________________
कण्डिका] प्रथमकाण्डम् ।
२९ ताधाने शतात्परम् । अष्टकं भोजयेद्भक्त्या तत्तत्संस्कारसिद्धये । सहनं भोजयेत्सोमे ब्राह्मणानां शनं पशौ । चातुर्मास्ये तु चत्वारि शतानि पञ्च सुराग्रहे । अयुतं वाजपेये च ह्यश्वमेधे चतुर्गुणम् । आप्रयणे प्रायश्चित्ते ब्राह्मणान् दशपञ्चचेति । अत्रैवं व्यवस्था । यत्र ततो ब्राह्मणभोजनमिति सूत्रमस्ति तत्रैकं पूर्व भोजयित्वा यज्ञपाश्र्वोक्तं ब्राह्मणभोजनम् । यत्र विवाहादौ सूत्रं नास्ति तत्र कर्मान्ते परिशिष्टोक्तमेव भोजनम् ॥ २ ॥
" अथावसथ्याधाने पदार्थक्रमः "-तच चतुर्युत्तरकालेऽभ्रातृमतः भ्रातृमतस्तु धनविभागकाले । गृहपतौ प्रेते एकादशेऽहनि प्रागेवैकादशश्राद्धात् द्वादशेऽहनि वा मातृपूजाऽऽभ्युदयिकरहितं ज्येष्ठः कुर्यात् । कालातिक्रमे तु प्रायश्चित्तं कृत्वा माघादिपञ्चमासेपु श्रावणे आश्विने वा कार्यम् । 'तत्र पूर्व वपनं कृत्वा अतिक्रान्तसंवत्सरसंख्यया प्राजापत्यरूपं प्रायश्चित्तं मुख्यविधिना चरेत् । तद्
शक्तौ प्रतिप्राजापत्यं गां दद्यात् । तदभावे तन्मूल्यं निष्कमेकमबै तदधै वा दद्यात् । तदभावे प्रतिप्राजापत्यं द्वादशब्राह्मणभोजनम् अयुतगायत्रीजपं गायध्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षया कुर्यात् । तत्रैवं संकल्पः । आधानाकरणजनितदोपनाशाथै वर्पसंख्याकान्कृच्छ्रानहमाचरिष्ये । अथवा प्राजापत्यप्रत्याम्नायत्वेन प्रतिप्राजापत्यमेकैकां गां ब्राह्मणेभ्योऽहं संप्रददे । अथवा एतावतीनां गवां मूल्यमिदं संप्रददे । ब्राह्मणान्वा भोजयिष्ये । एवमग्रेऽपि संकल्पः । ततः सायंप्रातोमद्रव्यं प्रत्यहमाइतिचतुष्टयपरिमितमतिक्रान्तदिवसान् गणयित्वा ब्राह्मणेभ्यो दद्यात् । तन्मानं च कारिकायाम् । पष्टिप्रस्थमितं धान्यं त्रिप्रस्थप्रमितं घृतमिति संवत्सरस्योक्तम् । प्रस्मृतिद्वितयं मानं प्रस्थं मानचतुष्टय. मिति च । तत्र संकल्पः । होमाकरणजनितप्रत्यवायपरिहारार्थमेतावद्वार्पिकं दधियवतण्डुलानामन्यतमं ब्राह्मणेभ्योऽहं संप्रददे । तन्मूल्यं वा दद्यात् । इतरपक्षाद्यादिकर्मद्रव्यदाननिवृत्तिः, होम्यं दद्यादिति वचनादिति रामवाजपेयिनः हरिहरश्च । गङ्गाधरस्तु सायंप्रातहोंमपक्षादिकर्मपिण्डपितृयज्ञा. धनुसंधानार्थ साधनभूतं होमद्रव्यमिति लिखितवान् । ततो यथोक्ते काले पूर्वाहे वैश्वदेवं कृत्वा गणपतिं पूजयित्वा पुण्याहवाचनं कुर्यात् । तद्यन्त्र कर्तव्यं तदुच्यते । व्यासः । संपूज्य गन्धमाल्याथैाह्मणान् स्वस्ति वाचयेत् । धर्मकर्मणि माङ्गल्ये संग्रामेऽतिदर्शने । गृह्यपरिशिष्ठे-अथ स्वस्तिवाचनमृद्धिपूर्तेपु । ऋद्धिर्विवाहान्ता अपत्यसंस्काराः, प्रतिष्ठोधापने पूर्त, तत्कर्मणश्वाचन्तयोः कुर्यादिति । आश्वलायनस्मृतिः-वैदिके तान्त्रिके चादौ ततः पुण्याह इष्यते । शौनकः पुण्याहवाचनविधि वक्ष्यामोऽथ यथाविधि । प्रयोक्तः कर्मणामादावन्ते चोदयसिद्धये । इति । तच्च कर्मप्रयोगान्तर्गतमिति केचित् वहवस्तु प्रयोगवहिर्भूतमिति । आद्यपक्षे कर्मप्रयोगसंकल्पं कृत्वा कार्यम् । द्वितीये तु तत्कृत्वा कर्मसंकल्पः । अथ प्रयोगः । हेमाद्रौ दानखण्डे वढचगृह्यपरिशिष्टत्वेनोक्तः सकलसाधारणशिष्टाचारप्राप्तश्च पुण्याहवाचनप्रयोगः । कृतमङ्गलस्नानः स्वलंकृतः कृताचमनः प्राड्मुखो यजमानो वस्त्राच्छादिते पीठे उपविश्य पनी च स्वदक्षिणतः प्राङ्मुखीमुपवेश्य संस्कार्य च तथैवोपवेश्य ॐ समुखश्चैकदन्तश्चेत्यादि शुक्लाम्बरधरं देवं० अभीप्सितार्थ. सर्वमङ्गलमाङ्गल्ये० सदासर्वकार्येपु० । सर्वेषु कालेषु समस्तदेशेपु० तदेवलग्नम्० यत्र योगेश्वरः कृष्णो० सर्वेष्वारब्धकार्येषु० इति श्लोकान् पठिना ॐ लक्ष्मीनारायणाभ्यां नमः उमामहेश्वराभ्यां नमः शचीपुरन्दराभ्यां नमः मातापितृभ्यां नमः इष्टदेवताभ्यो नमः कुलदेवताभ्यो नमः सर्वेभ्यो ब्राह्मणेभ्यो नमः । आचमनप्राणायामौ कृत्वा देशकालौ संकीर्त्य अमुकफलसिद्ध्यर्थे श्वोऽद्य वाऽमुककर्माहं करिष्ये । तदड़तयाऽऽदौ पुण्याहवाचनादि करिष्ये इति संकल्पयेत् । यदा तु प्रयोगाद्वहिर्भूतं पुण्याहवाचनायङ्गं तदाऽमुकफलसिद्धयर्थममुककर्म कर्तुमद्भूतमादौ पुण्याहवाचनादि करिष्ये इति प्रत्येकं संकल्पः । प्रधानसंकल्पस्तु सर्व कृत्वा तदिने श्वो वा कार्यः । ततः कर्ता स्वपुरतः महीधौः पृथिवीचन इति भूमि स्पृष्ट्वा ओपत्रयः समिति