________________
कण्डिका
तृतीयकाण्डम् । रमध्वः स्वाहा २ इहधृतिः स्वाहा ३ इहस्वधृतिः स्वाहा ४ उपसृजं धरुणं मात्रे धरुणो मातरं धयन्स्वाहा ५ । रायस्पोषमस्मासु दीधरस्वाहा ६ । इदमग्नये इति पसु त्यागाः। एवं षडाहुतीर्हत्वा आज्यभागान्ते पायसेन शूलावदेवताभ्योऽग्न्यादिभ्य ईशानान्ताभ्यो नवाहुतीः प्रत्येक हुत्वा पिष्टचरोः पूषागाअन्वेतुनइत्यादिसनोतुनइत्यन्तेन स्वाहाकारयुतेन मन्त्रेणैकामाहुति हुत्वा इदं पूष्णे इति त्यागं विधाय पायसपौष्णाभ्यां स्विष्टकृते हुत्वा महाव्याहृत्यादिहोमसंस्रवप्राशनान्ते पूर्णपानवरोरन्यतरं ब्रह्मणे दक्षिणां दद्यात् । अथ नमस्तेरुद्रमन्यव इत्यारभ्यासमाप्ते रुद्राक्षपित्वा एकवर्णादिगुणविशिष्टं वृषभं चतसृभिर्वत्सतरीभिः सहितं वस्त्रमाल्यानुलेपहेमालंकारादिभिरलंकृत्य एतं युवानमित्यादिसमिषामदेमेत्यन्तया ऋचा उत्सृजेरन् । ततो वत्सतरीमध्ये स्वं वृषभ मयोभूरभिमावाहि स्वाहेत्यारभ्य स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकशेषेणाभिमन्त्रयते । इति वृषोत्सर्गः । अन्न यत्प्रेतकृत्यं तदन्योक्तं लिख्यते । तत्र प्रेतपित्रादिगतनानाविधसमुचितस्वर्गादिफलकामस्य स्वगतपुण्यातिशयाशोकमोक्षगतिकामस्य वाऽधिकारः। तत्र प्रथमसंवत्सराभ्यन्तरे कृतसपिण्डीकरणस्याकृतसपिण्डीकरणस्य च मातृस्थापनपूजनाभ्युदयिकाद्धानि न भवन्ति । सूतकान्तद्वितीयमहरेवास्य परं वृषोत्सर्गस्य कालो न कार्तिक्यादिः । प्रथमसंवत्सरे काम्यकर्माभ्युदयिकयोरनधिकारात् । कुतः । तथैव काम्यं यत्कर्म वत्सरात्प्रथमावृते । इतिवचनात् । सूतकान्ते द्वितीयेऽहनीति यद्वचनं तत्तथैव काम्यं यत्कर्मेति वचनं वाधित्वैव प्रवर्तते अनन्यविषयत्वात् । कार्तिक्यादिवचनं तु संवत्सरोतरकालीनकार्तिक्यादौ संकोच्यम्, अन्यथा वाधसापेक्षत्वाभ्यां वैपन्यापत्तेः । ततश्च संवत्सरानन्तरं कार्तिक्यादिकाले पित्रादिगतनानाविधतृप्त्यादिकामेन क्रियमाणो वृषोत्सों मातृस्थापनपूजनश्राद्धपूर्वक एव कर्तव्यः । तस्य च कार्तिकीचैव्याश्वयुजीरेवत्यः कालाः । अथ फलश्रुतिः-उत्सृष्टो वृपभो यस्मिन् पिवत्यथ जलाशये । शृङ्गेणोल्लिखते भूमि यन्न कचन दर्पितः । पितृणामन्नपानं तत्तत्प्रमृत्युपतिष्ठते । वृपोत्सर्गाहतेनान्यत्पुण्यमस्ति महीतले । तथा । वृषभस्य तु शब्देन पितरः सपितामहाः । आवर्तमाना दृश्यन्ते स्वर्गलोके न संशयः। जले प्रक्षिप्य लागूळ तोयं यद्धरते वृषः । दशवर्षसहस्राणि पितरस्तेन तर्पिताः । कुलात्समुद्धृता यावच्छृते तिष्ठति मृत्तिका । भक्ष्यभोज्यमयैः शैलैः पितरस्तेन तर्पिताः । गवां मध्ये यदा चैष वृपभः क्रीडते तु यत् । अप्सरौघसहस्रेण क्रीडन्ति पितरस्ततः । लागूलमुद्यमं यावत्तीयेपु क्रीडते तु सः । अप्सरोगणसंधैश्च क्रीडन्ति पितरः सदा । सहस्ररत्नपात्रेण कनकेन यथाविधि । तृप्तिः स्याद्या पितॄणां वै सा वृषेण समोच्यते । एतानि चार्थवादफलानि समुचितान्येव कामनाविषयः । अथ वृषस्वरूपम्-जीववत्सायाः पयस्विन्याः पुत्रो मुखपुच्छपादेषु सर्वशुक्लो नीलो लोहितो वा वृषः । तथा-उन्नतस्कन्धककुद् ऋजुलाङ्गुलभूषणः । महाकटितटस्कन्धो वैडूर्यमणिलोचनः । प्रवालगर्भशृङ्गानः सुदीर्घजुवालधिः । नवाष्टदशसंख्यैस्तु तीक्ष्णाप्रैर्दशनैः शुभैः । मल्लिकाख्यश्च मोक्तव्यस्तथा वर्णेन ताम्रकः । कपिलो वृषभः श्रेष्ठो ब्राह्मणस्य प्रशस्यते । श्वेतो रक्तच कृष्णश्च गौरः पाटल एव च । तथा-पृथुकर्णो महास्कन्धः सूक्ष्मरोमा च यो भवेत् । रक्ताक्षः कपिलो यश्च रक्तशृङ्गगलस्तथा । श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते । स्निग्धवर्णेन रक्तेन क्षत्रियस्य प्रशस्यते । काञ्चनाभेन वैश्यस्य कृष्णः शुद्रस्य शस्यते । यस्य प्रागायते शृङ्गे स्वमुखाभिमुखे सदा। सर्वेपामेव वर्णानां स वै सर्वार्थसाधकः । तथा-मार्जारपादः कपिलस्तथा कपिलपिङ्गलः । श्वेतो मार्जारपादः स्यात्तथा मणिनिभेक्षणः । तथा-गौरतित्तिरिकृष्णतित्तिरिसन्निभौ । तथा-आकर्णमूलात श्वेतं यस्य मुखं स नान्दीमुखः । विशेषतो रक्तवर्णः । तथा-यस्य जठरं श्वेतवर्ण पृष्ठं च स समुद्रनामा । अतसीवों जघन्यः । तथा-भूमौ कर्षति लाशूलं पुनश्च स्थूलवालधिः । पुरस्तादुन्नतो नीलः स श्रेयान्वृपभः स्मृतः । तथा रक्तशृङ्गाग्रनयनः श्वेतदन्तोदरस्तथा । प्रवालसदृशास्येन वृषो