________________
२५४
पारस्करगृह्यसूत्रम् ।
[ नवमी
1.
इंद्राण्यैस्वाहा इदर्भिद्राण्यै । रुद्राण्यैस्वाहा इदंरुद्राण्यै । शर्वाण्यैस्वाहा इदंशर्वाण्यै । भवान्यैस्वाहा इदंभवान्यै । अग्नयेगृहपतये स्वाहा इदमप्रयेगृहपतये । नात्रसंस्रवः । ततोमहाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीराहवनीये होतव्याः । ततः संस्रवप्राशनादिदक्षिणादानान्तम् । 'लोहि "रति ' रुद्रदेवताभ्यः सेनाभ्यः रुद्रसेनाभ्यः । रुधिरेण बलिदानविधानाद्विशसनकाले तद्रक्षणम् । पालाशपत्रनिर्मितेषु पात्रेषु कुशेषु च यथालिङ्गं प्रादक्षिण्येन प्रतिदिशं बलिहरणम् । वलिद्वयमुत्तरतः प्राक्संस्थमथवा प्राक्पश्चात् । बलिदानमन्त्रानाह ' यास्ते नम इति ' कुशानास्तीर्य तत्र पालाशेषु वलिदानं यास्ते रुद्रपुरस्तात्सेनेति प्रतिमन्त्रम् । इदंरुद्रेभ्यः पुरस्तात्सेनाधिपत्येभ्यः । इदं रुद्रेभ्यो दक्षिणतः सेनाधिपत्येभ्यः । इदं रुद्रेभ्यः पश्चिमतः सेनाधिपत्येभ्यः । इदंरुद्रेभ्य उत्तरतः सेना० । इ उपरिष्टात्सेनाधिपत्येभ्यः । इदंरुद्रभ्योऽधस्तात्सेनाधिपत्येभ्यः । बर्हिहमादित्राह्मणभोजनान्तम् । ' ऊ नन्ति ' अग्नौ आहवनीये ।' अनु 'काभ्यां ' अनुवातं वायुम् अनुलक्षीकृत्य पशुमवशिष्टं पशुशरीरम् । रुद्रैः रुद्राध्यायान्नातमन्त्रैः उपतिष्ठते स्तौति । पक्षान्तरमाह - प्रथमेति । प्रथमोत्तमौ ब्राद्यन्तौ ताभ्यां प्रथमः षोडशर्चः । द्रापेऽअन्धसइत्यारभ्य विंशतिकण्डिकात्मक उत्तमः । नैतस्य पशोग्रम हरन्ति । एतस्य पशोर्मासं ग्रामं प्रति नाहरन्तीत्यर्थः । तत आचम्य गार्हपत्यमादाय गृहमागत्यावसथ्यखरे स्थापयेदिति शूलगवः । ' एते ख्यातः ' एतेनैव शूलगवकर्तव्यताकलापेन गोयज्ञः मधुपर्काचेनादौ क्रियमाणः । तस्यापीतिकर्तव्यताकलाप उक्त इत्यर्थः । विशेषमाह । ' पाय लु सः अत्रापि मातृपूजाभ्युद्धिके । परिसमूहनाद्याज्यभागान्ते विशेषः । आसादने तण्डुलानन्तरं पयः । चरुग्रहणप्रोक्षणेऽग्न्यादीशानान्तेन । आज्यभागान्ते शूलगवदेवताभ्यो होमः पूर्ववत् । विष्ट - कृदादिब्राह्मणभोजनान्तं पूर्ववत् । तदनन्तरं वैश्वदेवः । शूलगवेऽत्रापि शूलगावदेवताहोमातिरिक्ता निरर्थका इतिकर्तव्यता लुप्यत इत्यर्थः । 6 तस्य "क्षिणा ' आलभ्यमानपशोर्वयसा तुल्यवया गौर्दक्षिणा देया । एवमाचार्यादौ गृहागते आसनमाहार्येत्यादि कुरुतेत्येवमन्तं कृत्वा परिसमूहनाद्याज्यासादनान्ते । वपाश्रपण्यौ शूलमुखा स्थाली तण्डुलाः पृक्षशाखा त्रिगुणरशना उपाकरणतुणं द्विगुणरशना गोपशुः त्रिगुणरशना पान्नेजनीः असिः हिरण्यशकलानि दधि वहिः संस्रवपात्रं दक्षिणायें तुल्यवया गौ: । शूलगवदेवताभ्यश्चरु ग्रहणम् । पवित्रकरणादि । वर्हिस्तरणानन्तरं प्रक्षशाखास्तरणम् । शाखानिखननादिप्रधानहोमान्तं शूलगववत् । आचार्यार्चने बार्हस्पत्यः पशुः | आ. व्यभागानन्तरं वृहस्पतये स्वाहेतिवपाहोम: । स्थालीपाकमिश्राङ्गहोम: वृहस्पतये स्वाहेति । वनस्पतिहोमादि ब्राह्मणभोजनान्तम् । विवाहे प्राजापत्यः पशुः । एवं सर्वत्र पशुपु देवतामात्रे विशेषः । अष्टमीकण्डिका ॥ ८ ॥
अथ वृषोत्सर्गः ॥ १ ॥ गोयज्ञेन व्याख्यातः ॥ २ ॥ कार्तिक्यां पौर्णमास्या रेवत्यां वाश्वयुजस्य ॥ ३ ॥ मध्येगवां सुसमिद्धमनिं कृत्वाज्य संस्कृत्येहरतिरिति षट् जुहोति प्रतिमन्त्रम् ॥ ४ ॥ पूषा गा अन्येतु नः पूषा रक्षत्वतः। पूषा व्याजर्ठ सनोतु नः स्वाहा, इति पौष्णस्य जुहोति ॥ ५ ॥ रुद्रान् जपित्वैकवर्ण द्विवर्ण वा यो वा यूथं छादययि यं वा यूथं छादयेद्रोहितो चैव स्यात्सर्वाङ्गैरुपेतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपरिवत्तमः स्यात्तमलंकृत्य यूथे मुख्याश्चतस्रो वत्सतर्यस्ता