________________
तृतीय काण्डम् |
३५१
का 1
गृह पूर्वस्तृतबर्हिर्मूलानि द्वितीयवर्हिर्भागायैश्छादयन् स्तुत्वा तृतीयभागं दक्षिणेनादाय स्पयोपग्रहेण तथैव स्तृणाति पश्चादपवर्गम्, तदुपरि लक्षशाखाः स्तृणाति । अथाहवनीयं कल्पयति । ततो मध्यमदक्षिणोत्तरान्परिधीन् आहवनीये परिदधाति, आहवनीयमवेक्ष्य अग्रेणाहवनीयं परीत्य पलाशशाखां निखनति तां त्रिगुणरशयना त्रिः परिव्ययति तत्र शकलमुपगूहति, रुद्राय त्वोपाकरोमीत्युपाकरणनृणेन पशुमुपाकरोति । ततो द्विगुणरशयना अन्तराशृङ्गं पशुं बद्धा रुद्राय नियुनज्मीति शाखायां नियुनक्ति । अथ रुद्राय त्वा जुटं प्रोक्षामीति पशुं प्रोक्षणीभिः प्रोक्ष्य शेषमास्ये उपगृह्याधस्तादुपोक्षति । तत उपयमनकुशानादाय समिधोऽभ्याधाय प्रोक्षणीभिः पर्युक्ष्य पूर्वाधारमाघार्य उत्तराघारान्ते सुवाण ललाटांसश्रोणिपु पशुं समनक्ति । ततः स्रुवाप्राक्ताभ्यां स्वर्वसिभ्यां पशोर्ललाटमुपस्पृशति । स्वरुमवगुह्य असिमेकतो घृतेनाभ्यज्य निदद्यात् । अथ चात्वालस्योत्तरतः स्पयेन शामित्राय परिलिख्याहवनीयस्योल्मुकेन पश्वाज्यशामित्रदेशशाखा चात्वालाहवनीयान् पर्यग्निकुर्यात् त्रिः । पुनरुल्मुकमाहवनीये प्रक्षिप्य तावत्प्रतिगच्छेत् पुनराहवनीयादुल्मुकमादाय पशुं कण्ठे वा वपापणीभ्यामन्वारभ्य उदङ्नयेत् । तत्र वेदितृणद्वयमादाय शामित्रे उल्मुकं निधाय शामित्रस्य पश्चादेकं तृणमास्तीर्य तत्र पशुं प्राकुशिरसं प्रत्यशिरस मुदशिरसमुदपादं वा निपात्य अवाश्यमानं मुखं संगृह्य तमनेन शामित्रेण संज्ञपयति, सत्यन्यस्मिन्पुरुषे शमितरि यजमान आहवनीयं प्रत्येत्य पूर्णाहुतिवदाज्यं संस्कृत्य स्वाहा देवेभ्य इत्येकामाज्याहुतिमाहवनीये हुत्वा संज्ञप्ते पशौ देवेभ्यः स्वाहेति तेनैवाज्येनापरां हुत्वा तूष्णीमपराः पञ्च जुहोति । अथ वपाश्रपणीभ्यां नियोजनी चात्वाले प्रास्य पान्नेजनीभिः पशोः प्राणशोधनं स्वयमेव करोति । तद्यथा । मुखं नासिके चक्षुषी द्वे कर्णौ द्वौ नाभि मेढ्रं पायुं संहृत्य पादान् एकैकं पान्नेजनीजलेन स्पृशति, शेषेण शिरःप्रभृति कर्णपर्यन्तं पुनस्तथैततोऽङ्गानि निषिच्य शेषं पशोः पश्चाद्भागे निषिश्वति । तत उत्तानं पशुं कृत्वा नाभ्यप्रे तृणं निधाय घृताभ्यक्तासिधारयाऽभिनिधाय सतॄणां त्वचं छित्वा तृणमूलमुभयतो लोहितेनातवा तृणं भूमौ निरस्य तदुपरि स्वयं पादौ कृत्वा पुनरागत्योपविश्य वपामुत्खिद्य वपापणीभ्यां प्रोर्णय छित्त्राऽऽज्येनाभिघार्य प्रक्षाल्य पशुं विशास्ति । हृदयादीनि सर्वाणि त्रीणि वा पञ्च वा यथाकाममवदानान्यवद्य जाघनी चावद्य श्वभ्रे अवध्यमवधाय लोहितं चावधाय चरौ तण्डुलानोप्य वां शामित्रे प्रतप्य आहवनीयस्योत्तरतः स्थित्वा आहवनीये च प्रतप्य शाखाग्न्योरन्तरेणाहृत्य दक्षिणतः स्थित्वा स्रुवेणाज्येनाभिघारयन् श्रपयति गार्हपत्ये स्थालीपाकम् । शामित्रे हृदयाद्यवदानानि प्रत तत्र हृदयं शूले चरुं पर्यनिकृत्वा वपामभिघारयति, अथ त्रिः प्रच्युते पशोर्हृदयमुपरि कृत्वा पृषदाज्येन हृदयमभिधार्यं इतराण्यवदानान्याज्येन सर्वाणि च व्यङ्गवर्जमभिधार्य स्थालीपाकमुद्वास्य उखांच वपाया अड्डानां च प्राणदानं कृत्वा वपादीनि क्रमेणासाद्य अङ्गानि शाखाग्न्योरन्तरेणाहृत्य वेद्या' मासाद्य वपामवदानानि चालभ्य ब्रह्मणाऽन्वारब्ध आज्यभागौ हुत्वा वपाहोमार्थं स्रुर्वे आज्यमुपस्तीर्य हिरण्यशकलमवधाय वर्षां गृहीस्खा पुनर्हिरण्यशकलं दत्त्वा द्विरभिघार्य रुद्राय स्वाहेति वपां जुहोति, पापण्यौ विपर्यस्ते चाग्नौ प्रास्यति, तत उखातो वसां गृहीत्वा अन्तरिक्षाय स्वाहेति जुहुयात् । अथावदान होमार्थे खुवे आज्यमुपस्तीर्य हिरण्यशकलमवधाय हृदयाद्यङ्गेभ्यः प्रत्येकं द्विद्विरवदाय वे क्षित्वा स्थालीपाकाच सकृदवदाय क्षित्वा उपरि हिरण्यशकलं दत्त्वा सकृदभिघार्य असर्वाणि चेत् क्षताभ्यङ्गं कृत्वा अग्नये स्वाहेति जुहोति । एवं पुनः स्रुवे उपस्तरणहिरण्यशकलावधानद्विर्द्विः प्रधानावदानग्रहणसकृत्स्थालीपाकावदानहिरण्यशकलावधानाभिधारणानि कृत्वा अग्नये रुद्राय शर्वाय पशुपतये उग्राय अशनये भवाय महादेवाय ईशानायेत्येतैनाममन्त्रैः स्वाहाकारान्तैरेकैकस्मै जुहोति । एवमग्न्यादयो नव प्रधानहोमाः संपद्यन्ते । ततः पृषदाज्येन वनस्पतये स्वाहेति होमं विधाय स्विष्ट -