________________
३४४
६
पारस्करगृह्यसूत्रम् ।
[ षष्टी
( विश्व० ) - ' अथातोमणिकावधानं ' वक्ष्यते इति सूत्रशेषः । मणिकः शरावाकृतिरुदयात्रम् । एतच्चावसथ्याधानानन्तरं तहिन एव भवति । प्रत्यहीयहोमसाधनी भूतपञ्चमहायज्ञपाकपर्युक्षणादेर्मणिकोदकसाध्यत्वात् । ऋषेः स्वातन्त्र्यादिह सूत्रणम् । अत्रादौ मातृपूजापूर्वकमाभ्युदयिकं श्राद्धमग्नौकरणसहितम् । अतऊर्ध्वमपि क्रियमाणसर्वाभ्युदयिक श्राद्धेऽनौकरणं भवति । तद्धोमश्चावसथ्ये सव्येन दैवत्वाद्धोमस्य । होमशेषस्य पितृपात्रे पिण्डे च प्रक्षेपः श्राद्धकल्पात् । अपरे तु । अग्न्यभावे तु विप्रस्येत्यादिवाक्यानुरोधान्निरग्नेरप्यनौकरणमिच्छन्ति । आचार्यमते तु सान्निध्याभावः । तथाच होमवगृहीताग्नेरेव विप्रकराद्यधिकरणनिर्देशः । नच सूत्रा तदर्थसिद्धेर्वाक्यानर्थक्यम् । एवकारस्याधिकरणान्तरनिषेधकत्वात् । कथं कर्त्तव्यमत आह । 'उत्त'' खात्वा' ऐशान्यामग्नेः । यूवदन देवस्यत्वेत्यभ्रिमादायावढं परिलिखतीद्महमिति । उदकस्पर्शः । प्राचः पांसूद्रापः । ' कुशा'' 'लानि ' कुशान्प्रागग्रानुद्गप्रान्वास्तीर्यावटे । अक्षतान्यवान् अरिष्टकफलानि अन्यानि अभिमङ्गलानि ऋद्धिवृद्धिकारीणि । कपर्दकान् पुष्पाणि सर्वोपधीदूर्वाशमीपत्रसर्षपादीनि अवटे प्रक्षिप्येत्यर्थकञ्चकारः । तस्मि' 'द्रोसीति' तस्मिन्नवटे मणिकं मिनोति स्थापयति समुद्रोसी...योत्यारभ्य शंभूरित्यन्तेन मन्त्रेण भ्वन्तता च मयोभूरित्यवाकशेषेणेतिवक्ष्यमाणत्वात् । ' अप धाइति ' मणिक इति शेषः । ' आपो 'सृभिः ' मणिके अप आसिञ्चतीति समुच्चयार्थश्वकारः । ' ततो'' 'जनं' पञ्च ब्राह्मणान् भोजयेदित्यर्थः । पात्रजलादेर्भशोषादौ समंत्रकं तत्तदावर्तते । ब्रह्मणभोजनं त्वनेः पुनराधाने । तृतीयस्य पश्चमी ॥ ५ ॥
अथातः शीर्षरोगभेषजम् ॥ १ ॥ पाणी प्रक्षाल्य भ्रुवौ मिमार्ष्टि । चक्षुर्म्यां श्रोत्राभ्यां गोदानाच्छुबुकादधि । यक्ष्म शीर्षण्यठरराटाद्दिवृहामीममिति ॥ अर्द्ध चेदवभेदक विरूपाक्ष श्वेतपक्ष महायशः । अथो चित्र - पक्ष शिरो मास्याभिताप्सीदिति ॥ ३ ॥ क्षेम्यो ह्येव भवति ॥ ४ ॥ ६ ॥
( कर्क: ) - 'अथा 'जम् ' व्याख्यास्यते । 'पाणी' 'मार्ष्टि' पाणिभ्यामेव चक्षुर्भ्यामित्यनेन मन्त्रेण । अर्द्ध चेत् शीर्षरोगेण गृह्यते अवभेद इत्यनेन मन्त्रेण भ्रुवि मार्जनम् । एवंच कृते क्षेम्य एव भवति ॥ ६ ॥ 11 11 11% 1
( जयरामः ) -- अथातः शिरोरोगस्य भेजषं निवर्तकम् वक्ष्यत इति सूत्रशेषः । प्रक्षालिताभ्यां पाणिभ्यां सन्यासव्याभ्यां भ्रुवोः सव्यासव्ययोर्यथाक्रमं मार्जनं युगपत् चक्षुर्भ्यामिति मन्त्रेण । तस्यार्थः । तत्र परमेष्ठी अनुष्टुप् वायुरपाकरणे० । चक्षुराद्यङ्गेभ्यः अधि सकाशादिमं यक्ष्मं रोगविशेषम् शीर्षणि भवं शीर्षण्यं विवृहामि पृथक्करोमि निराकरोमीत्यर्थः । तत्र गोदानं शिरोदेशः । शुचुक चिबुकम् । रराटं ललाटम् अर्द्ध चेच्छीर्ष रोगेण गृह्यते तदापि पाणी प्रक्षाल्य पीडित पार्श्ववर्तिना हस्तेन तद्भ्रुमार्जनमवभेदकेति मन्त्रेण । तस्यार्थः तत्र प्रजापतिरनुष्टुप् विरूपाक्षः अपाकरणे ० । अव अवाचीनं कृत्वाऽद्धं भेदयति विदारयति इति हे अवभेदक विरूपे विकृते अक्षिणी यस्मादिति है विरूपाक्ष । श्वेतपक्षेत्यादीन्यन्वर्थसंवोधनानि । भो एवं भूत शिरोरोग अस्य रोगिणः शिरः मा तासीत् । त्वत्प्रसादात् तापयुक्तं माभूत् । यद्वा भवानस्य शिरो मा संतापयत्विति । इत्येवङ्कृते हि निश्चितं क्षेम्य: क्षेमार्होऽयं भवति । एतेनार्द्धशीर्परोगस्वरूपं प्रतिपादितम् || ६ ||
1
( हरिहर: ) - ' अथा जम्' अथ मणिकावधानानन्तरं यतः शिरोरोगवान् किंचित्कर्म कर्तुं न शन्कोति अतो हेतोः शीर्षणि मूर्द्धनि रोगस्तस्य भेषजं प्रतीकारः वक्ष्यत इति सूत्रशेपः ।
॥ * ॥