________________
२६ पारस्करगृह्यसूत्रम् ।
' [द्वितीया प्रायश्चित्तं कृत्वा तेनैव विधिना यावजीवं वर्तयेदिति गर्गपद्धतौ । 'चातुष्प्राश्यपचनवत्सर्वमिति ।। चातुष्प्राश्यपचनं यस्मिन् कर्मणि विद्यते तदिहापि सर्व भवति, कुतः पञ्चमहायज्ञा इति श्रुतेः, पञ्चमहायज्ञानां श्रुतौ पाठस्तत्साधनभूतोऽयमग्निरतस्तद्वदिहापि सर्व भवतीति पूर्वः पक्षः । सिद्धान्तस्तु उत्सूत्रः । चातुष्पाश्यपचनवंतीति कर्तव्यता न भवतीति । यत्कारणम् , उपदेशातिदेशयोरन्यतरेण धर्माणां प्रवृत्तिः नात्रोपदेशो न चातिदेशः तस्मान्नैव चातुष्पाश्यपचनवतीतिकर्तव्यता प्रवर्तते । ननु तर्हि किमर्थमिदमुक्तम् , आधानसामान्याद्वा श्रोतानां पञ्चमहायज्ञानांसाधनभूतत्वाद्वा श्रौताऽऽधानधर्माः स्युरिति बुद्धिः स्यात्तां निराकर्तुमिदमुक्तमित्यदोषः। गृह्यान्तरे चानयैव भ्रान्त्या श्रौताधानेतिकर्तव्यता उक्ताऽस्ति तां निवारयितुमिह सूत्रकृता पूर्वपक्षः कृतः । अरणिलक्षणं चोक्तम् यज्ञपार्श्वसंग्रहकारिकायाम् । अश्वत्थो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राड्मुखी शाखा उदीची चोर्ध्वगाऽपि वा ॥ १ ॥ अरणिस्तन्मयी ज्ञेया तन्मय्येवोत्तरारणिः । सारवद्दारवं चात्रमोविली च प्रश्यस्यते ॥ २ ॥ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते । अलाभे त्वशमीगर्भादाहरेदविलम्बितः ॥३॥ चतुर्विंशाङ्गुला दीर्घा विस्तारेण षडङ्गुला । चतुरङ्गुलमुत्सेधा अरणिर्याज्ञिकैः स्मृता ॥ ४ ॥ मूलादृष्टाङ्गुलं त्यक्त्वा अयाच्च द्वादशाङ्गुलम् । अन्तरं देवयोनिः स्यात्तत्र मथ्यो हुताशनः ।। ५॥ मूर्धाक्षिकर्णवक्राणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि ब्यङ्गुष्ठं वक्ष उच्यते ॥ ६ ॥ अङ्गुष्ठमात्रं हृदयमङ्गुष्ठमुदरं तथा । एकाङ्गुष्ठा कटिज्ञेया द्वौ बस्तिद्वौ च गुह्यके ॥७॥ अरू जङ्ग्रे च पादौ च चतुरुयेकैर्यथाक्रमम् । अरण्यवयवा ह्येते याज्ञिकैः परिकीर्तिताः ॥८॥ यत्तद्गुह्यमिति प्रोक्तं देवयोनिः स उच्यते । तस्यां यो जायते वह्निः स कल्याणकदुच्यते ॥ ९ ॥ प्रथमे मन्थने ह्येष नियमो नेतरेपु च । अष्टाङ्गुलः प्रमन्थः स्याञ्चानं स्याद् द्वादशाङ्गुलम् ॥१०॥ ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् । गोबालैः शणसमिस्त्रिवृद्धत्तम शुकम् ॥ ११ ॥ व्यामप्रमाणं नेत्रं स्यात्तेन मथ्यो हुताशनः । चात्रबुने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः ॥ १२ ॥ बहुदिने मन्थनेन प्रमन्थनाशे तत्रैवोक्तम्--उत्तराया अभावाद्धि ग्राह्यो मन्थोऽधरारणेः ।। १३ ॥ व्याख्यातं कैश्चिदेवं तन्निर्मूलत्वादुपेक्ष्यते । मानप्रकारो यज्ञपाचे-शिरश्चक्षुः कर्णमास्यं प्रथमेंऽशे प्रकीर्तितम् ॥ १४ ॥ द्वितीये कन्धरा वक्षो तृतीये ह्युदरं स्मृतम् । चतुर्थे चैव योनिः स्यादूरुद्वन्द्वं च पञ्चमे ॥ १५॥ षष्ठे जङ्ग्रे तथा पादौ पूर्णा चारणिरक्तः । यदि मन्थेच्छिरस्यग्निं शिरोरोगैः प्रमीयते ॥ १६ ॥ यजमानस्तथा कण्ठे मंसे चैव विशेषतः । मन्थेद्यो यजमानस्तु पक्षहीनो भवेद्भुवम् ॥ १७ ॥ यो मन्थत्युदरे कर्ता क्षुधया म्रियते तु सः । देवयोन्यां तु यो मन्थेद् देवसिद्धिः प्रजायते ॥ १८ ॥ मन्थेदूरुद्वये यस्तु राक्षस कर्म तस्य तत् । जङ्घायां यातुधानेभ्यः पादयोः स्यात्पिशाचके ।। १९ ॥ प्रथमे मन्थने ज्ञेयं द्वितीयादौ न शोधयेत् । अष्टाऽङ्गुलः प्रमन्थः स्याही! द्वयङ्गुलविस्तृतः ॥ २०॥ उत्सेधो द्वयङ्गुलस्तस्य त्वैशानपूर्व उर्ध्वगः । एवमष्टादश प्रोक्ताः प्रमन्था झुत्तरारणेः ॥ २१ ॥ पादौ तस्याः स्मृतं मूलमनस्तु शिर उच्यते । अध्वर्युः प्राड्मुखो मन्थेत्प्रत्यग्दिकचरणा हि सा ॥२२ ॥ ओविली यजमानेन धृत्वा गाढं च मन्थयेत् । मशीयात्प्रथमं पत्नी यद्वा कश्चिद् दृढो द्विजः ॥ २३ ॥ मूलादष्टाङ्गुलं त्यक्त्वा अप्राञ्च द्वादशाङ्गुलम् । अन्तरा देवयोनिः स्यात्तत्र मथ्यो हुताशनः ॥ २४ ।। मूलादगुलमुत्सृज्य अग्रात्सा डलं तथा । योनिमध्ये पुनर्मानं कृत्वा मथ्यो हुताशनः ॥ २५ ॥ नान्यवृक्षण मनीयान्न कुर्याद्योनिसंकरम् । क्लेदिता स्फाटिता चैव सुपिरा प्रन्थिमस्तका ॥ २६ ॥ चतुविधारणिस्त्याच्या श्रेयस्कामैर्द्विजातिभिः । क्वेदिता हरते पुत्रान् स्फाटिता शोकमावहेत् ॥ २७ ॥ प्रन्थिमूर्द्धा हरेत्पत्नी सुपिरा पतिमारिणी ।। इति औतस्माताधानेऽरणिलक्षणम् । इतरेषु च संस्कारेष्वरणिर्दादशाङ्गुला । मूलात्रिभागजननिस्तदर्धेनोत्तरारणिः । वक्ष्ये जातारणे: पक्षं कुमाराग्ने