________________
२७
कण्डिका]
प्रथमकाण्डम्। प्रसिद्धये । निर्माय यन्त्रविहितं पिता संस्थाप्य यत्नतः । जाते कुमारे मनीयादग्नि यथाविधि स्वयम् । आयुष्यहोमान् जुहुयातस्मिन्नग्नौ समाहितः । तत्रान्नप्राशनं चौलं मौजीवन्धनमेव च । व्रतादेशश्च कर्तव्यस्तस्मिन्गोदानिकाः क्रियाः । कुर्याद्वैवाहिको होमो वह्नौ तस्मिन्समाहितः । शालाग्निकर्म तत्रैव कुर्यात्पक्तिं च नैत्यकीम् । नित्यहोमं पञ्चयज्ञान् कुर्यात्तस्मिन्ननाहितः । स्मार्तसंस्थादिकं यच्च तत्सर्व तत्र गद्यते इति । जातारणिपक्षस्तु युगान्तरे भवति न कलौ । प्रजाथै तु द्विजाग्र्याणां प्रजारणिपरिग्रहः । इति कलिवर्यत्वात् । दानवाचनान्वारम्भणवरवरणवतप्रमाणेपु यजमानं प्रतीयादिति परिभाषितत्वात् यजमानामुलादिमानं ग्राह्यम् । अङ्गुष्ठाङ्गुलमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदेति छन्दोगपरिशिष्टम् । बृहत्पाणि मध्यपर्वाणि तन्मूलग्रन्थयो यत्राङ्गुष्ठनोदना तत्राङ्गुष्ठस्याङ्गुलिनोदनायामङ्गुलीनाम् । छन्दोगानां स्वपरिशिष्टोक्तत्वादनुष्टैररणिमानम् । वाजिनां तु यज्ञपादिङ्गुलैरिति । सूत्रोक्तपक्षस्तु यजमानेनोवाहुप्रपदोच्छ्रितेन समस्थितेन वेति । पञ्चारलिर्दशवितस्तिर्विछंशतिशताङ्गुलः पुरुष इति सूत्रान्तु पुरुपस्य पञ्चमोंऽशोऽरनिस्तच्चतुर्विंशोङ्गुलमिति रामवाजपेयिभिराधानप्रकरणे उक्तम् । अथात्र पात्रलक्षणमुच्यते । तत्र यज्ञपार्श्वसंग्रहकारिकायाम् । खादिरः स्फ्याकृतिर्वञोऽरनिमात्रः प्रशस्यते । आसनं ब्रह्मणः कार्य वारणं वा विकङ्कतम् । हस्तमात्रं चतुःस्रक्ति मूलदण्डसमन्वितम् । द्विषडङ्गुलसंख्याको मूलदण्डो विककृतः । प्रस्थमात्रोदकयाही प्रणीताचमसो भवेत् । वैकङ्कतं पाणिमात्रं प्रोक्षणीपात्रमुच्यते । हंसमुखप्रसेकं च वग्बिलं चतुरङ्गुलम् । आज्यस्थाली तु कर्तव्या तैजसद्रव्यसंभवा । माहेयी वापि कर्तव्या नित्यं सर्वाग्निकर्मसु । आज्यस्थाल्याः प्रमाणं तद्यथाकामं तु कारयेत् । मृन्मय्यौदुम्वरी वापि चरुस्थाली प्रशस्यते । तिर्यगूर्व समिन्मानहढा नातिबृहन्मुखी । कुलालचक्रघटितमासुरं मृन्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि खलु दैविकम् । यज्ञवास्तुनि मुष्टौ च स्तम्बे दर्भवटौ तथा । दर्भसंख्या न विहिता विष्टरास्तरणेषु च । अङ्गुष्ठपर्ववृत्तश्चारनिमात्रः सुवो भवेत् । पुष्करार्द्ध भवेत्खातं पिण्डका? सुचस्तथा । पिण्डका? मुष्ट्यर्द्धमित्यर्थः । यावताऽनेन भोक्तुस्तु तृप्तिः पूर्णैव जायते । तं वरार्थमतः कुर्यात्पूर्णपात्रमिति स्थितिः । यवैर्वा ब्रीहिभिः पूर्णं भवेत्तत्पूर्णपात्रकम् । वरोऽभिलषितं द्रव्यं सारभूतं तदुच्यते । अष्टमुष्टि भवेत् किंचित् किंचिदष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि पूर्णपानं विधीयते । इत्याधानपात्राणि । अन्यान्यप्यत्रैव लिख्यन्ते । शूर्प वरलिमात्रं स्यादैपिक वैणवं तु वा । लम्वं त्वरलिमात्रं स्यादुपला च षत्तथा । विस्तारो दृषदः प्रोक्तो द्वादशाङ्गुलसंख्यया । पालाशं जानुमात्रं स्यात्पृथुबुनमुलूखलम् । अर्द्धखातं वृहद्वकं मध्ये रास्नासमन्वितम् । खादिरं मुसलं प्रोक्तमरत्नित्रयसंमितम् । प्रादेशमात्रं विज्ञेयं मेक्षणं तु विकङ्कतम् । वृत्तमङ्गुष्ठपर्वाग्रमवदानक्रियाक्षमम् । ईदृश्येव भवेही विशेषस्तामहं ब्रुवे । वारण्यरनिमात्रा स्यात्तुयोशाधिकपुष्करा । हस्ताकारा च पृथ्वग्रा अग्रे सफणाकृतिः । आकर्षफलकं हस्तमात्रं स्याद्धनुराकृतिः । अग्रे सर्पफणाकारं खादिरं वा विकङ्कतम् । कङ्कतानि त्रिदन्तीनि वारणानि भवन्ति हि । वारण्यरनिमात्रा स्यादद्भिः शासं दशाङ्गुलम् । द्वात्रिंशदगुला शम्या वारणीत्यभिधीयते । अपर्णान्परिधीन कुर्याद्वाहुमात्रानपुष्करान् । श्रीपण्यौं हस्तमात्रे च अपण्यौ शूलमेव च । तच्छूलं यस्य कस्यापि यज्ञियस्य तरोर्भवेत् । लौही वा मृन्मयी वा स्यात्पशूखा च यथार्थतः । लौही ताम्रमयी वापि कुर्याच्चैव यथार्थतः । पात्राणि वारणान्यत्र यानि प्रोक्तान्यसम्भवे । वैकङ्कतानि कार्याणि सूत्रान्तरमतादपि । अभावे मु. ख्यवृक्षस्य यजियस्य तरोरिह । यत्किंचित्पात्रजातन्तदिति भास्करसंमतिः । अश्वत्थस्यारणी ग्राह्या नान्यस्मादेव वृक्षतः । एवं सर्वेषु शास्त्रेषु दृष्टा सूत्रान्तरेष्वपि । 'अग्न्याधेयदे..........."भवतन्न इत्यष्टौ' औतस्याग्न्याधेयस्य देवताः अग्निः पवमानोऽग्निः पात्रकोऽग्निः शुचिरदितिश्चेति ।