________________
३४१
कण्डका ]
तृतीयकाण्डम् |
च वास्तु मे दत्त वाजिनः स्वाहेति प्रथमा । इदमग्नये इन्द्राय वृहस्पतये विश्वेभ्यो देवेभ्यः सरस्वत्यैः वाज्यै च० । सर्पदेवजनान् सर्वान् हिमवन्तः • सुदर्शनम् । वसूंश्च रुद्रानादित्यानीशानं जगदै । सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति द्वितीयाम् । इदं सर्पदेवजनेभ्यो हिमवते' सुदर्शनाय वसुभ्यो रुद्रेभ्य आदित्येभ्य ईशानाय जगदेभ्यश्च० । पूर्वाह्नमपराहं चोभौ मध्यंदिना सह । प्रदोषमर्द्धरात्रं च व्युष्टां देवीं महापथाम् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति तृतीयाम् । इदं पूर्वाह्वायापराह्नाय मध्यन्दिनाय प्रदोपायार्द्धरात्राय व्युष्टायै देव्यै महापथायै च० । कर्तारं च विकर्तारं विश्वकर्माणमोषधीश्च वनस्पतीन् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति चतुर्थीम् । इदं कर्त्रे विकत्रे विश्वकर्मणे ओषधिभ्यो वनस्पतिभ्यश्च ० । धातारं च विधातारं निधीनां च पतिः सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति पञ्चमीम् । इदं धात्रे विधात्रे निधीनां पतये च० । स्योनः- शिवमिदं वास्तु मे दत्तं ब्रह्मप्रजापती । सर्वाश्वदेवताः स्वाहेति पष्ठीम् । इदं ब्रह्मणे प्रजापतये सर्वाभ्यो देवताभ्यश्च० । ततः स्थालीपाकेन स्त्रिष्टकृतं हुत्वा महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवान् प्राश्य ब्रह्मणे दक्षिणां दत्वा कांस्यपात्रे ऽनुपहते सक्षी - राण्यौदुम्बरपर्णानि दूर्वागोमयदधिमधुघृतकुशयवांश्च संभारान्कृत्वा आसनानि नागदन्तस्थानानि उपस्थानानि च देवतास्थानानि प्रोक्षेत् तैः पत्रादिसम्मारै: । अथ पूर्वे संधौ, श्रीश्च त्वा यशश्च पूर्वे संधौ गोपायेतामिति मन्त्रेणाभिमर्शनं करोति । ततो दक्षिणे संधौ, यज्ञस्य त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति । अथानन्तरं पश्चिमे सन्धौ, अन्नं च त्वा ब्राह्मणश्च पश्चिमे संघौ गोपायेतामिति । अथोत्तरे संधौ, ऊर्कुच त्वा सूनृता चोत्तरे संधौ गोपायेतामिति । अथ गृहान्निष्क्रम्य वक्ष्यमाणमन्त्रैर्यथालिङ्गं दिश उपतिष्ठते । केता च मा सुकेताच पुरस्ताद्गोपायेतामित्यग्निर्वै केतादित्यः सुकेता तौ प्रपद्येताभ्यां नमोऽस्तु तौ मा पुरस्ताद्गोपायेतामिति मन्त्रेण प्राचीं दिशमुपस्थाय, अथ दक्षिणतः, गोपायमानं च मा रक्षमाणा च दक्षिणतोगोपायेतामित्यहर्वै गोपायमानध:: रात्री रक्षमाणा ते प्रपद्येताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति दक्षिणां दिशमुपस्थाय, अथ पश्चाद्दीदिविश्व मा जागृविश्व पश्चाद्गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चाद्गोपायेतामिति मन्त्रेण पश्चिमामुपस्थाय, अथोत्तरतः, अस्वप्रश्च मानवद्राणश्चोत्तरतो गोपायेतामिति चन्द्रमा वा अस्वप्नो वायुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मोत्तरतो गोपायेतामिति मन्त्रेणोत्तरामुपतिष्ठते । ततः समाप्तायां शालायां ज्योतिर्विदुपदिष्टे पुण्येऽहनि ‘ प्रवेशे नववेश्मन ’इतिवचनान्मातृपूजाभ्युदयिकश्राद्धे विधाय ब्राह्मणैः कृतस्वस्त्ययनो मङ्गलतूर्यगीतशान्तिपाठेन सजलकलशत्राह्मणपुरःसरः शुक्कुमाल्यानुलेपनस्तादृशसकलपुत्रपौत्रकलत्रादिसमेतः सुशकुनसूचिताभ्युदयस्तोरणाढ्यां शालां द्वारेण प्रविशति । धर्मस्थूणाराज श्रीस्तूपमहोरात्रे द्वारफलके इन्द्रस्य गृहावसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मेकिंचि - दस्त्युपहूतः सर्वगणसखायसाधुसंवृत्तः तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वत इत्यनेन प्रविशेत् । ततो ब्राह्मणभोजनम् ॥ इति शालाकर्म ॥ ४ ॥ ॥ * ॥
( विश्व० ) - ' अथातः शालाकर्म ' वक्ष्यतइति सूत्रशेष: ' पुण्यायेत्' शिल्पिभिरिति शेषः । अत्रापि मातृपूजाभ्युदयिके । ' तस्या 'हेति ' पूर्णाहुतिवदाज्यं संस्कृत्य देवस्यत्वेत्यभ्रिमादाय शालाया आग्नेयनैर्ऋत्यवायव्यैशानेषु क्रमेणेदमह रक्षसामित्यवटान्खात्वा प्राचः पांशून्प्रक्षिप्य परिस्तरणपूर्वकं प्रत्यवटं स्रुवेणाभिजुहोति । मन्त्रमाह — अच्युताय भौमायस्वाहेति । इदमच्युतायभौ - मायेति त्यागः । ' स्तंभ 'सानइति' इमामुच्छ्रयामीत्यादिना श्रेयोवसानइत्यन्तेनाग्नेयकोणावटे स्त म्भमुच्छ्रयति । उच्छ्रितं यथा स्यात्तथा मूलांशं स्तंभस्य क्षिपतीत्यर्थः । स्तम्भाभावे शिलाविन्यासः ।