________________
३५८
पारस्करगृह्यसूत्रम् ।
[ नवमी
1
9
धन्यतरः स्मृतः । एते सर्वे धनधान्यविवर्द्धनाः । तथा चरणाप्रमुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारससवर्णश्च तन्नीलमिति निर्दिशेत् । तथा- - लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर विपाणाभ्यां स वृषो नील उच्यते । तथा नीलाधिकारे-- एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् । मुक्त्वा न शोचेन्मरणं महात्मा मोक्षे मतिं चाहमतो विधास्ये । इति । गाथाऽपि तदर्थेयम् । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृपमुत्सृजेत् । मथ वर्जनीया वृषाः - कृष्णताल्वोष्ठदशना रुक्षशृङ्गशफाञ्च ये । आसक्तदन्ता हस्वाश्च व्यानभस्मनिभाश्च ये । ध्वांक्षगृप्रसवर्णाश्च तथा मूषकसंनिभाः । कुजाः काणाश्च खञ्जाश्च केकराक्षास्तथैव च । अत्यन्तवेतपादाश्च उद्भ्रान्तनयनास्तथा । नैते नृपाः प्रमोक्तव्या गृहे धार्याः कथंचन । उपादेयश्च वृषस्त्रिहायन: तथा वत्सतर्योऽपि चिहायन्य एव। अथ स्नात आचान्तः प्रेतपुत्रादिरन्यो वा होता ब्रह्मा च तत्रान्यपक्षे ॐ अद्यामुकमासीयामुकतिथौ पित्रादिगतस्वर्गकामो वृषोत्सर्गमहं करिष्ये इति प्रतिज्ञाय अद्य कर्तव्ये वृपोत्सर्गहोमकर्मणि भवान्मया निमन्त्रितः । तथैव होमकर्मणि कृताकृतावेक्षकत्वेन मया भवान्निमन्त्रित इति वस्त्रचन्दनताम्बूलादिभिः होतृब्रह्माणौ वृणुयात् । ततः स्वयं गवां मध्ये गोष्ठे पञ्च भूसंस्कारान्कृत्वा आवसथ्याग्निं स्थापयेत् । होतृब्रह्मप्रणीतानामासनदानम् । ब्रह्माणमुपवेश्य प्रणीतासु क्षीरोदकप्रणयनम् । उदकमात्रप्रणयनमिति केचित् । आज्यं तण्डुलाः पौष्णः पिष्टमयः सिद्ध एव चरुः । होतुवस्त्रयुगं सुवर्णकांस्यादिदक्षिणा च । ब्रह्मणः पूर्णपात्रं वरो वा दक्षिणा | प्रोक्षण्युदकेन पात्रप्रोक्षणम्, पवित्रस्य च प्रणीतासु निधानं प्रणीतेन पयसा यथाविधि पायसचरुश्रपणम्, उद्वासनादि, प्रोक्षण्युदकेन पर्युक्षणान्तमाज्येन इहरतिरित्याद्या: पडाहुतयः इदमनय इति पदत्यागाः । तत आधारावाज्यभागौ, ततः पायसेनाग्नय इत्यादीशानान्तः शूलगवदेवताभ्यो होमः । ततः पिष्टचरुणा पूपा गा अन्वेतु नः पूपा रक्षत्वर्वतः । पूषा वाज:- सनोतु नः स्वाहेत्येकाहुतिः पूष्णे । ततः पायसपिष्टच - रुभ्यां स्त्रिष्टकृद्धोमः । ततो भूराद्या नवाहुतयः संस्रवप्राशनम् । दक्षिणान्ते रुद्रान् जपित्वा एकस्मिन्पार्श्वे चक्रेणापरस्मिन् शूलेन वृपभमङ्कयित्वा वत्सतरीर्वृपं च हिरण्यवर्णेति चतसृभिः शंनोदेवीरिति च स्नापयित्वा लोहघण्टिकानूपुरकनकपट्टादिभि: पञ्चाप्यलंकृत्य वृषभस्य दशिणे कर्णे जपेत् । वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या स मां रक्षतु सर्वत इति ॥ तत उत्सर्गः ' ॐ अद्यामुकमासीयामुकतिथौ ०, एतं युवानं पतिमित्यादिसमिषामदेमेत्यन्तेनैव । पारस्करेण एतयैवोत्सृजेरन्निति एवकारेणान्यनिषेधात् । तथाच ऋगर्थः । हे वत्सतयों वो युष्माकं एतं वृषं युवानं तरुणं पतिं भर्तारं ददामि त्यजामीत्यर्थः । हे वत्सतय यूयमपि न मयोपयोक्तव्याः, किंतु तथा त्यक्ताः सत्य उपवनेषु अनेन प्रियेण पत्या सह कीडन्ती. क्रीडन्त्यः चरथ स्वच्छन्दं भ्रमत चरत तृणानि खादतेति वा । चर गतिभक्षणयोः । नोऽस्माकं गृहेषु साप्तजनुषा सप्तजन्मपर्यन्तं असुभगा मा चरत, किच युष्मत्प्रसादाद्वयं रायस्पोषेण धनपुष्ट्या इषा अन्नेन च संमदेम सम्यक् तृप्येम, इत्याशंसा । तदुक्तम् -- ततः प्रमुदितास्तेन वृपभेण समन्त्रिताः । वनेषु गावः क्रीडन्ति वृषोत्सर्गप्रसिद्धि || ततो वत्सतरी मध्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण । ततो यवतिलयुतं जलं पित्रा - दिभ्यः पितृतीर्थेन दद्यादनेन मन्त्रेण । स्वधा पितृभ्यो मातृभ्यो वन्धुभ्यञ्चापि तृप्तये । मातृपक्षाश्च ये केचिद्ये चान्ये पितृपक्षजाः । गुरुश्वशुरवन्धूनां ये कुलेषु समुद्भवाः । ये प्रेतभावमापन्ना ये चान्ये श्राद्धवर्जिताः ॥ वृषोत्सर्गेण ते सर्वे लभन्तां तृप्तिमुत्तमाम् । दद्यादनेन मन्त्रेण तिलाक्षतयुतं जलम् । उत्सृष्टान्नोपयुञ्जीत स्वामी चान्योऽपि मानव इति । ननु यथा वापीकूपतडागादावुत्सर्गे कृते पर - मिव स्वीकारिते निरिष्टिक ( ? ) तज्जलगोचरतया सर्वेषामौपादानिकं स्वत्वं भवति, तथेहापि त्यक्तानां वृपादीनां केनचिदप्यस्वीकृतानां निरिष्टिकानामौ पादानिकं स्वत्वं कुतो न भवति तत्राह नैवाज्यं न
I