________________
कण्डिका तृतीयकाण्डम् ।
४०३ वाचा त्वा पिदधामि। तिष्ठ प्रतिष्ट स्वरकरणकण्ठ्यौरसदन्त्यौष्ट्यग्रहणधारणोच्चारणशक्तिर्मयि भवतु । आप्यायन्तु मेऽङ्गानि वाक्प्राणश्चक्षुः श्रोत्रं यशो बलम् । यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठविति । अथातोऽधीत्याधीत्यानिराकरणं कर्त्तव्यमुक्तं तदनिराकरणं कृत्वा मन्त्राः पठनीयास्ते मन्त्राः प्रतीकं मे विचक्षणमित्यादयः । तत्र शरीरदोषं त्यक्त्वा मुखादि मन्त्रान्तःपरिपठितं ममास्त्वित्याशी:प्रार्थनम् । एतत्सर्वं ममास्त्विति मन्त्रार्थः । तिष्टविति वीप्सा काण्डसमाप्तिज्ञापनार्था ॥१५॥
अभून्नन्दपुरे मुजो नागरो गोत्रकश्यपे । लक्ष्मीधरो भवत्तस्मात्सूर्यदत्तस्तु तत्सुतः ॥ १॥ तस्मादाशाधरो जातो नारसिंहाभिधस्ततः । तत्सुतेन कृतं भाष्यं विश्वनाथेन धीमता ॥२॥ पारस्करस्य गृह्यस्य पञ्चखण्डावशिष्टकम् । गरिष्ठं सर्वभाष्येपु बहथै निर्णयान्वितम् ॥ ३ ॥ महादेवजगन्नाथपुत्रपौत्रप्रपौत्रकैः । गोपनीयं निरीक्ष्यं च पठितव्यं समाहितैः ।। ४ ।। नारसिंहाप्रजोऽनन्तस्तस्य यो वै प्रपौत्रका लक्ष्मीधराऽभिधस्तम्भतीर्थात्काश्यां समागतः॥५॥ उपहासं पुरस्कृत्य ह्रियंकृत्वा तु पृष्ठतः। भाष्यान्यन्यानि चालोक्य पञ्चखण्डान्यलीलिखत्॥६॥ तेनैव चास्य भाष्यत्य पूर्तिर्जाता यथातथा । संवन्नेत्रग्रहकला १६९२ मितेऽन्दे चोत्तरायने । समाप्तिमगमद्भाष्यं माघे भूते १४ सिते कुजे ॥७॥ इति श्रीमत्सर्वविशारदपंडितश्रीनारसिंहसुतपंडितश्रीविश्वनाथकृते
पारस्करगृह्यसूत्रव्याख्याने तृतीयं काण्डं समाप्तम् ॥ ३ ॥