________________
३५५ तृतीयकाण्डम् । कण्डिका] श्वालंकृत्य एतं युवानं पति वो ददामि तेन क्रीडन्तीश्वरथ प्रियेण ॥ मा नः साप्तजनुषाऽसुभगा रायस्पोषेण समिषा मदेमेत्येतयैवोत्सृजेरन् ॥ ६ ॥ नभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण ॥ ७ ॥ सर्वासां पयसि पायस श्रपयित्वा ब्राह्मणान्भोजयेत् ॥ ८॥ पशुमप्येके कुर्वन्ति ॥ ९ ॥ तस्य शूलगवेन कल्पो व्याख्यातः ॥ १०॥ ॥९॥
(कर्कः)-अथ वृषोत्सर्गः। व्याख्यास्यत इति सूत्रशेषः । 'गोय' 'ख्यातः । एतदुक्तं भवति पायसेन शूलगवदेवताभ्यो होमः । कार्तिक्यां पौर्णमास्यां रेवत्यां वाश्वयुज्यां पौर्णमास्यामेव कर्तव्यः । वाशब्दो विकल्पार्थः: ।' मध्ये "न्त्रम् ' आज्यं संस्कृत्येतिग्रहणं प्रागाधारहोमादप्याहुतयो यथा स्युरिति । तत आधारादि, पुनः पायसेन शुलगवदेवताभ्यो होमः । 'पूषा"होति । तस्य च अपणानुपदेशात्तद्भूतस्योपादानम् । तत उभयोः सकाशास्विष्टकृत् व्याहृत्यादि च । ततो रुद्रान्वा ' वृपमुत्सृजेत् । 'यो वा 'येत् । यो नाम महत्त्वेन गोयूथं छादयति यो वा तेनैव छाद्यते । लघुरित्यर्थः । रोहि""स्यात् । रोहित एव वा भवति । यथोक्तो वेति विकल्पः । 'सर्वाडैरुपेतः । अन्यूनाङ्ग इत्यर्थः । जीववत्सायाः पयस्विन्याः पुत्रो भवेत् । 'यूथे."कृत्य' रुङ्मालादिभिः पतिं वो ददामीत्येतमुत्सृजेत् । 'नभ्य"शेषेण । वत्सतरीणां मध्यस्थो नभ्यस्थ इत्युच्यते । इदमन्यत्कर्मान्तरमधुनोच्यते । ' सर्वा "ख्यातः । शूलगववत्सर्वं कर्तव्यमित्यर्थः ॥
(जयरामः)-'अथ वृषोत्सर्गः कर्मविशेषः, वक्ष्यत इति सूत्रशेषः । व्याख्यात इति पायसेन शूलगवदेवताहोमः कथितः । स च कार्तिक्यामाश्वयुज्यां वा पौर्णमास्यां भवति । रेवत्यामिति तद्विशेषणं फलातिशयार्थम् । आज्यं संस्कृत्येतिग्रहणमाघारहोमादपि प्रागाज्याहुतयः स्युरिति । तत आघारावाज्यभागौ हुत्वा पायसेन शूलगवदेवताहोमः ततः पूषागा इत्येकाहुतिः पिष्टचरोः । संख्याऽनुपदेशात् । स च अपणानुपदेशासिद्ध एवासाद्यते । अथ मन्त्रार्थः । तत्र परमेष्ठी गायत्री पूषा पिष्टहोमे० । पृा सूर्यो नोऽस्माकङ्गाः धेनूरिन्द्रियाणि च अन्वेतु अनुगृहातु । अर्वतः अश्वान् प्राणान् वा रक्षतु । वाजमन्नं सनोतु ददातु । पूषाशब्दावृत्तिरादरार्था । ततः पायसपौष्णाभ्यां विष्टकृते हुत्वा प्राशनान्ते रुद्रान् रुद्रमन्त्रान् जपित्वा यो वा महत्त्वेन यूथाच्छादकः तेनैव वा लघुत्वेन छाद्यते । रोहितः लोहित एव स्याद्वा । यथोक्तो वेति विकल्पः । सर्वाङ्गैरुपेत इत्यन्यूनाधिकाङ्ग इत्यर्थः । जीववत्सायाः पुत्र इत्यादिगुणो यः स्यात्तमलंकृत्य संगादिभिः यूथे प्रधानाश्चतस्रो वत्सतरीचालंकृत्योत्सृजेत् एतमिति मन्त्रेण । तस्यार्थः तत्र प्रजापतिस्त्रिष्टुप् गाव उत्सर्गे० । भो वत्सतर्यः एतं वृषम् पतिं भर्तारं वो युष्मभ्यं ददामि । तेनानेन प्रियेण सह क्रीडन्त्यो यूयं चरथ चरत खच्छन्द विहरतेति यावत् । तृणानि खादतेति वा। नोऽस्माकं स्थाने साप्तजनुषा सप्तजन्मसंबद्धन पत्या सह असुभगा मा भवतेति शेषः । वयमपि युष्मत्प्रसादाद्रायस्पोषेण धनादिपुल्या सम्यग्भवेन इषा भन्नेन च मदेम तृप्याम । एतया ऋचा वत्सं वत्सतरीश्चोत्सृजेरन् । नभ्यस्थं वत्सतरीमध्यस्थम् । इदं कर्मान्तरम्-सर्वासामिति यावत्यः स्वीया गावस्तावतीनाम् । एकं पशुम् । पायसप्राशनं च कुर्वन्ति तस्य कल्पो व्याख्यातः शूलगववत्सर्वं कर्तव्यमित्यर्थः ॥ ९॥ ॥ॐ॥
(हरिहरः)-अथ वृषोत्सर्ग: । अथ शूलगवानन्तरं वृषोत्सर्गः वृषस्य वक्ष्यमाणस्योत्सर्ग उत्सर्जनं वक्ष्यत इति सूत्रशेषः । स च कामाधिकारात्फलस्य वाऽनमिधानात् किं विश्वजिन्न्यायेन