________________
पारस्करगृह्यसूत्रम्।
[द्वितीया आभ्यः स्थालीपाकमोदनमुक्तप्रकारेण अपयित्वा आज्यभागौ हुत्वा त्वन्नो अग्न इत्याद्यष्टभिराज्येनाहुतयो होतव्याः । अत्र चरुवीहीणां भवति । कामादीजानोऽन्यत्रापि त्रीहियवयोरेवान्यतर स्थालीपाकळं अपयेत् । न पूर्वचोदितत्वात्संदेहोऽसंभवाद्विनिवृत्तिरिति सीतायन्ने वक्ष्यमाणन्यायात् । अयमर्थ. सूत्रस्य-कामादिच्छया अन्यत्र पक्षादिपु यागं कुर्वन् ब्रीहियवयोरन्यतरं चहें अपयेत् नैवात्र संदेहः कुतः ब्रीहीन्यवान्वा हविपीति पूर्व चोदितत्वाटुक्तत्वात् । यावस्य चरोरसम्भवात् विनिवृत्तिः पूर्वचोदितस्य व्रीहीन्यवान्वेत्यस्य । अनवस्रावितान्तरोप्मपक्के ईपदसिद्धे तण्डुलपाके चरुशब्दप्रसिद्धः। आग्रयणेष्टौ ब्रीहीणा यवानां चेति सूत्रणाच । श्रीहीन्यवान्वा हविपीति परिभाषणादग्रपाकस्येत्येतावत्युक्तेऽपि व्रीहीणा यवानामप्रपाकस्येति सिध्यति, किमर्थ ब्रीहीणां यवानामितिग्रहणम् ? उच्यतेवैश्वदेवश्चरुविहितः सोऽपि यावो यथा स्यादिति यवानामित्युक्तं व्रीहिग्रहणं तु यवानामेवेति नियमो माभूदिति । अतः सर्वत्र व्रीहीणामेव चरु. कार्य इति गम्यते अपयित्वेति ग्रहणं सिद्धचरोरुपादाननिवृत्त्यर्थम् । आधारावाज्यभागावित्यनेन प्राप्तत्वात्पुनराज्यभागग्रहणं अष्टाज्याहुतीनामवसरविधानार्थम् , अष्टावितिग्रहणं मत्रप्रतीकसंशयनिराकरणार्थम् । यद्यष्टसङ्ख्याग्रहणं न क्रियते तर्हि त्वन्नो अग्नेनयेति द्वितीया शक्येत तथा सत्वन्नो अग्नेसहस्राक्षेति । वन्नो अग्न इति प्रथमा सत्वन्नो अग्न इति द्वितीया इममेवरुणेति तृतीया तत्वायामि इति च० येते शतमिति पं० अयाश्चाग्न इति प० उदुत्तममिति स० भवतन्न इत्यष्ट० । 'पुरस्ता ...." जुहोति । अग्याघेयदेवताभ्य इत्यवाच्यम् । अग्न्याधेयदेवताभ्यो हुत्वेति वक्ष्यमाणत्वात् । वाच्यं वा अग्न्याधेये हि विकल्पेन द्वयोरपि देवतात्वमस्ति तयोर्देवतात्वं मा भूत् । किंतु वहुत्वविशिष्टानामत्र देवतात्वं यथा स्यादित्यदोपः । स्थालीपाकस्येत्यवयवपष्ठी । पुरस्तात्स्थालीपाकस्य स्थालीपाकात्पूर्वमष्टर्चहोमः । अग्न्याधेयदेवताभ्यो हुत्वा एवमुपरिष्टादृष्टर्चहोमः । ' स्विष्टकृते चायास्यग्नेर्वपटू कृतं यत्कर्मणात्यरीरिचं देवागातु विदइति । उपरितनान्ते अष्टर्चहोमान्तस्थालीपाकस्याग्नये स्विष्टकृते स्वाहेति आहुतिं जुहोति । चशब्दादाज्येन अयास्यग्न इति मन्त्रेणाहुतिं जुहुयात् । स्विष्टकृद्धोमस्य प्राप्तत्वात् पुनर्ग्रहणमयास्यग्न इति होमस्यावसरविधानार्थम् ।। मन्त्रस्यायमर्थः । हे देवागातुविदो यज्ञवेत्तारो देवाः अग्नेः संवन्धि यद्वपकृतं हुतं यत् येन कर्मणा यजनविधिना कृत्वा अहमत्यरीरिचमधिकं कृतवानस्मीति तेन कर्मणा प्रसन्नानां भवतां प्रसादात्तदयासि अनश्वरमव्याहतमस्तु । ' वहिर्तुत्वा प्राभाति ' परिस्तरणवहिर्हस्तेनैव हुत्वा पात्रान्तरस्थापितहोमशेपद्रव्यं भक्षयति । प्राशनस्य प्राप्तत्वात् । वहिहोमोत्तरकालविधानार्थ ग्रहणम् । शेषरक्षणं भक्षणं च श्रौतसूत्रे उक्तमस्ति । पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति । अस्यार्थः पाकशब्देन च स्मार्तहोमा उच्यन्ते । तत्र होमाथै यवत्तं गृहीतं तस्य असर्वहोमः कर्तव्यः सुवादिमियगृहीतं तद्भुत्वा किश्चित्परिशेष्य पात्रान्तरे स्थापनमित्यर्थः । सर्वहोमान्हुत्रा पात्रान्तरस्थापितसर्वशेषाणां प्राशनम् । वर्हिोंमश्चात्रैव वचनान्नान्यकर्मसु । वर्हिहोंमे प्रजापतिर्देवता अनिरुक्तत्वात् । तथा च लिहुम् अनिरुक्तो वै प्रजापतिरिति । आज्यं द्रव्यमनादेशे जुहोतिपु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टे कात्यायनोक्तेश्च । ततो ब्राह्मणभोजनम् । तत इति सूत्रादेवं ज्ञायते मध्ये मार्जनं पवित्रप्रतिपत्तिः प्रणीताविमोको दक्षिणादानं च कृत्वा ब्राह्मणभोजनम् । एकद्विवहुपु समासस्य तुल्यत्वादेकस्मिन्नपि चरितार्थत्वादेकस्यैव भोजनमिति । यत्र बहूनां भोजनं तत्र स्वयमेवोपदिशति यथा संस्थिते कर्मणि ब्राह्मणान्भोजयेदिति तथा सर्वासां पयसि पायस अपयित्वा ब्राह्मणान्भोजयेदिति । अत्र स्मृत्यन्तरोक्तत्रयोविंशतिब्राह्मणभोजनमिति हरिहरपद्धतौ । चतुर्विशनोजनमिति रेणुकदीक्षिताः । यज्ञपार्श्वे विशेषः । गर्भाधानादिसंस्कारे ब्राह्मणान्भोजयेहश । शतं विवाहसंस्कारे पञ्चाशन्मेखलाविधौ । आवसथ्ये त्रयस्त्रिंशच्छौ