________________
३४३
host ]
तृतीयकाण्डम् ।
आसिञ्चति । आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च। रायश्च स्थ स्वपत्यस्य पत्नी सरस्वती तद्गुणते वयोधादिति ॥ ३ ॥ आपोहिष्ठेति च तिसृभिः ॥ ४ ॥ ततो ब्राह्मणभोजनम् ॥ ५ ॥ ॥ ५ ॥
( कर्क: ) - ' अथाधानं ' व्याख्यास्यत इति शेषः । मणिकशब्देनालिञ्जरोऽभिधीयते तस्यावस्थानं स्थापनम् । ‘उत्तर द्रोऽसीति ' । शालायामेवोत्तरपूर्वस्यांदिशि यूपवदवटं खात्वा तस्मिन्कुशानास्तीर्य अक्षतानरिष्टकांश्चान्यानि चाभिमङ्गलानिऋद्धिवृद्ध्यादीनि तस्मिन्मिनोति मणिकं समुद्रोऽसीत्यनेन मन्त्रेण शंभूरित्येवमन्तेन । एवमन्तता कथं ज्ञायते । वक्ष्यति ह्युपरिष्टान्मयोभूरित्यनुवाकशेषेणेति । ' अप आसिञ्चति ' आपो रेवतीरित्यनेन मन्त्रेण । ' आपो 'सृभिः ' अप आसिभ्वति । ततो ब्राह्मणभोजनम् ॥ ५ ॥
( जयरामः ) - अथ मणिकस्य अलिञ्जरस्यावधानं स्थापनम् । वक्ष्यत इति सूत्रशेषः । अग्नेरुत्तरपूर्वस्यामीशान्यां दिशि । यूपवदिति देवस्यत्वेत्यभ्यादानम् । आद्दे नारीत्यवटखननम् । तत्र कुशास्तरणम् । अक्षतादीनां च प्रक्षेपः । तत्र मङ्गलानि ऋद्धिवृद्ध्यादीनि । तस्मिन्नवटे मणिकं मिनोति स्थापयति । समुद्रोऽसीत्यादिना शंभूरित्यन्तेन मन्त्रेण । एतदन्तता मयोभूरित्यनुवाकशेषेणेति वक्ष्यमाणत्वात् । आपोरेवतीरिति मन्त्रेण आपोहिष्ठेत्यादितिसृभिश्चापस्तत्रासिञ्चति प्रक्षिपति । तस्यार्थः । आपो रेवतीरिति परमेष्ठी त्रिष्टुप् आपोऽपामासेचने० । हे आपः यूयं रेवती: धनवत्यः 'हि यस्मात् इत्थं वस्त्र: वसुनो धनस्य क्षयथा निवास भूताः स्थ भवथ । किंच भद्रं श्रेष्ठं क्रतुं यज्ञं विभृथ घारयथ । अमृतं रसं ब्रह्म वा फलं वा विभृथ धारयथ । किंच रायो घनस्य स्वपत्यस्य शोभनापत्यस्य पत्नीः स्वामिन्यो यूयं तद्दातुं समर्था इत्यर्थः । तत् युष्मत्स्वरूपं गृणते स्तुवते सरस्वती देवी वय आयुरघात् दधातु ददात्वित्यर्थः ॥ ॥ ५ ॥
I
( हरिहर : ) - ' अथा "धानम् ' । अथ शालाकर्मानन्तरं यतः शालायां मणिकेन भवितव्यमतो मणिकावधानं वक्ष्यत इति सूत्रशेषः । ' उत्तर द्रोऽसीति । तत्र शालाया उत्तरपूर्वस्यामै - शान्यां दिशि यूपवत् अभ्यादानपरिलेखनपूर्वकमवढं मणिकवुनावस्थानपर्यन्तं गर्त्तं खात्वा निखाय ततः प्राचः पांसूनपोह्यावटस्योपरि प्रागमान् दीर्घान् कुशानास्तीर्य स्मृत्वा अक्षातान्यवान् अरिष्टकफलानि अन्यानि च सुमङ्गलानि ऋद्धिवृद्धिसिद्धार्थकादीनि तान्यथास्तीर्य ओप्य चकारः समुच्चयार्थः । तस्मिन्नवटे मणिकमुदकधानी मिनोति स्थापयति " समुद्रोसि नभस्वानार्द्रदानुः शंभूः" इत्येतावता मन्त्रेण । ' अप' ं'वतीरिति ' तस्मिन्मणिके अप अशूद्राहृतनद्याद्युदकमासिञ्चति प्रक्षिपति आपोरेवतीरितिमन्त्रेण । ' आपो सृभिः ' आपोहिष्ठा मयोभुव इत्यादिभिस्तिसृभिर्ऋग्भिः पुनमणिके सकृदप आसिभ्वति । ततो ब्राह्मणभोजनम् । इतिसूत्रार्थः ॥ ॥ अथ पद्धतिः । नतो मणिकावधाननिमित्तमातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा अग्नेरीशानप्रदेशे ' देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् | आददे नार्यसि ' । इति मन्त्रेणाभ्रिमादाय ' इदमहः-रक्षसां ग्रीवा अपि कृन्तामीत्यवटं भाण्डानुमानं परिलिख्य उदकं स्पृष्टा गर्त्त खात्वा प्राच: पांसूनपास्य कुशानास्तीर्य अक्षतानरिष्टकान् ऋद्धिवृद्धिहरिद्रादूर्वासितसर्षपादिमङ्गलद्रव्यं निक्षिप्य तदुपरि 'समुद्रोऽसि नभस्वानादानुः शंभूरित्येतावता मन्त्रेण मणिकमवढे निधाय, ततः आपोरेवती: क्षयथाहि वस्त्रः ऋतुं च भद्रं विभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नी सरस्वती तद्गुणते वयोधादित्यनेन मन्त्रेण । तथा आपोहिष्ठामयो भुव इत्यादितृचेन च सकृन्मणिके अप आसिञ्चति । ततो ब्राह्ममेकं भोजयेत् । इति मणिकावधानम् ॥
I