________________
३६० पारस्करगृह्यसूत्रम्।
इनवर्म ॥ ॥ अथ वृषोत्सर्गः ॥ तत्र देशकालावुच्चार्याऽमुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाहादियोग्यताप्राप्त्यर्थं वृपोत्सर्ग करिष्य इति संकल्प्य मध्ये गवां संस्कृतप्रदेशे सुसमिद्धमग्नि कृत्या ईशाने रुद्रकलशस्थापनम् । ततोऽग्नेर्दिग्विदिक्ष्वष्टौ कलशान स्थापयेत् । ततस्तेषां प्रतिष्ठा । ततो दक्षिणतो ब्रह्मासनमास्तीर्येत्यादि सक्षीरं प्रणीताप्रणयनम् । चरुग्रहणे अग्नयेरुद्रायशर्वायपशुपतयउग्रायाशनयेभवायमहादेवायेशानायजुष्टं गृह्णामीति । ततः पूष्णे जुष्टंगृहामीति पिष्टग्रहणम् । आचार्यमते तु पौष्णश्वरुरायः । पायसश्वरुद्वितीयः । विपरीतमेतदिति देवयाज्ञिकाः । अन्येपि । ' आज्य"जुहोति' प्रतिमन्त्रम् । ततः पर्युक्षणान्ते पुनराज्य संस्कृत्य इहरतिरिति षड्जुहोति । आधारहोमात्मागाज्याहुतिप्रज्ञप्त्यर्थमाज्यसंस्कारोक्तिः । इहरतिः स्वाहा । इहरमध्वंस्वाहा । इहधृतिः स्वाहा । इहस्त्रबृतिः स्वाहा । इदंपशुभ्यइति त्यागाः । इहरतिः पशुदैवतमित्युक्तेः उपसृजं धरुणं मात्रे धरुणो मातरंधयस्वाहा । रायस्पोषमस्मासुदीपरत्स्वाहा । इदमनय इति त्यागौ। उपसृजनुष्णिगाग्नेयीत्युक्तेः । तत आधारावाज्यभागौ । ततः पायसचरुहोमः । अग्नये स्वाहा । रुद्रायस्वाहा । शर्वायस्वाहा । पशुपतयेस्वाहा । उग्रायस्वाहा । अग्नयेस्वाहा । भवायस्वाहा । महादेवायस्वाहा । ईशानायस्वाहा । इदंपूर्वकाः स्वाहाशून्या मन्त्रा एव त्यागाः । प्रत्याहुत्युदकस्पर्शः । ततः पूषा''होति सनोतुनइत्यनन्तरं स्वाहाकारप्रयोगः । इदंपूष्णे इतित्यागः । ततः पायसपोष्णाभ्यां स्विष्टकृते हुत्वा त्यक्त्वा च । 'रुद्रंजपित्वा' ततः रुद्रं जपित्वा रुद्रकलशे रुद्रमावाह्य गन्धमाल्यादिभिः संपूज्य नमस्त इत्यादिरुद्राध्यायं जपिवेत्यर्थः । ततः पुराणप्रसिद्धिस्थापिताऽएकलशार्द्धन वृषस्य स्लपनं । चतुर्मिः कलशैश्चतसृणां वत्सतरीणां स्लपनम् एकवचेद्वत्सतरी तदा चतुर्भिस्तस्या एव स्लपनम् । एते च कलशस्थापनस्लपने गरुडपुराणादालोच्ये । कीदृशस्य वृषस्योत्सर्ग इत्यपेक्षायामाह 'एक' 'स्यात् ' यः वृपःमहत्वलघुत्वाद्यूयस्य छादको वा छायो वा रोहितः आरक्तः एकद्विवर्णादिविकल्पः । तमलंकृत्य लगादिभिः सौवर्णभंगादिभिरित्यन्ये। 'यूथे "कृत्या स्त्रीधार्यवस्वमाल्यादिभिः। सुवर्णशृङ्गादिभिरित्यन्ये । अस्मिन्नवस(रेर)प्राचं वैवाहिकं होममिच्छन्त्येके । ततो वृषवत्सतरीभिः अग्नेः प्रदक्षिणां कारयित्वा वत्सतरीणां मध्ये वृष स्थाप्य । अयं गावो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः । इत्युक्त्वाऽयस्कारमाहूय वामे चक्र दक्षिणे त्रिशूलं कारयेत् । एवं तप्तायसेन अङ्कयित्वा रुद्रकलशस्थोदकेन तं स्नपयेत्। या काचित्पुत्रकामा सा वृषस्याऽधस्तात्स्नानं करोति काम्ये वृषोत्सर्गे । ततः पुनर्वृषं संपूज्याऽधेत्यादिदेशकालौ स्मृत्वा काम्ये कामनोल्लेखः नित्ये तु प्रेतस्य प्रेतत्वनिवृत्तय इत्युल्लिख्य पुच्छमादायाऽमुं वृषं रुद्रदैवतं यथाशक्त्यलंकृतं गन्धाधर्चितमुत्सृजामीति संकल्प्य पुच्छे पुरुषसूकेन प्रेतनाना च नर्पण, काम्ये तु तर्पणं पौराणिकैर्मन्त्रैर्गयाशीर्षवद्दक्षिणखुरे पिण्डदानं च । एतं."जेरन् । एतंयुवानमिति सव्येन हस्तेन पुच्छमादाय दक्षिणहस्तेन सहिरण्याः सतिलाः सकुशाः अप आदायामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाहश्राद्धयोग्यताप्राप्त्यर्थमुत्सृजामि इत्युक्त्वा सहिरण्यं सतिलमुदकं भूमौ क्षिपेत् । ' नभ्य"पेण' समीपस्थो नभ्यस्थः तं मयोभूरित्यारभ्य सूर्यः स्वाहेत्यनेनाभिमन्त्रणम् । ततः धर्मस्त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा । तवोत्सर्गादिमं प्रेतं समुद्धर भवार्णवात् । मातृपक्षाश्च ये केचिद्ये चान्ये पितृपक्षतः । गुरुश्वशुरवन्धूनां कुले येषां समुद्भवः। प्रेतभावं समापन्ना ये चान्ये श्राद्धवर्जिताः । वृषोत्सर्गेण ते सर्वे लभन्तां तृप्तिमुत्तमाम् । वृषप्रार्थना । ततो दक्षिणस्कन्धेत वृषस्यैशानी दिशं प्रति प्रेरणम् यथेष्टं पर्यटेति मन्त्रेण । ततः स्विष्टक्तद्रोमादिब्राह्मणभोजनान्तम् । अनन्तरं वैश्वदेवः । इदानीं पाक्यज्ञान्तरमाह-सर्वा 'येत् । यावत्यः स्वीया गावः तावतीना सर्वासामित्यर्थः । अस्य प्राशितपदवाच्यत्वात्पञ्चमहायज्ञादि पाकान्तरेण कार्यम् 'पशुमप्येके कुर्वन्ति' उक्तविधिना पायसेन ब्राह्मणभोजनानन्तरं पशु चैके कुर्वन्तीत्यर्थः । अस्य पाकयज्ञस्योत्तराङ्गपशुः