________________
३४९
anusar ]
तृतीयकाण्डम् |
उत्तमोऽन्तिमः द्रापे अन्धसस्पतइत्यारभ्य विंशतिकण्डिकात्मक: । 'नैतरन्ति' एतस्य रौद्रस्य पशोiti ग्रामं न हरन्ति ग्रामं प्रति न नयन्ति याज्ञिकाः, किंतु अरण्य एवोत्सृजन्ति । एते ख्यातः ' एतेनैव शूलगवेनैव यज्ञेन गोयज्ञो गोयज्ञनामधेयो यागो व्याख्यातः कथितः । तत्र द्रव्यविशेषमाह । 6 'पाय' 'लुप्तः पायसेन पयसा संसिद्धेन चरुणा अनर्थलुमः शूलगवप्रधानदेवताहोमलो परहितः । ' तस्य "क्षिणा ' तस्य शूलगवपशोर्वयसा तुल्यं समं वयो जन्मातिक्रान्तंकालो यस्य गोः स तुल्यaar गौ: गोपुङ्गवः दक्षिणा परिक्रयद्रव्यं ब्रह्मणे देयमिति सूत्रार्थः ॥ ॥ अथ प्रयोगः । स्वर्गपशुपुत्रधनयशआयुष्कामानां शूलगवपशुबन्धो विहितः, तत्र मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा औपासनाग्निमादायारण्यं गच्छेत् । तत्र शुचौ देशे गार्हपत्यायतनं सप्तविंशत्यङ्गुलं वृत्तं विधाय तन्म ध्यनिखातशङ्कोरष्टौ एकादश द्वादश वा स्वकीयपदा प्राचीं दिशं गत्वा तदन्ते शङ्कं निखाय तयोः शंकोरुभयतः पाशां रज्जुं प्रसार्याहवनीयायतनं रचयेत् । तद्यथा । यावत्प्रमाणा रज्जुः स्यात्तावाने - वागमो भवेत् । आगमार्द्धे च शंकुः स्यात्तदर्द्धे च निरञ्छनमिति शुल्ववचनानुसारेण । अत्रायं रचनाप्रकारः । पूर्वस्माच्छोर्द्वादशाङ्गुष्ठपर्वपरिमितं देशं पूर्वतः पश्चिमतश्च परित्यज्य तत्र शंकुद्रयं निखाय चतुर्विंशत्यङ्गुलां रज्जुं परिमाय तावतीमेवाधिकां गृहीत्वा उभयतः पाशवतीं कृत्वा तस्या रज्जोरागमार्द्धे शंकुस्थानं सूत्रादिनाऽङ्कयित्वा अपरागमार्द्धे निरञ्छनं आकर्षणसूत्रगुणमोप्य पूर्वार्द्धापरार्द्धान्तयोः
कोः तस्या रज्जोः पाशद्वयं निक्षिप्य निरन्छनेन गुणेन दक्षिणत आकृष्य शंकुस्थाने शंकुं निखनेत् । ततस्तामेव रज्जुमुत्तरतो नीत्वा तथैवाकृष्य शंकुस्थाने अपरं शंकुं निखनेत् । अथ रज्जोः पाशौ परिवर्त्य पूर्ववन्निरछनगुणेन दक्षिणत आकृष्य शंकुत्थाने शंकुन्निखाय पुनस्तामेव रज्जुमुत्तरतो नीत्वा तथैवाकृष्य गंकुस्थाने शंकुं निखनेत् । एवं चतुरस्रं चतुर्विंशत्यङ्गुलायामविस्तारमाहवनीयायतनं संपद्यते । ततो गार्हपत्याहवनीयान्तरालसंमितां रज्जुमागमय्य तां च षड्गुणां सप्तगुणां वा विधाय षष्ठांशं सप्तमं वा तत्राधिकं निक्षिप्य प्रसार्य त्रिगुणीकृत्य अपरवितृतीये शंकुत्थानज्ञानार्थमङ्कयित्वा गार्हपत्याहवनीयमध्यगतयोः शंकोः पाशौ प्रतिमुच्य गार्हपत्यायतनादक्षिणत आकृष्य अपरवितृतीयाङ्के कुं निखाय तस्मिन् शङ्कौ अन्यं रज्जुपाशं प्रतिमुच्य षोडशाङ्गुलानि परिमाय वृत्तं मण्डलं विरचय्य तन्मध्यमशङ्कोश्चत्वार्यङ्गुलान्युत्तरतः परित्यज्य तत्र पूर्वापरायतां मण्डलसंमितां रज्जुं निपात्य रेखा मुल्लिखेत् । एवं धनुषाकृति दक्षिणाग्न्यायतनं संपद्यते । तथा तामेव रज्जुं परिवर्त्याहवनीयादुत्तरतो वितृतीयेनाकृष्य वितृतीयस्थाने उत्करं कुर्यात् । एवं वितानं साधयित्वा तेषु पञ्चभूसंस्कारान्कृत्वा गाईपत्यायतने औपासनाग्निं संस्थाप्य मृन्मयेन पात्रेण गार्हपत्यैकदेशमादायाहवनीयायतने आहवनीयं प्रणयेत् । एवमेव गार्हपत्याद्दक्षिणाग्निम् | आहवनीयस्य दक्षिणतो ब्रह्मासनमास्तीर्य गूलावेन रौद्रेण पशुनाऽहं यक्ष्ये तत्र मे ब्रह्मा भवेति सुत्राह्मणं प्रार्थ्य भवामीति तेनोक्त आसने तमुपवेश्य उत्तरतः प्रणीताः प्रणीय पवित्रच्छेदनानि पवित्रे प्रोक्षणीपात्रं वज्रमन्तर्द्धानतृणं चेत्येतानि पञ्च आसादयेत् । ततः रज्जुं शंकुं शम्यामभ्रि पुरीपाहरणमुदकं सिकताः आच्छादनवस्त्रमित्यष्टौ उपकल्पयेत् । ततः पवित्रे कृत्वा प्रोक्षणी: संस्कृत्य वज्रमन्तर्द्धानतृणं च प्रोक्ष्य प्रोक्षणीं निधाय वज्रमादाय वेदि मिमीते स्फ्येन । आहवनीयस्य दक्षिणतः प्राचीं त्र्यरनिं पश्चिमतश्चतुररत्निमुत्तरतस्यरत्निं पूर्वतश्च यरनिमिति एवं परिमितां वेदिं त्रिभिः कुशैः परिसमुह्य उत्तरतो वज्रेणोत्करं परिलिख्य तदन्तिके वज्रं निधाय तदुपरि वेदितृणं कृत्वा सतृणं वज्रमादाय दक्षिणहस्तेन सव्ये पाणावाधाय दक्षिणेनालभ्य तेन वज्रेण पृथिवीमात्मानं वा संस्पृशन् वेद्यामुद्गमं तृणं निधाय तदुपरि तेन प्रहृत्य तदमेण पुरीपमादाय वेदिं प्रेक्ष्य पुरीषमुत्करे कृत्वा पुनस्तथैव प्रहृत्य पुरीपमादाय वेदिं प्रेक्ष्या - मुं पुरीमुत्करे करोति, एवमेव द्वितीयं करोति, पुरीपकरणान्ते दक्षिणोत्तराभ्यां पा