हस्तियशसम - सि हस्तिवर्चसमसीति ॥ २ ॥ अथारोहतीन्द्रस्य त्वा वज्रेणाभितिष्ठामि स्वरित मा संपारयेति ॥ ३ ॥ एतेनैवाश्वारोहणं व्याख्यातम् ॥ ४ ॥ उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि त्वष्टृदैवत्यः स्वस्ति मा संपारयेति ॥ ५ ॥ रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि शूद्रजन्माग्नेयो वै द्विरेताः स्वस्तिमा संपारयेति ॥ ६ ॥ चतुष्पथमभिमन्त्रयते नमो रुद्राय पथिषदे स्वस्ति मा संपार - येति ॥ ७ ॥ नदीमुत्तरिष्यन्नभिमन्त्रयते नमो रुद्रायाप्युपदे स्वस्ति मा संपारयेति ॥ ८ ॥ नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति ॥ ९ ॥ उत्तरष्यन्नभिमन्त्रयते सुत्रामाणमिति ॥ १० ॥ वनमभिमन्त्रयते नमो रुद्राय वनसदे स्वस्ति मा संपारयेति ॥ ११ ॥ गिरिमभिमन्त्रयते नमो रुद्राय गिरि
३९६