________________
कण्डिका ]
तृतीयकाण्डम् । धिष्ठात्री देवता । तूष्णी वामप्राजनम् । देवना अप्राप्य तद्दर्शनात्याक् यावच्छक्ति प्रत्यवरोहेत् रथादवतरेत् । पदातिर्भूत्वा गच्छेदित्यर्थः । संप्रति दृष्टा ब्राह्मणान्प्रत्यवरोहेदित्यनुषगः सर्वत्र । गाः प्राप्य तन्मध्यं गत्वा । पितृनभ्यागच्छतः पित्रादिमान्यानभिक्रम्य प्रहृल्वेनाभिपत्य उत्तीर्य च मुहूर्तमतीयाय अतिवाह्य जपेदिहरतिरित्यमुं मन्त्रम् । तस्यार्थः । तत्र प्रजापतिर्यजुरग्निः रमणे । हे अग्नयः यूयम् एके मुख्या इह ग्थे रमध्वं क्रीडध्वम् , यतो मम इह रथे रतिरस्ति अतो मा मां प्राप्य भवतामपि इह मद्रथे सुशोभना रतिरस्तु । स साधको यदि दुर्बलरथः दुर्बलो रथो यस्य स तथा स्यात्तदा तं रथमास्थाय जपेदयं वामिति मन्त्रम् । तस्यार्थः । तत्र द्वयोः प्रजापतिरनुष्टुप् अश्विनौ जपे० । हे अश्विना अश्विनौ अयं वां युवयो रथः दुर्गे विपमस्थाने स्तरः हिंसकाद्धेतोर्मा मां मारिषन् माहिसिष्ट । स्तृरिषौ हिंसाौँ । एतेनोत्तरोऽपि व्याख्यातः । स रथो यद्येवमभिमन्त्रितोऽपि भ्रम्यात् कुटिलङ्गच्छेत्तदा तद्ध्वजस्तम्भं भूमिञ्चोपस्पृश्य जपेदेष वामित्यमुं मन्त्रम् । अर्तिः पीडा । रिष्टिविनः । उ निश्चये । एष घासोदकदानरूपोऽपह्नवः अपराधमार्जनम् ॥ १४ ॥
(हरिहरः)-'अथा "हणम्' अथेदानी कार्याथै जिगमिषोर्द्विजस्य यतो यानमपेक्षितमतो हेतो रथारोहणाख्यं कर्म वक्ष्यत इति सूत्रशेपः । 'युक्रे "त्तरम्' तत्र युक्रेति सारथिं संप्रेष्याज्ञाप्य ततः प्रेषितेन सारथिना युक्तो रथ इति प्रोक्ते सति साविराडित्येतेन मन्त्रेण एत्य रथसमीपमागत्य चक्रे रथाङ्गे अभिमृशति, कथं रथन्तरमसीत्यनेन मन्त्रेण दक्षिणं, वृहदसीत्यनेनोत्तरं चक्रं वृहद्रथन्तरे सामनी । 'वाम'वरीम् । वामदेव्यमसीत्यनेन मन्त्रेण कूवरीमीणदण्डाप्रमभिमुशतीत्यनुवर्तते । 'हस्ते 'शति' उपस्थं रथमध्यं उपवेशनस्थानमिति यावत् । अभिमृशति आलभते हस्तेनेति सर्वत्र संवध्यते । अत्र मन्त्रः 'अङ्कौ - पयति' नमो माणिचरायेत्यनेन दक्षिणं धुर्य दक्षिणधुरायां युक्तमश्वं वृषमं वा प्राजति प्रतोदेन प्रेरयति तूष्णीं वामम् । एवं गवां मध्ये रथं स्थापयति । 'अप्रा. "पितृन्' अप्राप्य अनासाद्य दूरत एव देवता हरिहरब्रह्मादिकाः प्रत्यवरोहेत् रथादवतरेत् । संप्रति ब्राह्मणान् विप्रान् संप्रति निकटे प्रत्यवरोहेत् मध्ये गाः सुरभीः प्राप्य मध्ये प्रत्यवरोहेत् । अभिक्रम्य पितृन् पित्रादीन् मान्यान् अभिक्रम्य अभिमुखमेत्य प्रत्यवरोहेत् । 'न स्त्री 'स्याताम्' स्त्री नारी ब्रह्मचारी उपकुर्वाणको नैष्ठिकश्च स्त्रीब्रह्मचारिणौ सारथी न स्यातां न भवेताम् । 'मुहू "रितिच' मुहूर्त क्षणमतीयाय अत्येत्य जपेत् इहरतिरित्यादिकं मन्त्रम् । ' स यदि · पेत्' स रथी यदि चेद्ध्वानं गच्छन् दुर्वल: क्षीणो रथोऽस्येति दुर्वलरथः स्याद्भवेत् तदा तं रथमास्थायारुह्य वक्ष्यमाणमन्त्रं जपेत् । 'अयं पदिति' स रथो यदि पुनभ्रम्यात् चलने कुटिलो भवेत्तदा स्तम्भम् रथध्वजदण्डं भूमि वा उपस्पृश्य जपेत् एष वामश्विना रथ इति मन्त्रम् । 'तस्य वति तस्य रथिनः न काचन अर्तिः पीडा नच रिष्टिरुपसर्गों - भवति य एवं दुर्बलरथ उद्घान्तरथो वा जपति । 'यात्वा"श्रुतेः' यात्वा गत्वा अध्वानं मार्ग विमुच्य मुक्त्वा किं, रथं रथयुक्तं वाहं यवसं च उदकं च यवसोदके घासपानीये ते दापयेत् अश्वेभ्यो यवसोदके दीयेतामिति भृत्यान् प्रेपयेत् । कुतः एष उ वाहनस्य अश्वादेरपन्हवः क्षमापनमिति श्रुतेः श्रवणात्, एप कः तस्मायेन वाहनेन धावयेत्तद्विमुच्य ब्रूयात् पाययतैनं सुहितं कुरुतेति सूत्रार्थः ॥ १४॥
(विश्व०)-'अथातो रथारोहणं' अथानन्तर्ये । इतस्ततो गमनेच्छोः योनापेक्षा भवत्यतो हेतो रथारोहणविधिरुच्यते । युकेति संप्रेष्य । रथयोक्तारं सारथिनं रथपतिः सम्यक् युङ्केति प्रैर्ष ददाति । ततः स रथं युक्त्वा । 'युक्त इति प्रोक्तेऽसा विराडिति' रययोजनोत्तरं स्वामिनं सारथिना युक्त इति प्रतिप्रोक्ते स्वामी असाविराडितिवक्ति । एत्य चक्रे अभिमृशति रयन्तरमसीति दक्षिणं वृह्दसीत्युत्तरं ततो रथसमीपमागत्य रथंतरमसीति मन्त्रेण दक्षिणं चक्रमभिमृशति । ततो वृहदसीत्युत्तरं चक्रम्। 'वामदेव्यमसीति कूवरी कूबरं रथायमर्थादीषाप्रमभिमृश्य वामदेव्यमसीति मन्त्रं जपति ।