________________
पारस्करगृह्यसूत्रम् ।
३९४
[चतुर्दशी सभां प्रविष्टः सः यदि अयं सभापतिः क्रुद्धो मन्येत जानीयात् तदा तं सभापतिम् अभिमन्त्रयते यात इति मन्त्रेण । अथ यदि मन्येत दुग्धोयमिति तमभिमन्त्रयते तां ते वाचमास्य आदत्ते हृदयमादधे । यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं ब्रवीमि तत्रात्यमधरो मत्पद्यस्वेति । अथ यदा सभां प्रविष्टः सः अयं सभापतिर्दुग्धो मन्येत जानाति अयं द्रोहका तं सभापति तां ते वाचमितिमन्त्रेणाभिमन्त्रयते । एतदेव वशीकरणं' अथातः सभाप्रवेशनमित्यादि एतावत्पर्यन्तं सभावशीकरणविधानम् ॥ १३ ॥ ___ अथातो रथारोहणम् ॥१॥ युङ्क्तेति रथं संप्रेष्य युक्त इति प्रोक्ते साविराडित्येत्य चक्रे अभिमृशति ॥ २ ॥ रथन्तरमसीति दक्षिणम् ॥ ३ ॥ बृहदसीत्युत्तरम् ॥ ४॥ वामदेव्यमसीति कूबरीम् ॥ ५ ॥ हस्तेनोपस्थमभिमृशति अौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तम् । दूरेहेतिरिन्द्रियवान्पतत्रि ते नोऽग्नयः परयः पारयन्त्विति ॥ ६ ॥ नमो माणिचरायेति दक्षिणं धुर्यं प्राजति ॥ ७ ॥ अप्राप्य देवताः प्रत्यवरोहेत्संप्रति ब्राह्मणान्मध्ये गा अभिक्रम्य पितॄन् ॥ ८ ॥ न स्त्रीब्रह्मचारिणौ सारथी स्याताम् ॥ ९ ॥ मुहूर्तमतीयाय जपेदिहरतिरिहरमध्वम् ॥ १० ॥ एके मारित्वहरतिरिति च ॥ ११ ॥ स यदि दुर्बलो रथः स्यात्तमास्थाय जपेदयं वामश्विना रथो मा दुर्गे मास्तरोरिषदिति ॥ १२ ॥ स यदि भ्रभ्यात्स्तम्भमुपस्पृश्य भूमि वा जपेदेष वामश्विना रथो मा दुर्गे मास्तरोरिषदिति ।। १३ ॥ तस्य न काचनातिन रिष्टिर्भवति ॥ १४ ॥ यात्वाऽध्वानं विमुच्य रथं यवसोदके दापयेदेष उ ह वाहनस्यापन्हव इति श्रुतेः ॥ १५॥ ॥१४॥
(जयरामः )-अथातो रथारोहणम् । वक्ष्यत इति सूत्रशेषः । ततः स्वामी रथं युकेतिप्रैपेण सारथिं प्रेषयित्वा प्रेपितेन तेनैव युक्त इति निवेदिते साविराडित्येतावता मन्त्रेण रथमेत्यागत्य चक्रे स्थाने हस्तेनाभिमृशति । तत्र रथन्तरमसीत्येतावता मन्त्रेण दक्षिणं चक्रम् । बृहदसीत्येतावता वामम् । अथ मन्त्रार्थः । तत्र त्रयाणां परमेष्ठी यजूंपि अडान्यभिमर्शने० । योऽयं रथः सा विराट् अनदात्री देवता । रथन्तरादीनि सामानि । कूवरी युगन्धरम् । उपस्थं नीडम् । हस्तेनेति सर्वत्र संवध्यते । तत्र मन्त्रः । अड्डौन्यङ्काविति । तस्यार्थः । तत्र प्रजापतिखिष्टुप् अङ्गं तदभिमर्शने० । अङ्कौ द्वौ अङ्काख्यगणपावग्निविशेषौ । एवं न्यङ्कावपि। एवं भूतौ यावनी अमितो रथं रथस्य सर्वतो रक्षकत्वेन ध्वान्तं दुर्गमें प्राप्य वातस्याग्रं मुखमनु अनुसृत्य संचरन्तौ सम्यग्गच्छन्तौ वर्तेते ये चापरे दूरेहेतिः वृहज्चालः तथा इन्द्रियं चात्रेन्द्ररथः । तथा इन्द्रियानुप्राहकः पतत्रि पक्षिकुलानुप्राहकमग्निवृन्दम् । एतेऽग्नयः नोऽस्मान्पारयन्तु निर्विनेनाभीष्टं देशं प्रापयन्तु । किंभूताः । पप्रयः अस्मन्मनोरथपूरणशीलाः । ततो दक्षिणं धुर्य धुरि युक्त वाहं प्राजति प्रकणाजयति गमनाय प्रेरयति । अज गताविति धातुः । नमो माणिचरायेति मन्त्रेण । तस्यार्थः । तत्र प्रजापतिरुष्णिकू माणिचरः प्रेरणे० । माणिचरो रथा