________________
कण्डिका] तृतीयकाण्डम् ।
३५९ च तत्क्षीरं पातव्यं केनचित्कचित् । न वायोऽसौ वृषश्चैपामृते गोमूत्रगोमये इति ॥ ततश्च यथेष्टविनियोगनिषेधान्मतिस्तोकत्वेन(?)किंचिदप्युपादानं कार्यम् । ननु औपादानिकस्वत्वानन्तरं विक्रीय कपर्दिकादानमप्यस्त्विति चेन्न । नवाह्य इत्यस्य विनियोगमात्रोपलझणत्वात् विक्रयस्यापि यथेष्टविनियोगरूपत्वात् , किंतु गोपशुविक्रयस्य निषेधश्रुतेः कथं तदर्थमुपादानम् । उल्लचितमर्यादो विक्रय करोत्विति चेत् , तस्योच्छृङ्खलत्वेन हेयत्वात् , शास्राण्यनधिकृत्य शाखाप्रवृत्तेः (१) संकल्पविरोधाच्च, तथाह्यनेन प्रियेण वनेष्वनवच्छिन्नकालं चरथेति संकल्पो नतु परोपेतं गोबलीवर्दरूपं मुञ्चतामिति(?)। वाप्यादौ तु सर्वभूतानि स्नानपानावगाहनादि यथेष्टमिह कुर्वन्त्वित्येतावानेव संकल्पः । यदि तु वत्सतरीणामपत्यानि केनचिदुपादाय दोह्यन्ते तदाऽस्य न दोषः । तत्पर्यन्तमेव दोहनवाहननिषेधवाक्यस्य तात्पर्यात् भवेद्वचनमिति न्यायाच ॥ ॥ अथ पायसप्राशनं नाम कर्मान्तरं प्रकरणैक्यात्स्वर्गाधन्यतमकामस्याभिधीयते । तत्र कालविशेषानभिधानात्प्रकृतोत्सर्गकाल एव गृह्यते । ततश्च वृषोत्सर्गविहितकार्तिक्याद्यन्यतमसमये मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वाऽऽवसथ्याग्नौ स्वकीयानां सर्वासां गवां दोग्ध्रीणां पय आदाय तत्र पयसि तण्डुलान्प्रक्षिप्य पायसं अपयित्वा त्रिप्रभृतीन् यथाशक्ति यथासंभवं ब्राह्मणान्भोजयेत् । अथवा शूलगवविधिना छागं पशुं च कुर्यादिति पायसप्राशनम् ॥ एष वृषोत्सर्गविधिः स्वर्गादिकामस्यौपासनानौ साग्नेर्भवति । यः पुनः प्रेतगतस्वर्गादिफलसाधनभूतो ब्राह्मणादीनां वर्णानामेकादशत्रयोदशषोडशैकत्रिंशत्तमेष्वस्ति वृपोत्सर्गः स्मृत्यन्तरे विहित , तत्रापि द्विजातीनां साग्निनिरनीनां काण्वमाध्यंदिनशाखानुसारिणां लौकिकाग्निनाऽनेनैव विधानेन कर्तव्यो मातृपूजाभ्युदयिकश्राद्धं विना । प्रेतसपिण्डानां प्रथमेऽन्दे काम्याभ्युदयिकयोनिषेधात् । शूद्रस्य तु मन्त्रवर्ज क्रियामात्रम् । निरग्नीनां तु स्वर्गादिकामानां कार्तिक्याद्यन्यतमकाले लौकिकाग्नौ कर्तव्यो भवतीति विशेषः । अत्र केचिदाहुः-एकादशेऽन्हि संप्राप्ते यस्य नोत्सृज्यते वृषः । प्रेतत्वं हि स्थिरं तस्य दत्तैः श्राद्धशतैरपि, इत्यादिस्मृतिवचनात् , क्षत्रियवैश्यशूदैरप्येकादशेऽहयेव आशौचमध्ये नियतकालीनत्वाद्वषोत्सर्गः कर्तव्य इति । तद्युक्तम् । अत्र प्रकरणे एकादशाहादिशब्दा आशौचसूतकान्तकालोपलक्षकाः । अन्यथा 'अहन्येकादशे नाम ' तथा 'आनन्त्यात्कुलबर्माणामायुषश्च परिक्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ' इत्यादिभिर्वचनैर्नामकरणसपिण्डनादिक्रिया क्षत्रियादीनामशुद्धावेवापद्येत । न तदिष्यते । शुचिना कर्म कर्तव्यमिति कर्माधिकारे शुद्धेरपेक्षितत्वात् , सा च शुद्धिः क्षत्रियादीनां त्रयोदशे षोडशे एकत्रिंशत्तमे दिने भवति । तस्मादेकादशाहादिशब्दाः सूतकान्तमुपलक्षयन्ति ॥ ९॥ * ॥ ॥ॐ॥
(विश्व०)ोयज्ञातिदिष्टशूलगवधर्मातिदेशार्थमाह ' अथ वृपोत्सर्गः' उच्यत इति शेषः । अत्रापि स्वर्गपुत्रपशुधनायुःकीर्तिकामानामधिकारः । ' गोय.''ख्यातः ' पायसेनाऽनयेरुद्रायेत्यादिशूलगवदेवतोद्देश्यकहोमो भवतीत्यर्थः । समयमाह — कार्ति"जस्य । कार्तिक्यां पौर्णमास्यामाश्वयुजस्य वा पौर्णमास्यां भवतीत्यर्थः । रेवत्यामित्याश्वयुज्यां फलातिशयार्थम् । अत्रादौ मातृपूजाभ्युदयिके । 'मध्ये 'कृत्वा ' गोपदं विशेषणम् । उपलक्षणमित्यन्ये । सुसमिद्धमित्येतद्भसंस्कारनिवृत्त्यर्थ, भूसंस्कारा भवन्तीत्यन्ये । अयं च वृषोत्सर्गः मृतस्य सूतकान्ते प्रेतत्वनिवृत्तये आवश्यकः । सच साभेर्दाहदिनादेकादशाहे । निरमेस्तु मरणदिनात् । तत्रादौ विष्णुपूजनतत्तपणे । तत्र प्रयोगः-विधिवत्स्नात्वा प्राणानायम्य देशकालौ संकीर्त्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थं वृषोत्सर्गयोग्यताप्राप्त्यर्थ विष्णोः पूजनपूर्वकं तर्पणमहंकरिष्ये इति संकल्प्य कार्य पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव । अनेनामुकप्रेतस्य प्रेतत्वनिवृत्तिरस्तु । वृषोत्सर्गयोग्यताप्राप्तिरस्तु । इतिविष्णुतर्पणम्