________________
तृतीयकाण्डम् |
३५३
कण्डका ]
'ना ( नि?दि) दर्शपौर्णमासवेदिवत् अत्र सर्व मन्त्ररहितं कर्त्तव्यम् । वेदिपरिसमूहनम् उत्करकरणं सतृणवत्रादानादि सतृणपुरीषस्योत्करे प्रक्षेपान्तं पूर्वपरिग्रहः, वेद्यां त्रिरुलेखनं, हरणं संमर्शनम् । अत्र स्वकर्तृकमेव सर्वम् । ततः शम्यां स्पयं चादाय पूर्वोकसंचरं परित्यज्य चात्वालमानादि उत्तरवेदिच्छादनान्तं पशुवत् कात्यायनोक्तं तूष्णीम् । ततः गार्हपत्ये पूर्णाहुतिवदान्यं संस्कृत्य पञ्चगृहीता (?) निप्रणयनमुपयमन्युपनिवपनान्तं तूष्णी कात्यायनोक्तम् । प्रणीयमानेऽग्नौ ब्रह्मासनमनुनेतव्यम् प्रणीतापि उत्तरवेदिकाहवनीयादुत्तरतः स्थास्या । तत आहवनीयगार्हपत्ययोः परिस्तरणम् । पात्रासादनम् । आज्यस्थाली प्रोक्षणीपात्रमत्रिः, अन्यैरवच्छादन कुशाः, संमार्गक्कुशाः परिधयः उपयमनकुशाः समिधः स्रुवः आज्यं वपाश्रपण्यौ चरुस्थाली साण्डोवृषभः उखा तण्डुलाः, दक्षिणार्थे तुल्यवया गौ: बर्हिः लक्षशाखा पलाशशाखा त्रिगुणरशना उपाकरणतणं द्विगुणरशना शासः पान्ने - जनी: दधि हिरण्यशकलानि पलाशपत्राणि षट् । आज्यनिर्वाणः । रौद्रस्य पशोर्विहितत्वाद्गोपशोश्च कलौ निषेधाञ्चरुकर्तव्यताश्रयणे त्वाज्यनिर्वापानन्तरं चरुग्रहणं रुद्रायजुष्टं गृहामीति । प्रोक्षणे त्वाशब्दः । ततः पर्यभिकरणम् ततोऽभ्याखननोत्तरपरिग्रहादिवपाश्रपणान्तं पशुपक्षे । चरुपक्षे तु मण्डेन पाहोमः । हिरण्याभावे घृतम् । अन्ये पशुधर्मा न भवन्ति । स्मार्त्तपशुधर्मान्वक्षति । ' वपाठः श्रपयित्वास्थालीपाकमवदानानिच ' स्थालीपाकावदानेषु श्रपणानुकर्षणार्थश्चकारः । स्थालीपाकश्च पशुपुरोडाशस्थानापन्नः । होमानन्तरं तद्ग्रहणम् अग्नयेरुद्रायशर्वायपशुपतयउ प्रायाशनयेभवायमहादेवायेशानायजुष्टंगृह्णामि । प्रोक्षणे त्वाशब्दः । न च समानदेवताकत्वात्पशुपुरोडाशयो रौद्र एव स्थालीपाक इति वाच्यम् । देवताभ्य इति शांखायनसौत्र वहुत्वसामर्थ्यादशेषदेवताकीर्त्तनस्य स्थालीपाकेषु न्याय्यत्वात् । कलौ पशोरनादरणे रौद्रश्चरुः । आज्यनिर्वापानन्तरं तद्ग्रहणम् । प्रोक्षणं च । श्रपणं गार्हपत्ये । तत उपयमनकुशादानादि उत्तराधारानन्तरं पशुसमञ्जनम् तदनु शामित्रोल्लेखनम् । आहवनीयोल्मुकेन त्रिः पर्यग्निकरणम् । इतरथावृत्ति: । उल्मुकस्याहवनीये प्रक्षेपः । ततः पुनः सव्येनोल्मुकमादाय केन चिन्नीयमानस्य पशोर्वपापणीभ्यामन्वारम्भः । शामित्रेनिनिधानम् तृणास्तरणादि वपामुत्खिद्य प्रक्षाल्य पशुविशसनम् । हृदयाऽद्यवदानग्रहणम् त्रीणि पश्च वा । वपाया: शामित्रे प्रतपनादि । अन्तरा शाखाग्न्योराहरणम् । उखायां शामित्रे रौद्रपशुभ्रपणम् । शूले प्रवृद्य हृदयश्रपणम् । पर्यग्निकरणं चरोः । त्रिः प्रच्युते हृदयमुपरि कुर्यात् । पृषदाज्येन हृदयाभिचारः अन्येषामाज्येन । चरुं वपामङ्गान्युद्रास्य शाखाग्न्योरन्तरा समानयेत् । प्राणदानं कृत्वा वेद्यामासादनम् । आलम्भनम् । तत: आज्यभागौ । 'रुद्रा' 'वसां' जुहुयादिति शेषः । कात्यायनोक्तप्रकारेण वपावदानम् । रुद्राय स्वाहेति वपाहोमः । इदं रुद्राय । अन्तरिक्षाय स्वाहेति बसाहोमः । इदमन्तरिक्षायेति त्यागः । 'स्थाली "नायेति' चरुमिश्रितपश्ववदानहोमः । आदौ स्रुवमभिघार्य प्रतिमांसं द्विर्द्विरवदानम् । स्थालीपाकस्य सकृत् । पुनरभिघारणम् । वपावद्धिरण्यम् । नवाहुतयः । प्रयोग: अग्नये स्वाहा इदमग्नये । रुद्रायस्वा० इदंरुद्राय । शर्वाय स्वाहा इदंशर्वाय । पशुपतये स्वाहा इदं पशुपतये । उग्रायस्वाहा इदमुग्राय । अशनये स्वाहा इदमशनये । भवायस्वाहा इदंभवाय | महादेवायस्वाहा इदमहादेवाय । ईशानायस्वाहा इदमीशानाय | 'वन' ं'रणं' पृषदाज्येन वनस्पतये स्वाहा इदंवनस्पतये | अद्वेभ्यः स्थालीपाकाञ्च स्विष्टकृत् । अग्नये स्विष्टकृतेस्वाहा इदमग्नये स्विष्टकृते । एवं वनस्पतिहोमस्त्रिष्टकृद्धोमयोरन्ते दिग्व्याघारणं वसया । दिशः स्वाहा इदंदिग्भ्यः । प्रदिशः स्वाहा इदंप्रदिग्भ्यः । आदिशः स्वा० इदमादिग्भ्यः । विदिशः स्वाहा इदंविदिग्भ्यः । उद्दिशः स्वाहा इदमुद्दिग्भ्यः ( दिग्भ्यः ? दिशः ) स्वाहा इदं दिग्भ्यः । पडाहुतयः प्रागाद्यारभ्य प्रादक्षिण्येन चतस्रः । अन्ते द्वे मध्ये पूर्वार्द्धे च । एवं षट् । 'व्याघा "तिमिति ' दिग्भ्यः स्वाहेत्यादिव्याधारणान्ते जाघन्या गार्हपत्ये पत्नीसंयाजाः पञ्च चतुरवत्तेन । तद्यथा ।
४५