________________
३४८
पारस्करगृह्यसूत्रम् !
[ अटमी
दृष्टत्वात् । ततः प्राशनान्ते पशुना तुल्यवयस्कं गां दत्त्वा लोहितं पत्रो रक्तं पालागेपु पलागपत्रेषु कूर्चेषु च कुशासनेषु बलित्वेन ददाति यास्तेकद्रेत्यादिपद्भिर्मन्त्रैः प्रतिमन्त्रम् । तदर्थः सुगम । ते तुभ्यं चेति योज्यम् । तत्र पण्णां परमेष्टी यजुः रुद्रो बलिहरणं० । उवद्धयं पुरीपाधानं पोटीतिप्रसिम् आहवनीये प्रक्षिपति अनुवातं वाताभिमुखं पशुमवशिष्टं पशुशरीरम् । रुद्रैः रुद्राध्यायान्नातमन्त्रैः तौति । प्रथमोत्तमौ आद्यन्तौ ताभ्या वा । पशोग्त्र मांसमिति शेषः । एतेनैव विधानेन गोयज्ञः क विशेषः । असौ च पायसेन चरुणा अनर्थलुमा भवति । पायसेन लवदेवतामात्रेज्येत्यर्थः । तस्य शूल पर्वयसा तुल्यवया गौर्दक्षिणा देया ॥
1
॥ ८ ॥
॥ * ॥
"
( हरिहर: ) – शूल ग्रुप्यः अथ स्वर्गादिकामस्य शूलगवाख्यं कर्म यागविशेषमनुविधास्यन्नाह शूलगव इति । म च स्वर्ग्यः स्वर्गीय हितः पाव्यः पशुभ्यो हितः पुत्र्यः पुत्रेभ्यो हितः धन्यः धनाय हितः यत्रस्यः यशसे हितः आयुष्यः आयुपे हितः । अयमर्थः । यदा यजमानः स्वर्ग पशुपुत्र
नयायुपामन्यतमकामो भवति तदाऽनेन वाख्येन यागेन यजेत । अनेककामाना युगपदत्पत्त्यसंभवान् । ' औपा‘"साण्डम् ' औपासनमावस' याग्निमरण्यमटवी नीत्वा तत्र वितानं त्रेतानिविन्यासं साधयित्वा शुल्वोक्तप्रकारंण विरचय्य रौद्रं रुद्रो देवता अम्येतिरौद्रं तं पशु छागं आलभेत सञ्जपयति । कथं भूतं साण्डम् अण्डाभ्यां मह वर्तत इति साण्डस्तम् अनपुंसकमित्यर्थः । ' गौर्वा शब्दात् ' वाशब्दः पशुव्यावृत्तौ । नैव छागः पशू रौद्रः अपितु साण्डो गौः कुतः, गव्दात् शूलाव इत्येतस्माच्छन्द्वात् । ' वपा नायेति ' वपां पक्त्या स्थालीपाकमत्रदानानि च हृदयादीनि सहैव श्रपयित्वा । ननु पशुतन्त्रे विहृत्य शामित्रेऽग्नाववदानश्रवणं वपाश्रपणं चाहवनीये दृष्टम् । अन तन्माभूदिति सहश्रपणमुच्यते स्थालीपाकमवदानानि चेति । तत्र रुद्राय वपां जुहोति अन्तरिक्षाय वसां जुहोति, अत्र जुहोतीत्युभयत्राध्याहारः । स्थालीपाकमिश्राण्यवदानानि । अवदान होमावसरे हृदयादीन्यवदानानि म्यालीपाकेन चरुणा संयुतानि जुहोति ननकृत्वः अग्नये स्वाहेत्येवमादिभिर्नवभिर्मन्त्रैः प्रतिमन्त्रमग्नौ प्रक्षिपति । कथम् । अग्नये स्वाहा १ । रुद्राय स्वाहा २ । शर्वाय स्वाहा ३ | पशुपतये स्वाहा ४ । उग्राय स्वाहा ५ । अगनये स्वाहा ६ । भवाय स्वाहा ७ । महादेवाय स्वाहा ८ | ईशानाय स्वाहा ९ ॥ यथामन्त्रं त्यागाः । ' वन रणम् ' वनस्पतिश्च विष्ट - कृच्च वनस्पतिस्विष्टकृतौ तयोरन्तः वनस्पतिस्त्रिष्टकृदन्तः तस्मिन् दिशां व्याघारणं कर्तव्यमिति सूत्रशेषः । तत्तु व्याघारणं वसयैव भवति । तत्र वनस्पतिहोमः स्विष्टकृद्धो मादर्वाक् पृपदाज्येन भवति, पौ तथात्वात् । स्विष्टकृद्धोमश्च सर्वावदानपक्षे त्र्यङ्गेभ्यः असर्वावदानपक्षे तेभ्य एवावशिष्टेभ्यः । अत्र सूत्रे व्याधारणमेत्र निबद्धम्, तत्र द्रव्यदेवतापेक्षाया सर्वपशुप्रकृतिभूतानीपोमीये दर्शनात् वसाद्रव्यं दिगो देवता व्याघारणधर्मतया लभ्यते । ' व्याघा "तिमिति व्याधारणं दिगामभिघारणं तस्यान्ते अवसाने पत्नीः पञ्च वक्ष्यमाणाः संयाजयन्ति जाघन्या पश्वङ्गेन । कथम्, इन्द्राण्यै रुद्राण्यै इत्यादिपश्चभिर्मन्त्रैः स्वाहाकारान्तैः प्रतिमन्त्रम् । 'लोहितं हरति यास्ते रुद्रेत्यादि ततो महाव्याहृत्यादि । लोहितं तस्यैव पगो रुधिरं पालाशेषु पलागपत्रेषु कूर्चेपु आसनेषु प्राकृसंस्थेषु उदक्संस्थेपुवा, रुद्राय - सेनाभ्यः रुद्रायदेवतायै सेना: रुद्रायसेना: अलुक्समासः ताभ्यो वलिमुपहारं हरति ददाति यास्तइत्यादिभिः पभिर्मन्त्रैः पट्सु पालाशकूर्चेषु प्रतिमन्त्रमेकैकम् । 'ऊत्रध्यं "नति' अवध्यं पुरीषावानं पोटीति प्रसिद्धम् । लोहितेन रक्तेन लिप्तं संसृष्टं लोहित लिप्तमग्नौ आहवनीये प्रास्यति प्रक्षिपति अधोभूमौ वा निखनति निदधाति । 'अनुकाभ्याम्' अनुवातं वातमनु लक्षीकृत्य वाताभिमुखमित्यर्थः पशुमवशिष्टं पशुशरीरमवस्थाप्य निधाय रुदै नमस्तइत्यध्यायानात रुद्रमन्त्रैरुपतिष्ठते स्तौति । यद्वा प्रथमोत्तमाभ्यामनुवाकाभ्या मन्त्रसमुदायाभ्याम् । तत्र प्रथमोऽनुवाको नमस्त इत्यारभ्य पोडशः,
..
॥ * ॥