________________
कण्डिका] तृतीयकाण्डम् ।
३४५ 'पाणी' 'मीममिति । यदि स्वस्य परस्य वा पीडा भवति तत्र पाणी स्वकीयौ हस्तौ प्रक्षाल्य अद्भिरवनेज्य भ्रुवौ युगपत्ताभ्यां पाणिभ्यां विमार्टि प्रोक्षति । अन्यस्य वा स्वयं करोति चक्षुभ्र्ष्यामित्यादिविवृहामीममित्यन्तेन मन्त्रेण । 'अर्द्ध..'ताप्सीदिति' अर्द्धचेत् शीर्प व्यथते तदा पूर्ववत्पाणी प्रक्षाल्य दक्षिणेन पाणिना यदि शिरसो दक्षिणभागे रुक् तर्हि दक्षिणां वामे वामाम् अवभेदकेत्यादिना मास्याभिताप्सीदित्यन्तेन मन्त्रेणैकां ध्रुवं विमार्टि | 'क्षेम्यो ह्येव भवति । हि ततः क्षेभ्यः शिरोरोगरहित एवासौ भवतीति ॥ ६॥ ॥ॐ॥
(विश्व०)-' अथा 'षजं ' वक्ष्यत इति सूत्रशेषः । कथमत आह 'पाणी'"ममिति' दक्षिणोत्तरौ पाणी प्रक्षाल्य ताभ्यां दक्षिणोत्तरे भ्रुवौ यथाक्रमं विमार्टि चक्षुर्ष्यामितिमन्त्रेण युगपत् । एतञ्च स्वपरसाधारणम् । 'अर्द्ध' 'प्सीदिति ' अर्द्धचेच्छीर्ष रोगेण पीड्येत तदा पूर्ववत्पाणी प्रक्षाल्य पीडितद्रूपार्श्ववर्तिना हस्तेन तद्भूप्रोन्छनमवभेदकेतिमन्त्रेण । 'क्षेम्यो ह्येव भवति । क्षेभ्यः शिरोरोगरहितः । तृतीयस्य षष्ठी ॥ ६॥
उतूलपरिमेहः ॥ १॥ स्वपतो जीवविषाणे स्वं मूत्रमासिच्यापसलवि त्रिः परिषिञ्चन्परीयात् । परि त्वा गिरेरह परिमातुः परिस्वसुः परिपित्रोश्च भ्रात्रोश्च सख्येभ्यो विसृजाम्यहम् । उतूल परिमीढोऽसि परिमीढः क गमिष्यसीति ॥ २ ॥ स यदि भ्रम्यादावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयात् । परि त्वा ह्वलनो ह्वलनिवृत्तेन्द्रवीरुधः ॥ इन्द्रपाशेन सित्वा मह्यं मुक्त्वाऽथान्यमानयेदिति ॥ ३॥ क्षेम्योद्येव भवति ॥ ४ ॥ ७ ॥
(कर्कः)-'उतूलपरिमेहः । उतूलो दास उच्यते । तस्य भ्रमणशीलस्य वशीकरणाय परिमेहः परिषेकः क्रियते । 'स्वपतो "रीयात् । परि त्वागिरेरहं० इत्यनेन मन्त्रेण । खपतो दासस्य जीवतः पशोर्विषाणे स्वं मूत्रमासिच्यापसव्यं तमेव त्रिः परिषिञ्चपरीयात् परित्वा गिरेरित्यनेन मन्त्रेण । ' स यदि 'हुयात् । स यदि पुनर्धम्यादेव ततो दावाग्निमुपसमाधाय आगन्तुकस्वाञ्चतुर्दशाहुतिकान्ते घृताक्तानि कुशेण्ड्वानि जुहुयात् परित्वाह्वलनोबलमित्यनेन मन्त्रेण । एवं कृते क्षेम्य एव भवति ॥ ७ ॥ ॥*॥
(जयरामः )-उतूलो विवशो दासः तस्य परिमेहो वशीकरणायाभिषेकः । वक्ष्यतइति सूत्रंशेषः । स्वपतो दासस्योपचारः । जीवतः पशोर्विपाणे शृङ्गे स्वं मूत्रमासिच्य तेनैव दासमपसलवि अप्रदक्षिणं परिषिञ्चन् त्रिवार परीयात्परिभ्रमेत् परित्वेतिमन्त्रण । तस्यार्थः । तत्र प्रजापतिरनुष्टुप् वायु : सेचने० । भो उतूल वा त्वां गिरेः पर्वतादपि परि आकृष्य विशिष्टतया सृजामि मय्यनुरक्तं करोमि मात्रादिभ्यश्च । तत्र भगिनीभ्रात्रोर्मातापिनोश्चेति षष्टयौ पञ्चम्यर्थे । परिशब्दावृत्तिमन्त्रशक्तिदााय, सख्येभ्यः सखिभावमापन्नेभ्योऽपि । परिमीढः मन्त्रशक्त्या सेचनरूपैः पाशैर्वद्ध इत्यर्थः । शिष्टं स्पष्टम् । एवं परिमीढोऽपि । पुनर्यदि भ्रम्यात्तदोपायान्तरमाह । दावाग्निमुपस्थान्य । आगन्तुत्वाचतुर्दशाहुत्यन्ते घृताक्तानि कुशेण्ड्वानि कुशकुण्डलानि त्रीणि जुहुयात् परित्वाह्वलनइतिमन्त्रेण । तस्यार्थः । तत्र परमेष्टी अनुष्टुप् इन्द्रो होमे० । भो हल चञ्चल इन्द्रस्य ईश्वरस्य वीरुधः पाशात् सेवकः स्वामिभक्तः स्यादित्येवंरूपात् परि समन्ततो निवृत्त निर्गत्य स्थितः, अथ
१ अपसलमेवेति पाठ.।