________________
कण्डिका ] तृतीयकाण्डम्।
३९३ अस्यार्थः । तत्र प्रजापतिरनुष्टुप् पर्षत्सभोपस्थाने० । अभिभूः परेषामभिभवनशीलोऽहमागतोऽस्मि । किंभूतः । अविराट् विरुद्धतया राजते स विराट् रुद्धवीर्यः न विराट् अविराट् । तथा अप्रतिवाशी प्रतिवादिशून्यः आः इत्यव्ययं संयुद्धयर्थम् । यद्वा अप्रतिवाश्या इति पर्षदो विशेपणम् अप्रतिक्षेपाया अस्याः पर्षदः सभाया ईशानः स्वामी स्वासु प्रजासु दुष्टरोऽपि स मयि सुजनः अस्त्विति शेषः । दुष्टरश्चोरः । समाधको यदि सभेशं क्रुद्धं जानीयात्तदा तमभिमन्त्रयते क्रोधापनोदाय यातएषेति मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता क्रोधापनयने० । हे असौ अमुकनामन् सभेश ते तव रराटं ललाटं तत्र भवा रराट्या या क्रोधस्य तनूः शरीरं तान्देवा इन्द्राद्याः ब्रह्मचारिणश्व सनकाद्या विनयन्तु अपनयन्तु कथं भूतस्य क्रोधस्य मन्योर्दीतस्य । किभूता देवाः । सुमेधसः स्वबुद्धया क्रोधमपाकर्तुं शक्ताः । किंभूता तनूः नाशनी चतुर्वर्गस्येत्यर्थात् । एषा ललाटत्रिवलिरूपा । मन्त्राभ्यासेनात्मनोप्युत्कर्षमाह । द्यौराकाशरूपोऽहमिति क्रोधावरकत्वमुक्तम् । पृथिवी च क्षितिरूपश्चाहमिति क्रोधाधारत्वेन स्वातन्त्र्यञ्चोक्तम् । अतस्तौ तत्स्वरूपो भूत्वा ते तव क्रोधं नयामसि मन्त्रवलेनापनयामि । कथम् । यथा अश्वतरी गर्भपुष्टिमसहमाना अमार्गेण मुञ्चन्ती तथेति व्याख्येयम् । अथ साधको यदि मन्येतायं सभेशो द्रुग्धो द्रोहकारीति तदा तमभिमन्त्रयते तां त इति मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् ईशो वशीकरणे० । हे सभेश भवान् मद्रोहकारिणीं वाचमास्ये मुखे वर्तमानामादत्ते उपकामति । तामहं ते तव हृदय एवादधे स्थापयामि । किंच । यत्र यत्र स्थाने वाक् वायुवशान्निहिता तां ततस्ततः स्थानात् आददे मदश्यां करोमि । किंच । यदहं ब्रवीमि तत्सत्यमस्तु । वं च मत् मत्तः अधरो नीचः । द्य अद्य इदानी स्व भव ।। अद्यत्यत्र वर्णलोपः । अधरउ इति छेदः । तत्र उ इति दायार्थम् । अतिशयेन स्व भूयाः । यद्वा । तां मद्रोहकारिणीं वाचम् तव हृदय एव अतिशयेन द्यस्व अवखण्डय। शिष्टं समानम् ।। १३ ॥
(हरिहरः)- अथा 'नम् । अथावसथ्याग्निसाध्यकर्मविधानानन्तरं साधारणानि कर्माणि अनुविधेयानि यतः, अतो हेतोः सभाप्रवेशनं कर्म वक्ष्यत इति सूत्रशेपः । ' सभा'नम इति ' यदा द्विजः सभां गच्छति तदा सभाममि आभिमुख्येन एति गच्छति । केन मन्त्रेण सभागिरसीत्यादिना मन्त्रेण । ' अथ 'जन इति । अथाभिमुखमेत्य सभाचमासमित्यादिना मन्त्रेण सभा प्रविशति । 'परिजन इति । परिपदं सभामेत्य प्रविश्य अभिभूरहमिति मन्त्र जपेत् । 'स यदि 'साविति । स सभां प्रविष्टः यदि चेन्मन्येत जानीयात् अयं सभापतिः क्रुद्ध इति तं क्रुद्धमभिलक्षीकृत्य क्रोधापनयनाय मन्त्रयते यातएषेत्यादिना मन्त्रेण । असाविति क्रुद्धस्य नाम । 'अथ 'यस्वेति । अथ यदि दुग्धो द्रोहकर्ताऽयमिति मन्येत तर्हि तमभिमन्त्रयते तां तेवाचमित्यादिमन्त्रेण । एतदेवं अवशस्य वशीकरणम् । इति सूत्रार्थः ।। ॥ १३ ॥
(विश्व०)-'अथातः सभाप्रवेशनं । 'उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । इति मत्वा सभायां प्रत्यहं गन्तव्यं भवति । तदीयविधानमाह । 'सभा"रसीति' सभामाभिमुख्येन एति गच्छति समांगिरसीति मन्त्रेण । अथ प्रविशति सभाचमासमिति । ततोऽनन्तरं ' सभाचमासमितिश्चोभेप्रजापतेर्दुहितरौ सचेतसौ । योमानविद्यादुपमासतिष्ठेत्सचेतनो भवतु संगथे जन इतिमन्त्रेण सभां प्रविशति' । परिषदमेत्य जपेदभिभूरहमागमः विराडप्रतिवाश्याः । अस्याः परिषद ईशानः स्वासु दुष्टरो जन इति । सभाप्रवेशनोत्तरं समां प्राप्याभिभूरिति मन्त्रं जपेत् परिपत्समा । 'स यदि मन्येत क्रुद्धोयमिति तमभिमन्त्रयते या त एपा रराट्या तनूमन्योः क्रोधस्य नाशनी । तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । द्यौरहं पृथिवीचाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यासहासाविति ।
५०