________________
३५२
परिस्करगृह्यसूत्रम्
[ अष्टमी
कृद्धोमा स्रवमुपस्तीर्य हिरण्यशकलं दत्त्वा सर्वावदानपक्षे त्र्यङ्गेभ्यो द्विद्विरवदाय असर्वावदानपक्षे तेभ्य एव प्रधानार्थेभ्यो द्विद्विखदाय सकृच्चरोरखदाय हिरण्यशकलमवधाय द्विद्विरभिघार्य अग्नये स्विष्टकृते स्वाहेत्यग्नेरुत्तरप्रदेशे जुहुयात् । यथामन्त्रं सर्वत्र त्यागाः । ततः स्रुवेण वसां गृहीत्वा आहवनीयस्य पुरस्ताद्दिशः स्वाहा इदं दिग्भ्यः । दक्षिणतः प्रदिश: स्वाहा इदं प्रदिग्भ्यः । पश्चिमत आदिश: स्वाहा इदमादिग्भ्यः । उत्तरतो विदिशः स्वाहा इदं विदिग्भ्यः । मध्यत उद्दिश: स्वाहा इदमुद्दिग्भ्यः । पूर्वार्द्ध दिग्भ्यः स्वाहा इदं दिग्भ्यः । ततो जाघनी गृहीत्वा गार्हपत्यं प्रत्येत्य जाघन्याः स्रुवेणावायावदाय इन्द्राण्यै स्वाहा इदमिन्द्राण्यै रुद्राण्यै स्वाहा इदं रुद्राण्यै शर्वाण्यै स्वाहा शर्वाण्यै भवान्यै स्वाहा इदं भवान्यै अग्नये गृहपतये स्वाहा इदमग्नये गृहपतये, एताः पञ्च पत्नीसंयाजाहुतीर्जुहुयात् । तत आहवनीये महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवं प्राश्य शूलगवपशुना तुल्यवयसं वृषं ब्रह्मणे दक्षिणां दद्यात् । ततः पलाशपत्रेषु पसु प्राकृसंस्थेषु उदक्संस्थेपु वा पशुलोहितेन " यास्ते रुद्र पुरस्तात्सेनास्ताभ्य एप वलिस्ताभ्यस्ते नमः । यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष चलिस्ताभ्यस्ते नमः । यास्ते रुद्र पश्चात्सेनास्ताभ्य एष वलिस्ताभ्यस्ते नमः । यास्ते रुद्रोत्तरतः सेनास्ताभ्य एप वलिस्ताभ्यस्ते नमः । यास्ते रुद्रोपरिष्टात्सेनास्ताभ्य एव बलि स्ताभ्यस्ते नमः । यास्ते रुद्राधस्तात्सेनास्ताभ्य एप बलिस्ताभ्यस्ते नमः । इदं रुद्राय सेनाभ्य इति सर्वबलिषु त्यागाः । ऊवध्यस्य लोहितलिप्तस्याग्नौ प्रक्षेपणमधस्तान्निखननं वा कृत्वा अनुवा पशुमवस्थाप्य रुद्राध्यायेन नमस्त इत्यादिना अस्य प्रथमोत्तमाभ्यामनुवाकाभ्यां वा रुद्रानुपस्थाय उदकमुपस्पृशेत् । एतस्य पशोर्मंसं ग्रामं नानयेत् । इति समाप्तः शूलगवः ॥ ॥ अथ गोयज्ञपद्धतिः । तत्र विहितमातृपूजाभ्युदयिकश्राद्धः स्वर्गपशुपुत्रधनयश आयुष्यफलानामन्यतमफलकाम औपासनमरयं नीत्वा तत्र परिसमूहनादिभिः संस्कृतायां भूमौ स्थापयेत् । तत्र ब्रह्मोपवेशनान्ते विशेषः । सक्षीरं प्रणयनं कृत्वा पायसं अपयित्वा आज्यभागाविष्टा शूलप्रावदेवताभ्यः अग्निरुद्रशर्वपशुपत्युप्राग निभवमहादेवेशानेभ्यः स्वाहाकारान्तैर्नामभिश्चतुर्थ्यन्तैर्नवभिर्मन्त्रैः पायसेन प्रत्येकं जुहुयात् । ततः पायसादेव स्विष्टकृते हुत्वा महाव्याहृत्यादिप्राजापत्यहोमान्ते संस्रवं प्राश्य पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दद्यात् ॥ इति गोयज्ञपद्धतिः ॥ ८ ॥
1
(विश्व० ) - ' शूल आयुष्य: ' स्वर्ग्यः स्वर्गाय हितः । एवं पशुभ्यो हितः । धनाय हितः । यशसे हितः । आयुषे हितः । तथाच स्वर्गादेरुपायः शूलगव इत्यर्थः । विचित्र कार्यस्यानेकसामग्रीनियम्यत्वात्प्रत्यभिलाषं शूलगवावृत्तिः । यत्तु तन्त्रोत्पत्तिर्बाध्यत इति तन्न । समानकालीनाने - कसामग्रीवशादनेककार्याणामपि समानसमयोत्पत्तिकत्वात् । अत्रापि प्रतिप्रयोगं मातृपूजाभ्युदयिके भवतः । अत्रापि कथं वा स्यादत आह ' औपा शब्दात् ' आवसथ्यमरण्ये नीत्वा तत्र दुर्ग • पौर्णमासेष्टिवद्गार्हपत्यादिखरसाधनम् । गार्हपत्ये पश्चभूसंस्कार पूर्व कमावसथ्यस्थापनं तत आहवनीये दक्षिणा च पञ्चभूसंस्कारान्कृत्वा तयोरुद्धरणम् । आहवनीयं दक्षिणेन ब्रह्मासनास्तरणं, प्रणीता - प्रणयनं, पात्रासादनं, पवित्रच्छेदनानि श्रीणि, पवित्रे द्वे, प्रोक्षणीपात्रम्, अन्तर्द्धानतृणं, वज्रः, शम्या च, रज्जुशंकुमुद्गरादि उत्तरवेदिसाधनं, पुरीषाहरणपात्रं, उदकं, सिकताः, आच्छादन कुशा, तत. पवित्रे कृत्वा प्रोक्षणी: संस्कृत्य वज्रान्तर्द्धानतृणशम्यानां प्रोक्षणम् । ततो गार्हपत्याने प्रोक्षणीनिधानम् । ततो वेदमानं पशुवत् । चतुररत्निः पञ्चात्तिर्यक् पडरनिर्मध्ये प्राची त्र्यरत्निः पुरस्तात्त र्यक् । अत्र साधनोपायभूतश्लोकः । व्यरत्नी लक्षणं कुर्यादद्धे सार्द्धत्रये तथा । अर्द्धरनौ ततः सार्द्धं वेदः स्यात्पाशुकी शुभा । [ अयं पाशाऽविपर्यासेन साधनोपायः ।] प्रकारान्तरमपि । नवारसितारज्जुर्लक्षिता पदस्वतः परम् । अद्धेऽद्धे त्रिषु पाशः स्यात्पशुवेदे : प्रसाधनमिति ॥ सहसाध