________________
३५६
पारस्करगृह्यसूत्रम् ।
[नवमी
6
स्वर्गफलः कल्प्यते उत पूर्वोकशूलगवानन्तराभिधानात्तत्फल इति संदेहः । तत्र विश्वजिन्न्यायस्य सर्वथाऽश्रुतफलकर्मविपयत्वान्नान्न प्रवृत्तिः । कुतः संनिधिश्रुतस्य शूलगवफलस्य स्वर्गादेरत्रान्वययोग्यत्वात्, तस्मादयमपि पशुः स्वर्गपशुपुत्रधनयश आयुष्कामस्यैवेत्यभिप्रेत्याह 'गोयज्ञेन व्याख्यात: ' स च गोयज्ञेन गवा रौद्रेण पशुना यज्ञः गोयज्ञस्तेन व्याख्यातः गोयज्ञसाध्यफलेतिकर्तव्यतावानित्यर्थः । ततश्चास्मिन्नपि स्वर्गपशुपुत्रधनयश आयुष्कामस्याधिकारः । स कदा कर्तव्य इत्यपेक्षायामाह 1 ‘ कार्ति‘‘'जस्य ' कार्तिक्यां पूर्णिमायामाश्विनस्य रेवत्यां रेवतीनक्षत्रे वा कर्तव्य इति सूत्रशेपः । शास्त्रान्तरेतु चैच्यामाश्वयुज्यां वेति कालान्तरमुक्तम् । ' मध्ये 'मन्त्रम् ' मध्ये गवां गोष्ठे पञ्चभूसंस्कारपूर्वकमावसथ्याग्निं सुसमिद्धं प्रन्वलितं कृत्वा आज्यं संस्कृत्य पर्युक्षणान्ते इहरतिरित्यादिभिः पड्भिर्मन्त्रैः प्रतिमन्त्रं पडाज्याहुतीर्जुहोति । अत्र मध्येगवामिति देशविशेषनियमानुविधानात् देशान्तरस्येह यागानङ्गत्वम् ।' पूपा होति ' पौष्णस्य पूपा देवता अस्येति पौष्णस्तस्य चरोः पूपागा इत्यादिमन्त्रेण सकृज्जुहोति होमसंख्यानभिधानात् तस्य च श्रपणानुपदेशात् सिद्ध एवोपादीयते । अयं पौष्णश्चरुः पिष्टमयो भवति । कुतः तस्माद्यं पूष्णे चरुं कुर्वन्ति प्रपिष्टानामेव कुर्वन्तीति श्रुतेः । रुद्रान् "जेरन् ' रुद्रान्नमस्त इत्यध्यायान्नातान् जपित्वा जपवर्मेण पठित्वा, अत्र शूलगवातिदेशप्राप्तोऽपि रुद्रजपविधिः प्रथमोत्तमानुवाकजपविकल्पनिवृत्त्यर्थः जपावसरज्ञापनार्थो वा । तन्न । अपूर्व एवायम् जप्यत्वेनाप्राप्तत्वात् । प्रकृतौ हि रुद्राणां पशूपस्थाने करणत्वेन विहितत्वात् । एक एव शुक्लादिवर्णो रूपं यस्य स एकवर्णः तम् । अथवा द्वौ वर्णो यस्य स द्विवर्णः तं वृपम् । एवं वर्णविशेपनियममभिधायाधुना वृपस्य परिमाणविशेपनियममाह । यो वृषो यूथं कृत्स्नं वर्ग छादयति स्वपरिमाणेनाथः करोति तं वा यं वृपं यूथं वर्गञ्छादयेत् अधः कुर्यात् तं वा यूथादधिकपरिमाणं वा न्यूनपरिमाणं वेत्यर्थः । रोहितो लोहित एव वा यः स्यात्, एवकारेण लोहितस्य एकवर्णद्विवर्णाभ्यां प्राशस्त्यमुच्यते, पुनः कीदृक् ? सर्वैरङ्गैरुपेतः समन्वितः न पुनहीनाङ्गोऽधिकाङ्क्षो वा, तथा जीवाः प्राणवन्तो वत्साः प्रसूतिर्यस्याः सा जीववत्सा तस्या गोः पुत्रः । तथा पयः क्षीरं बहुलं विद्यते यस्याः सा पयस्विनी तस्या गोः पुत्रः । तथा यूथे वर्गे विपये रूपमस्यास्तीति रूपस्वी अतिशयेन रूपस्त्री रूपस्वित्तमः वृपः स्यात् तमुक्तगुणविशिष्टं वृषमलंकृत्य वस्त्रमाल्यानुले पहे मपट्टिकाप्रैवेयक - ण्टादिभिर्वृषोचितभूपणैर्भूपयित्वा न केवलं वृपमात्रं ताव वत्सतरीरप्यलंकृत्य, कीदृशीः या. यूथे स्ववर्गे मुख्याः गुणैः श्रेष्ठा वत्सतर्यः कति चतस्रः चतुःसंख्योपेतास्ताः, एतं युवानमित्येतयर्चा उत्सृजेरन् त्यजेयुः । नभ्य" पेण' नभ्यस्थं वत्सतरीणां मध्ये तिष्ठन्तमभिमन्त्रयते आभिमुख्येन मन्त्रैः स्तौति । केन मयोभूरभिमावाहि स्वाहेत्यारभ्य स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकोषेणेति वृपो - त्सर्गसूत्रार्थः ॥ ॥ अथ पायसप्राशनं नाम कर्मान्तरम् । ' सर्वा "जयेत् ' यस्य यावन्त्यो गावः दोग्यः सन्ति स तासां सर्वासां पयसि दुग्धे पायसं परमान्नं अपयित्वा पक्त्वा ब्राह्मणान् त्रिप्रभृतीन् यथाशक्ति भोजयेत् तर्पयेत् । ' पशु "ख्यातः ' एके आचार्याः पशुमपि छागं च कुर्वन्ति आलभन्ते उक्तविधिना पायसश्रपणपूर्वकं ब्राह्मणान् भोजयन्ति च तस्य पशोः शूलगवेन शूलप्रावाख्येन कर्मणा कल्पः इतिकर्तव्यताकलापो व्याख्यातः कथितः । इति सूत्रार्थः ॥ ॥ अथ पद्धतिः । तत्र स्वर्गादीनामन्यतमफलप्राप्तिकामः कार्तिक्यां पौर्णमास्यामाश्वयुजस्य रेवत्यां वा शास्त्रान्तराञ्चैत्र्यामाश्वयुज्यां वा मातृपूजापूर्वकमाभ्युदयिक श्राद्धं कृत्वा गोष्ठे गत्वा गवां मध्ये पञ्चभूसंस्कारान् कृत्वा - वयानं स्थापयेत् । प्रणीताप्रणयनकाले 'प्रणीतापात्रमध्ये पिटादिना अन्तर्द्धानं विधाय मूलदेगे पयः इतरत्र जलं प्रक्षिप्य प्रणयेत् । तण्डुलानन्तरं पौष्णं पिष्टमयं चरुं सिद्धमेवासादयेतं, प्रणीतेन पयसा पायसं अपयेत्, पर्युक्षणान्ते सुसमिद्धेऽग्नौ 'इहरतिः स्वाहा १ इह
'