________________
प्रथमकाण्डम् ।
२५
कण्डिका ]
ति । गीतवादिननिरतान्नर्तकान्पारदारिकान् । वशिकान् गारुडांश्चैव परिविन्दन्न दुष्यति । योगशास्त्राभियुक्ते च द्विजे प्रब्रजिते तथा । नास्तिके चाग्निसंयोगे न दोषः परिवेदने । पिता पितामहो यस्य अग्रजो वाऽप्यनग्निमान् । इज्यातपोऽग्निसंयोगे न दोषः परिवेदने । परिवेद्नवाक्ये येयन्ते दोषसंयुताः । तेषामप्यधिकारोऽस्ति प्रायश्चित्तादनन्तरम् । पिता पितामहो वापि नास्तिको वाप्यनाश्रमी । यस्य दोषोऽस्ति नैवेह तस्याधाने कदाचन । अग्रजे सति निर्दुष्टे यवीयानग्निमान् भवेत् । प्रतिपर्व भवेत्तस्य ब्रह्महत्या न संशयः । नाग्नयः परिविन्दन्ति न वेदा न तपांसि च । न च श्राद्धं कनिष्ठस्य विरूपा या च कन्यका । ज्येष्ठो भ्राता यदा तिष्टेदाधानं नैव चाश्रयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा । ज्येष्टभ्रात्रा त्वनुज्ञातः कुर्यादग्निपरिग्रहम् । अनुज्ञातोऽपि सन्पित्रा नाध्यान्मनुरवीत् । धनवार्धुषिकं राजसेवकं कर्षकं तथा । प्रोपितं च प्रतीक्षेत वर्षत्रयमपि त्वरन् । प्रोषितश्चेत्रिवर्ष स्यात् त्र्यब्दादूर्ध्वं समाचरेत् । आगते तु पुनस्तस्मिन्पादकृच्छ्रद्वयं चरेत् । देशान्तरस्थो न ज्येष्ठो ज्ञायेता हितवानिति । कनीयानधिकारी चेदादधीताविचारयन् । द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोगतः । न्याय्यः प्रतीक्षितो भ्राता श्रूयमाणः पुनः पुनः । प्रोषितस्तु यदा ज्येष्ठो ज्ञायेताना - हितानलः । पवत्सरान् प्रतीक्षेत आदधीतानुजस्तथा । पितरि प्रेतभार्ये वा देशान्तरगतेऽपि सन् । अधिकारविघातो हि न पुत्रस्योपजायते । सोदराणां च सर्वेषां परिवेत्ता कथं भवेत् । दारैस्तु परिविद्यन्तेनाग्निहोत्रेण नेज्यया ' इति । अग्न्याहरणार्थ योनिमाह वैश्यस्य इति श्रुतेः पशुभिः समृद्धस्य वैश्यस्य गृहादग्निं हुतोच्छिष्टमसंस्कृतं वा आनीयाधानं कुर्यात् । एके अरणिप्रदानम् अरण्युपादानकमिच्छन्ति । अयमर्थः - प्रशब्दोऽत्र उपशब्दार्थे, अरणी प्रदानमुपादानकारणमुत्पत्तिस्थानं यस्याग्नेः सोऽरणिप्रदानस्तमग्निमादधीतेति मन्यन्ते अतो विकल्पः । अत्र सांख्यायनगृह्ये बहुपशुविद्रकुलाम्बरीषत्रहुयाजिनामन्यतमं तस्मादग्निमिन्धीतेति । छन्दोगगृह्ये वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याभ्यादध्यादपि वा बहुयाजिन एवाऽऽगाराद्राह्मणस्य वा राजन्यस्य वा वैश्यस्य वाऽपि वा अन्यं मथित्वाऽभ्यादध्यात्युण्यस्त्वेवानर्धुको भवतीति यथा कामयेत तथा कुर्यात्स एवास्य गृह्योऽग्निर्भवति इति । तथा गृह्यान्तरं छन्दोगभाष्ये । ब्राह्मणकुलातु ब्रह्मवर्चसकामोऽग्निमाहृत्यादधीत राजन्यादोजोवीर्यकामो वैश्यात्पशुकामोऽम्बरीपात् धनधान्यकाम आरणेयमुरुपुण्यकोशकाम इति । पुनराधाने अग्न्यनुगमने च आचाने या योनिरङ्गीकृता सैव भवति । तथा च छन्दोगभाष्ये शाखान्तरगृह्यम्, पूर्वैवानुगतेऽग्नौ योनिः पुनराधेये चेति । वैश्यगृहाग्न्यभावे शाखान्तरोक्ताया योनेरग्न्याहरणमिति हरिहरः । अस्मत्सूत्रोपरि तु वैश्यगृहादग्न्याहरणं वाऽरण्योरिति युक्तं न तु वैश्याभावे गृह्यान्तरोक्ताया योनेराहरणं, गृह्यान्तरयोन्यपेक्षया वरं विकल्पेन स्वगृह्योक्ता योनिर्ग्राह्येति नमो हरिहरमिश्रेभ्यः । यस्मिन्पक्षे वैश्यगृहादग्न्याहरणं तस्मिन्पक्षे यावज्जीवं वैश्यसन्निधौ निवासः, शान्तेऽग्नौ वैश्यकुलादाहृत्य सर्व
१ पुण्यस्त्वेवानर्जुको भवतीति । पुण्यः पुण्यकृत, केवलपुण्यकोशवृद्धिदेवायमारणेयोऽग्निरिति । अनद्धुकः । ऋद्धिर्बुद्धिः । ब्रह्मवर्चसादीना वृद्धिं न करोतीत्यनर्द्धकः । तुशब्दो विशेषणार्थः । वैश्यकुलादियोन्याहृतादग्नेरारणेयो विशिष्ट इति । यतश्चात्र स्वाधीनत्वात् योनेरनुगतोऽप्यग्निः क्षिप्रमेव पुनर्निर्मथ्योत्पाद्यते । अन्यत्र पराधीनत्वात् । बहुया जिवैश्याम्बरीपयोश्च दुर्लभत्वात्प्रायश्चित्तप्रसङ्गः पुनराधानप्रसगो वा स्यात् । अनर्द्धकत्वाद्विशिष्टविरोध इति चेन्न । उरुपुण्यकोशवृद्धिकारित्वादनर्द्धकस्यापि अविरोध एव । तथाचोत्तम् । नहि पुण्यकृतः किञ्चित्रिषु लोकेषु दुर्लभम् । दुष्प्राप्यमपि येनात ब्राह्मण्यं गाधिसुनुनेति । तस्मादारणेय एव विशिष्टोऽग्निरिति । पुण्यमेवादधीताग्निः स हि सर्वैः प्रशस्यते । अनर्द्धकत्व यत्तस्य काम्यैत्तनीयते गममिति वचनात् । सू० । यथा कामयेत तथा कुर्यात् । य एतेऽन्त्य • समिदाघानादयः पडाधानकल्पाः सप्त वोक्ता याचेमा वैश्यकुलाद्याः पञ्चानियोनयः तत्र गुणदोषान्विविच्य यथा कामयेत तथा कुर्यादिति ।
४