________________
पारस्करगृह्यसूत्रम् ।
[अष्टमी णिभ्यामुत्करेऽभिन्यासं करोति ततस्तृतीयं प्रहरणादि तथैव चतुर्थ कृत्वा ब्रह्मन् पूर्व परिग्रहं परिग्रहीष्यामीत्यामन्त्रितेन ब्रह्मणा परिगृहाणेत्यनुज्ञातः स्येन वेदि दक्षिणतः प्राची परिगृह्य पश्चिमत उदीचीमुत्तरतः प्राची परिगृह्णाति । अथ वेद्यां प्राचीस्तिस्रो लेखा उल्लिख्य अनामिकाङ्गुष्ठाभ्यां दक्षिणाप्रभृतिभ्यो लेखाभ्यः पृथक् पृथक् पुरीपमादायोत्करे प्रक्षिप्य क्रमेण लेखाः संमृशति । तत्रैते वेदिमानादिपदार्थाः स्वकर्तृका मन्त्ररहिताश्च, ऋत्विगन्तराभावात्समानायाभावाच । अथाह्वनीयस्य पुरस्तादुत्तरवेदिस्थाने पञ्चभूसंस्कारान्कृत्वा पूर्वार्द्ध शकुं निखाय द्वात्रिंशदडलां शम्यामादाय चतुरस्रामुत्तरवेदि गम्यामानीं मिमीते, ततस्तथैव शम्यया उत्तरवेदेरुत्तरतश्चात्वालं मिमीते । तद्यथा पश्चादुदीची शम्यां निपात्य स्येन तावती लेखामुल्लिख्य तथैव पुरस्तादुदीची दक्षिणतः प्राची उत्तरतः प्राची शम्यां निपात्य लेखामुल्लिखेत् । एवं चतुरस्रशम्याप्रमाणं चात्वालं संपद्यते । ततश्चात्वालमध्ये स्पयाग्रेण प्रहृत्य पुरीषमादायोत्तरवेदौ शङ्कुसमीपे प्रक्षिप्यामिन्यासं विधाय पुनरेवं द्विरपरं प्रहृत्य पुरीपमादायोत्तरवेदौ प्रक्षेपमभिन्यासं च कृत्वा चतुर्थवेलायामध्या चात्वालं खात्वा यावता पुरीषेण शम्यामात्री उत्तरवेदिरूर्द्धा पूर्यते तावत्पुरीष पुरीषाहरणेन चात्वालादादाय प्रक्षिपेत् । एवमुत्तरवेदि रचयित्वा मध्ये प्रादेशमात्री चतुरस्रां नाभिं कृत्वा प्रोक्षणीभिः प्रोक्ष्य सिकतामुपकीर्य वाससाऽऽच्छादयति । अथ गार्हपत्ये पूर्णाहुतिवदाज्यं संस्कृत्य पञ्चगृहीतं गृहीत्वा आज्यप्रोक्षण्याआह्वनीये सोपयमनीकाधिशते इध्मस्थाग्नीनुद्यम्य उत्तरवेदिसमीप गत्वा पुरस्तात्पश्चादक्षिणत उत्तरश्चोत्तरवेदि प्रोक्षणीभिः प्रोक्ष्य प्रोक्षणीशेषमुत्तरवेदेराग्नेयकोणसमीपे बहिर्वेदी निनीय पञ्चगृहीतेनाज्येन नाभि व्यापारयति कोणे हिरण्यं पश्यन् । यथा पूर्ववदक्षिणस्यां सक्त्या आधार्योत्तरापरस्यां ततो दक्षिणापरस्यां ततः पूर्वोत्तरस्यां मध्ये चाभिधार्य शेषमान्यं सुवे उद्यम्योर्द्धमुत्क्षिपति । ततो नाभिं पौतुदारवैः परिधिभिः परिदधाति । तद्यथा प्रथममुद्गप्रेण पश्चिमतः ततः प्रागण दक्षिणतः ततः प्रागप्रेणोत्तरतः । ततो नाभिमध्ये गुल्गुलसुगन्धितेजनं वृष्णेस्तुकाः शीर्षण्याः तदभावेऽन्या निदधाति । तदुपरि उपयमनीगतमग्निं स्थापयति उपयमनी च तत्समीपे निवपति चात्वाले वा, प्रणीयमानमग्निं ब्रह्माऽनुगच्छति । ततो यजमानः प्रणीता उत्तरवेदेहत्तरेण कुशासने प्रणीयाहवनीयं परिस्तीर्य गार्हपत्यं च पात्राण्यासादयति । आज्यस्थाली संमार्गकुशाः संनहनावच्छादनानि परिधयः उपयमनकुशाः समिधः सुवः आज्यं वपाश्रपण्यौ चरस्थाली शूलमुखा तण्डुलाः दक्षिणार्थ तुल्यक्या गौश्चेति । अथोपकल्पनीयान्युपकल्पयति । वर्हिः प्लक्षशाखा पलाशशाखा त्रिगुणरशना उपाकरणतृणम् द्विगुणरशना गोपशुः असिः पानेजनीः दधि हिरण्यशकलानि षद पलाशपत्राणि चेति । तत आसादनक्रमेण पात्राणि प्रोक्षति । रुद्राय त्वा जुष्टं प्रोक्षामीति तण्डुलान् प्रोक्षति आज्यस्थाल्यामाज्यं निरुप्य गार्हपत्येऽधिश्रित्य पर्यग्निकुर्यात् । ततो वेदि मध्यसंगृहीतामध्या खात्रा ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य परिगृहाणेति ब्रह्माणाऽनुज्ञातः पूर्ववत्स्फ्येन दक्षिणपश्चिमोत्तरतो वेदिं परिगृह्यानुमार्टि । आहवनीयमपरेण प्रोक्षणीरासाद्य प्रणीतोदकेन पाणी अवनिज्य प्रणीतानां पश्चिमतः प्रागनं स्फ्यं निधाय तदुपरि इध्मावर्हिषी आसादयति । ततः स्रुवं प्रतप्य सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् । आज्यमुद्रास्य प्रोक्षणीनामपरेण कृत्वोत्यूयावेक्ष्य प्रोक्षणीरुत्पूय वेदिं प्रोक्ष्य बहिश्च प्रोक्ष्य प्रोक्षण्येकदेशेन बहिर्मूलानि सिक्का बर्हिवित्रस्य संनहनं च विस्रस्य दक्षिणस्यां वेदिश्रोणी निधाय संनहनावच्छादनैरवच्छाद्य वेदि स्तृणाति । तद्यथा बर्हिः पुलकं त्रिधा विभज्य प्रथमं भागं दक्षिणेनोत्थाप्याङ्के कृत्वा द्वितीयं भागं दक्षिणेनोत्थाप्याङ्के कृत्वा तृतीयभाग दक्षिणेनोत्थापितं सव्येन संगृह्याकस्थितं प्रथमभागं दक्षिणेनादाय वेद्या स्तृणात्युदरसंस्थम, तथैव द्वितीयं भागं दक्षिणेनोत्याग्याके कृत्वा सव्ये स्थितं दक्षिणेनादायाकगयेतं सव्येन