________________
३४२
पारस्करगृह्यसूत्रम् ।
[ पञ्चमी
"
/
चतुर: ' मन्त्रा इत्यर्थः । चतुर्णामेकमन्त्रता । तथाचानेनैव मन्त्रेण नैर्ऋत्यवायव्यैशान्यावटेषु त्रीन्स्तंभानुच्छ्रयति । प्रत्यवटं स्तम्भोच्छ्रयणे मन्त्रावृत्तिः । यथा चतुर इतिपृथक्सूत्रं, प्राक्सूत्रे मन्त्रकरणकस्तम्भोच्छ्रयणमुक्त कियत्संख्यास्त इत्याकाङ्क्षायामेतत् । ' प्रपद्यते ' प्रविशति । शालायामिति - शेषः । ' अभ्य' 'पद्य इति ' ब्रह्मासनमास्तीर्येत्येतन्मात्रमपवदितुं दक्षिणतो ब्रह्माणमुपवेश्येत्युक्तम् । उदपात्रस्थापननिरुक्तिश्च प्रणीताप्रणयनप्राक्कालिकप्रणीतेतरोदपात्रस्थापनार्था । नव्यत्वाच्छालायां प्रागावसथ्यस्यासत्वादद्भिस्थापनोक्तिः । क्रमश्च पदार्थानाम् । पात्रासादनादौ कांस्ये संभारः । सक्षीराण्यौदुम्बरपत्राणि दूर्वा पल्लवा गोमयं दधि मधु घृतं कुशा यवा आज्यस्थालीद्वयम् । ग्रहणे अम्मय इन्द्राय बृहस्पतये विश्वेभ्योदेवेभ्यः सरस्वत्यै वाजिभ्यः सर्पदेवजनेभ्यो हिमवते वसुभ्यो रुद्रेभ्य आदित्येभ्य ईशानाय जगदेभ्यः पूर्वाह्नायाऽपराहाय मध्यंदिनाय प्रदोषार्द्धरात्राय व्युष्ट्यैदेव्यै महापथायै क विक विश्वकर्मणे षधीभ्यो वनस्पतिभ्यः धात्रे विधात्रे निधीनांपतये ब्रह्मणे प्रजापतये सर्वाभ्यो देवताभ्यो जुष्टं गृहामि । प्रोक्षणे त्वाशब्दः । प्रकृताज्यस्थाल्यामाज्यनिर्वापः । अन्यत्सर्व प्रकृतिवत् । एवं स्थालीपाकर अपयित्वा भिघार्योद्वास्य शालाया वहिर्निष्क्रम्य द्वारसमीपे स्थित्त्रा ब्रह्माणं विलोकयन् प्रार्थयते ब्रह्मन्प्रविगामीति, प्रविशस्वेत्यनुज्ञातो ब्रह्मणा ऋतं प्रपद्ये शिवंप्रपद्य इतिप्रविशति । ततः प्राणदानादिपर्युक्षणान्ते । ' आज्य धिनः स्वाहेति ' ततः द्वितीयामाज्यस्थाल्यां निरुध्याज्यमधिश्रित्येत्यादि पूर्णाहुत्तिवदाव्यं संस्कृत्येहरतिरुपसृजन्नितिद्वाभ्यां कण्डिकाभ्यां द्वे आज्याहुती हुत्वा इदमग्नय इतित्यक्त्वा इदंपशुभ्य इति वा । ततो वास्तोष्पत इति चतसृभिर्ऋग्भिरपराश्चतस्र आहुतीः प्रत्यृचं जुहोतीत्यर्थः । इद्वास्तोष्पतये इति चतसृषु त्यागः । ततो द्वितीयाज्येनाधारयोराज्यभागयोव होम: । 'स्थाली' ''स्वाहेति' एभिः पभिर्मन्त्रैः प्रतिमन्त्रं स्थालीपाकेन षडाहुतीर्जुहोति । त्यागास्तु–इदमग्नय इन्द्राय वृहस्पतये विश्वेभ्योदेवेभ्यः सरस्वत्यैवाजिभ्यश्च १ ॥ इदं सर्पदेवजनेभ्यो हिमवतेवसुभ्योरुद्रेभ्यआदित्येभ्यईशानायजगदेभ्यश्व २ ।। इदं पूर्वाह्नाया पराहा यमध्यंदिनायप्रदोपायार्द्धरात्रायव्युष्टयै देव्यैमहापथायैच ३ ॥ इदं कर्त्रेविकर्षेविश्वकर्मणे ओपथीभ्योवनस्पतिभ्यश्च ४ ॥ इदंधात्रे विधात्रेनिधीनांपतये च ५ ॥ इहं ब्रह्मणे प्रजापतये सर्वाभ्योदेवताभ्यः ६ ॥ ' प्राश"प्रोक्षेत्' विष्ट कृद्धोमादिदक्षिणादानान्तं प्राशनान्तं तस्मिन् संजाते कांस्ये पात्रे, सुरा क्षीरं, शाडुलं दूर्वा पल्लवाः, आस्यते येषु रम्येषु तानि मञ्चकपीठादीनि आसनानि उपस्थीयते सुखाद्यर्थे येषु तुलारामादीनि आसनानि । उपस्थानानि च मञ्चकदोलादीनि । तेपु प्रोक्षेत् तेषां प्रोक्षणं कुर्यादित्यर्थः । ' पूर्वे "येतामिति ' पूर्वा प्राची तस्यां वर्तमानो यो दिगन्तरसंधिः तस्मिन्नाग्नेयकोण इत्यर्थः । नचैशानकोणः कुतो नेति वाच्यम् । उत्तरसूत्रे दक्षिणदिक्संघेः सूत्रणात्प्रादक्षिण्याव्यवधानयोश्च न्याय्यत्वात् । ' दक्षिणे’‘येतामिति ' संधिपदव्याख्यापूर्ववत् । अन्यत्स्पष्टम् । 'निक "येतामिति : निगद्व्याख्याता चतुःसूत्री । 'निष्ठिर्वत इति निष्ठितां निष्पन्नां प्रपद्यते प्रविशति 'धर्मस्थूणाराजमिति मन्त्राभ्यां प्रवेशनं च सहिरण्यस्य पूर्णोदकुम्भसहितस्य पुण्याहे वेदघोपादिब्राह्मणाशीर्वादपुरस्सरं गृहपतेः । ततः ब्राह्मणेभ्यो दक्षिणां दत्त्वा स्वस्तिवाच्या शिपः प्रतिगृह्य - बर्हिहोमादि त्राह्मणभोजनान्तम् । ' ततो जनं ' कर्मापवर्गे एकस्मै भोजनं दत्त्वा पुनः कर्मसा या दश पea वा विप्रान्भोजयेत् । तृतीयस्य चतुर्थी ॥ ४ ॥
अथातो मणिकावधानम् ॥ १ ॥ उत्तरपूर्वस्यां दिशि यूपवदवटं खात्वा कुशानास्तीर्याक्षतानरिष्टकां ( सुमनसः कपर्दिकान् ) चान्यानि चाभिमङ्गलानेि तस्मिन् मिनोति, मणिकर्ट समुद्रोऽसीति ॥ २ ॥ अप